________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः "किंचूर्ण" ति किञ्चिदून मुहूर्त जघन्या स्थितिरिति // 39 // तिर्यङ्-मनुष्यायुषोर्जघन्या स्थितिः क्षुल्लकभवप्रमाणा भवतीति प्रागुक्तम् , ततस्तं क्षुल्लकभवं सप्रपञ्चं निरूपयितुकामो गाथायुगलमाह सत्तरस समहिया किर, इगाणुपाणुम्मि हुंति खुड्डुभवा / सगतीससयतिहुत्तर, पाणू पुण इगमुहुत्तम्मि // 40 // पणसहिसहस पणसय, छत्तीसा इगमुहुत्त खुड्डभवा / आवलियाणं दो सय, छप्पन्ना एगखुड्डुभवे // 41 // सप्तभिरधिका दश सप्तदश 'समधिकाः' किञ्चित्समर्गलाः 'किल' इत्याप्तोक्तावित्येवं ब्रुवते / 'एकाऽऽनप्राणे' हृष्टानवकल्पादिगुणोपेतस्य जन्तोरेकस्मिन्नुच्छासनिःश्वासरूपे भवन्ति क्षुल्लकाः / सूत्रे च "आणुपाणुम्मि" ति उकारः "खराणां खराः” ( सिद्ध० 8-4-237) इति प्राकृतसूत्रेण / अयमर्थः-एकस्मिन् प्राणापाने क्षुल्लकभवाः समधिकाः सप्तदश भवन्तीति किलाप्ता ब्रुवते / एते च साधिकसप्तदश क्षुल्लकभवा मुहूर्तगतक्षुल्लकभवग्रहणराशेर्वक्ष्यमाणगाथोपन्यस्तस्य भाज्यस्य मुहूर्तगतप्राणापानराशिनैव भागे हृते लभ्यन्ते, अतः प्रथम मुहूर्तान्तर्गतप्राणापानराशेर्भागहारकरूपस्य प्रमाणनिरूपणार्थमाह—“सगतीससयतिहुत्तर” इत्यादि / सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि, अङ्कतोऽपि 3773, “पाणु" त्ति प्राकृतत्वात् 'प्राणापानाः' उच्छासनिःश्वासाः पुनः 'एकमुहूर्ते' घटिकाद्वयरूपे भवन्ति // 40 // उक्तो भागहारको राशिः / अधुना भाज्यस्य मुहूर्तगतक्षुल्लकभवग्रहणराशेः प्रमाणमाह "पणसट्ठि" इत्यादि। विभक्तिलोपात् पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशानि' षट्त्रिंशदधिकानि, अङ्कतोऽपि 65536, एकमुहूर्ते क्षुल्लकभवाः, एकमुहूर्तक्षुल्लकभवग्रहणानि भवन्तीत्यर्थः। पञ्चषष्टिसहस्रपञ्चशतषट्त्रिंशदधिकलक्षणस्य मुहूर्तगतक्षुल्लकभवग्रहणराशेर्भाज्यस्य मुहूर्तगतप्राणापानराशिना त्रिसप्तत्यधिकसप्तत्रिंशच्छतप्रमाणेन भागे हृते सति यद् लभ्यते तद् एकत्र प्राणापाने क्षुल्लकभवग्रहणप्रमाणं भवतीति / तानि तु सप्तदश 17 / तथा यैर्भागहाराङ्कमानरंशैः क्षुल्लकभवग्रहणं भवति ते त्वत्रैकत्र प्राणापानेऽष्टादशस्यापि क्षुल्लकभवग्रहणस्यांशाः पञ्चनवत्यधिकत्रयोदशशतप्रमाणा अवशिष्यन्ते, अष्टसप्तत्यधिकत्रयोविंशतिशतानि चांशानां न पूर्यन्ते इति / स्थापना—१७, अंशाः-१३९५, शेषांशाः-२३७८ | अतो यदुक्तम्-“सत्तरस समहिया किर, इगाणुपाणुम्मि हुंति खुड्डभवा" इति तद् युक्तमिति / क्षुल्लकभवग्रहणं च सर्वेषामप्यौदारिकशरीरिणां भवतीत्यवसेयम् , भगवत्यामेवमेवोक्तत्वात् , कर्मप्रकृत्यादिषु औदारिकशरीरिणां तिर्यङ्-मनुष्याणामायुषो जघन्यस्थितेः क्षुल्लकभवग्रहणरूपायाः प्रतिपादनाच्च / यत् पुनरावश्यकटीकायां क्षुल्लकभवग्रहणं वनस्पतिष्वेव प्राप्यत इत्युक्तं तन्मतान्तरमित्यवसीयत इति / साम्प्रतमेकस्मिन् क्षुल्लकभवग्रहणे आवलिकाद्वारेण कालमानं निरूपयितुकामो यावत्य आवलिका एकस्मिन् क्षुल्लकभवग्रहणे भवन्त्येतदेवाह-"आवलियाणं दो सय” इत्यादि / 'आवलिकानां' असंखिज्जाणं समयाणं समुदयसमिइसमागमेण सा एगा आवलिय ति वुच्चइ / ( अनुयो० पत्र 1 असंख्येयानां समयानां समुदयसमितिसमागमेन सा एका आवलिकेत्युच्यते //