________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः स्थितिरशुभा संक्लेशप्रत्यया च, संक्लिष्टश्च बन्धकेषु मध्ये मिथ्यादृष्टिरेव भवतीति भावः / अत्र च प्रायोवृत्त्या सर्वसंक्लिष्टत्वमुच्यते, यावता तिर्यङ्-मनुष्यायुषी उत्कृष्ट तत्प्रायोग्यविशुद्धो बध्नातीति द्रष्टव्यम् , तयोः शुभस्थितिकत्वेन विशुद्धिजन्यत्वात् / उक्तं च संबठिईणं उक्कोसओ उ उक्कोससंकिलेसेण / विवरीए य जहन्नो, आउगतिगवज सेसाणं // (शत० गा० 58) इति / ननु यदि विशुद्धित इदमायुष्कद्वयं बध्यते तर्हि मिथ्यादृष्टेः सकाशात् सास्वादनो विशुद्धतरः प्राप्यते, स कस्माद् एतद्वन्धकत्वेन नोक्तः ? न च वक्तव्यं तिर्यङ्-मनुष्यायुषी साखादनो न बध्नाति, तद्वन्धस्य सप्ततिकादिष्वस्यानुज्ञानात् , तथा चोक्तमायुःसंवेधभङ्गकावसरे सप्ततिटीकायाम् तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तिर्यङ्-मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा / मनुष्यायुषो बन्धो मनुष्यायुष उदयो मनुष्य-मनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा / ( पत्र 131-2) तत् कथमुक्तं “मिच्छद्दिट्टी बंधइ, जिट्टठिई सेसपयडीणं // "? इति। अत्र प्रतिविधीयतेसत्यामपि हि सामान्यतो मनुष्य-तिर्यगायुबन्धानुज्ञायामसङ्ख्येयवर्षायुष्कयोग्यमुत्कृष्टं प्रस्तुतायुयं साखादनो न निवर्तयति, सास्वादनस्य गुणप्रतिपाताभिमुखत्वेन गुणाभिमुखविशुद्धमिथ्यादृष्टेः सकाशाद् विशुद्धयाधिक्यस्यानवगम्यमानत्वात् , शास्त्रान्तरेऽपि च मिथ्यादृष्टेः सकाशादविरतादय एव यथोत्तरमनन्तगुणविशुद्धाः पठ्यन्ते, न सास्वादनः / न चैतन्निजमनीषिकाशिल्पिकल्पितम् , यदाहुः शिवशर्मसूरिपूज्याः सव्वुक्कोसठिईणं, मिच्छद्दिट्ठी उ बंधओ भणिओ। आहारग तित्थयरं, देवाउं वा वि मुत्तूणं // (शत० गा० 59.) // 42 // इह पूर्व संक्लिष्टो मिथ्यादृष्टिः षोडशोत्तरप्रकृतिशतस्योत्कृष्टस्थितिबन्धकः सामान्येनैवोक्तः / स च नारकादिभेदेन चिन्त्यमानश्चतुर्धा भवति, ततो नारकास्तिर्यञ्चो मनुष्या देवाश्च मिथ्यादृष्टयः पृथकू केषां कर्मणां स्थितीरुत्कृष्टा बध्नन्ति ? इति भेदतश्चिन्तयन्नाह विगलसुहुमाउगतिगं, तिरिमणुया सुरविउविनिरयदुगं / एगिदिथावरायव, आ ईसाणा सुरुक्कोसं // 43 // त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् विकलत्रिकं-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातिलक्षणम् , सूक्ष्मत्रिकं-सूक्ष्मा-ऽपर्याप्त-साधारणरूपम् , आयुस्त्रिकं-देवायुर्वर्ज नारक-तिर्यङ्-मनुष्यायुर्लक्षणम् , द्विकशब्दस्यापि प्रत्येकं सम्बन्धात् सुरद्विकं-सुरगति-सुरानुपूर्वीस्वरूपम् , वैक्रियद्विकंवैक्रियशरीर-वैक्रियाङ्गोपाङ्गलक्षणम् , नरकद्विकं-नरकगति-नरकानुपूर्वीलक्षणमित्येतासां पञ्चदशप्रकृतीनामुत्कृष्टां स्थितिं तिर्यङ्-मनुष्या एव मिथ्यादृष्टयो बध्नन्ति न देव-नारकाः / नारका ह्येतासां मध्ये तिर्यङ्-मनुष्यायुर्द्वयं मुक्त्वा शेषास्त्रयोदशप्रकृतीर्भवप्रत्ययेनैव न 1 सर्वस्थितीनामुत्कृष्टकस्तु उत्कृष्टसंक्लेशेन / विपरीते च जघन्य आयुष्कत्रिकवर्ज शेषाणाम् // 2 सर्वोत्कृष्टस्थितीनां मिथ्यादृष्टिस्तु बन्धको भणितः। आहारकं तीर्थकरं देवायुः वाऽपि मुक्त्वा // .