________________ 40-42] शतकनामा पञ्चमः कर्मग्रन्थः। 178-2) इत्यागमप्रतिपादितस्वरूपाणां द्वे शते षट्पञ्चाशदधिके भवतः 'एकक्षुल्लकभवे' एकक्षुल्लकभवग्रहण इति // 41 // प्रतिपादितं स्थितिबन्धप्रसङ्गागतं क्षुल्लकभवग्रहणप्रमाणम् / उक्त उत्कृष्टस्थितिबन्धो वैक्रियषट्कवों जघन्यस्थितिबन्धश्च सर्वाः प्रकृतीराश्रित्य / सम्प्रत्येता एव प्रकृतीः प्रतीत्योत्कृष्टस्थितिबन्धस्वामिनो निरूपयन्नाह अविरयसम्मो तित्थं, आहारदुगामराउ य पमत्तो। मिच्छद्दिट्टी बंधइ, जिट्ठठिइं सेसपयडीणं // 42 // 'अविरतसम्यक्त्वः' अविरतसम्यग्दृष्टिः "व्याख्यानतो विशेषप्रतिपत्तिः” इति न्यायाद् मनुष्यः पूर्वं नरकबद्धायुष्को नरकं जिगमिषुरवश्यं मिथ्यात्वं यत्र समये प्रतिपद्यते ततोऽनन्तरेऽर्वाक्स्थितिबन्धे "तित्थं" ति तीर्थकरनाम उत्कृष्टस्थितिकं बध्नाति, "तित्थयर पि मणूसो, अविरयसम्मे समजेइ॥" ( शत० गा० 60) इति वचनात् / इयमत्र भावना तीर्थकरनाम्नो ह्यविरतसम्यग्दृष्ट्यादयोऽपूर्वकरणावसाना बन्धका भवन्ति किन्तूत्कृष्टा स्थितिरुत्कृष्टसंक्लेशेन बध्यते, स च तीर्थकरनामबन्धकेष्वविरतस्यैव यथोक्तविशेषणविशिष्टस्य लभ्यत इति शेषव्युदासेनास्यैवोपादानमिति भावः। तत्र तिर्यञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच भवप्रत्ययेनैव न भवन्तीति मनुष्यग्रहणम् / बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनरकायुर्नरकं न व्रजतीति पूर्व नरकबद्धायुष्कस्य ग्रहणम् , क्षायिकसम्यग्दृष्टिश्च श्रेणिकादिवत् ससम्यक्त्वोऽपि कश्चिन्नरकं प्रयाति, किन्तु तस्य विशुद्धत्वेनोत्कृष्टस्थितिबन्धकत्वात् तस्या एव चेह प्रकृतत्वाद् नासौ गृह्यते, अतस्तीर्थकरनामकर्मोत्कृष्टस्थितिबन्धकत्वाद् मिथ्यात्वाभिमुखस्यैव ग्रहणमिति / तथा 'आहारकद्विकम्' आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणं “पमत्तु" ति प्रमत्तसंयतोप्रमत्तभावान्निवर्तमान इति विशेषो दृश्यः, उत्कृष्टस्थितिकं बध्नाति / अशुभा हीयं स्थितिरित्युत्कृष्टसंक्लेशेनैवोत्कृष्टा बध्यते, तद्वन्धकश्च प्रमत्तयतिरप्रमत्तभावान्निवर्तमान एवोत्कृष्टसंक्लेशयुक्तो लभ्यत इतीत्थं विशिष्यते / तथा 'अमरायुः' देवायुष्कं प्रमत्तसंयतः पूर्वकोट्यायुरप्रमत्तभावाभिमुखो वेद्यमानपूर्वकोटीलक्षणायुषो भागद्वये गते सति तृतीयभागस्याडसमये उत्कृष्टस्थितिकं पूर्वकोटित्रिभागाधिकत्रयस्त्रिंशत्सागरोपमकोटीलक्षणं बध्नाति / पूर्वकोटीत्रिभागस्य द्वितीयादिसमयेषु बनतो नोत्कृष्टं लभ्यते, अबाधायाः परिगलितत्वेन मध्यमत्वप्राप्तेरित्याद्यसमयग्रहणम् / अप्रमत्तभावाभिमुखताविशेषणं तर्हि किमर्थम् ? इति चेद् उच्यते-शुभेयं स्थितिर्विशुद्धया बध्यते, सा चास्याप्रमत्तभावाभिमुखस्यैव लभ्यत इति। तबप्रमत्त एव कस्माद् एतद्वन्धकत्वेन नोच्यते ? इति चेद् उच्यते-अप्रमत्तस्यायुर्बन्धारम्भनिषेधात् , “देवाउयं पमत्तो” (शत० गा०६०) इति वचनात् प्रमत्तेनैवारब्धमायुर्बन्धमप्रमत्तः कदाचित् समर्थयते, “देवाउयं च इक्कं, ' नायवं अप्पमत्तम्मि" (बृ० कर्मस्तवगा० 19) इति वचनात् / शेषाणां षोडशोत्तरशतसङ्ख्यप्रकृतीनां 'ज्येष्ठस्थितिम्' उत्कृष्टस्थितिं मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टो बध्नाति, यतः .1 तीर्थकरमपि मनुष्योऽविरतसम्यक्त्वः समर्जयति // 2 देवायुष्कं प्रमत्तः // 3 देवायुष्कं चैकं हातम्यं अप्रमत्ते॥