________________ 41 13-44] शतकनामा पञ्चमः कर्मग्रन्थः। बधन्ति; तिर्यङ्-मनुष्यायुषोरपि देवकुर्वादिप्रायोग्य उत्कृष्टस्त्रिपल्योपमलक्षणः स्थितिबन्धः प्रकृतः, तत्र च देव-नारका भवप्रत्ययादेव नोत्पद्यन्ते इत्येतद्वन्धोऽप्यमीषां न सम्भवति; तस्मादेते तिर्यङ्-मनुष्यायुषी उत्कृष्टस्थितिके पूर्वकोट्यायुषस्तिर्यङ्-मनुष्या मिथ्यादृष्टयस्तत्प्रायोग्यविशुद्धाः खायुस्त्रिभागाद्यसमये वर्तमाना बध्नन्ति; सम्यग्दृष्टेरतिविशुद्धमिथ्यादृष्टेश्च देवायुर्बन्धः स्यादिति मिथ्यादृष्टित्व-तत्प्रायोग्यविशुद्धत्वविशेषणद्वयम् / नारकायुषः पुनरेत एव तत्प्रायोग्यसंक्लिष्टा वाच्याः, अत्यन्तशुद्धस्यात्यन्तसंक्लिष्टस्य चायुर्वन्धस्य सर्वथा निषेधादिति / नरकद्विकवैक्रियद्विकयोस्त्वेत एव सर्वसंक्लिष्टाः पूर्वोक्तोत्कृष्टस्थितेर्बन्धका वाच्याः / विकलजातित्रिकसूक्ष्मत्रिकयोस्तु तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः, अतिसंक्लिष्टा हि प्रस्तुतप्रकृतिबन्धमुल्लच्य नरकप्रायोग्यमेव निर्वतयेयुः; विशुद्धास्तु विशुद्धितारतम्यात् पञ्चेन्द्रियतिर्यक्प्रायोग्यं वा मनुष्यप्रायोग्यं वा देवप्रायोग्यं वा रचयेयुरिति तत्प्रायोग्यसंक्लेशग्रहणम् / देवद्विकस्यापि तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः, अतिसंक्लिष्टानामधोवर्तिमनुष्यादिप्रायोग्यबन्धप्रसङ्गात् , विशुद्धौ पुनरुत्कृष्टबन्धाभावादिति भाविताः पञ्चदशापि प्रकृतयः / तथा एकेन्द्रियजाति-स्थावरनामा-ऽऽतपनामलक्षणस्य प्रकृतित्रिकस्य 'आ ईशानाद्' ईशानदेवलोकमभिव्याप्य 'सुराः' देवाः, कोऽर्थः ? भवनपतयो व्यन्तरा ज्योतिष्काः सौधर्मेशानदेवाः “उक्कोसं" ति उत्कृष्टां स्थितिं बध्नन्ति / तथाहिईशानादुपरितनदेवा नारकाश्च एकेन्द्रियेषु नोत्पद्यन्त इत्येकेन्द्रियप्रायोग्याण्येतानि न बघ्नन्त्येवेति तन्निषेधः, तिर्यङ्-मनुष्यास्त्वेतावति संक्लेशे वर्तमाना एतद्वन्धमतिक्रम्य नरकप्रायोग्यमेव बघ्नन्तीति तेषामपि निषेधः, ईशानान्तास्तु देवाः सर्वसंक्लिष्टा अप्येकेन्द्रियप्रायोग्यमेव बध्नन्ति, अतस्त एव स्थावर-एकेन्द्रिया-ऽऽतपलक्षणप्रकृतित्रयस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टस्थितिं बघ्नन्तीति // 43 // तिरिउरलदुगुज्जोय, छिवट्ठ सुरनिरय सेस चउगइया / आहारजिणमपुवोऽनियहि संजलण पुरिस लहुं // 44 // द्विकशब्दस्य प्रत्येकं सम्बन्धात् तिर्यग्द्विकं-तिर्यग्गति-तिर्यगानुपूर्वीरूपम् , औदारिकद्विकम्-औदारिकशरीर-औदारिकाङ्गोपाङ्गलक्षणम् , उद्योतनाम सेवार्तसंहनननाम इत्येतासां षण्णां प्रकृतीनामुत्कृष्टस्थितिं सुर-नारका बध्नन्ति, सर्वत्र विभक्तिलोपः प्राकृतत्वात् , न मनुष्य-तिर्यश्चः, ते हि तद्वन्धार्हसंक्लेशे वर्तमाना एतासां षट्प्रकृतीनामुत्कृष्टतोऽप्यष्टादशकोटीकोटिलक्षणामेव मध्यमां स्थितिमुपरचयन्ति; अथाऽभ्यधिकसंक्लेशे वर्तमाना गृह्यन्ते तर्हि प्रस्तुतप्रकृतिबन्धमतिक्रम्य नरकप्रायोग्यमुपरचयेयुः; देव-नारकास्तु सर्वोत्कृष्टसंक्लेशा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्ति न नरकगतिप्रायोग्यम् , तत्र तेषामुत्पत्त्यभावात् ; तस्माद् देव-नारका एव सर्वसंक्लिष्टाः प्रस्तुतप्रकृतिषट्कस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टां स्थितिं रचयन्ति / अत्र च सामान्योक्तावपि सेवार्तसंहनन-औदारिकाङ्गोपाङ्गलक्षणप्रकृतिद्वयस्योत्कृष्टस्थितिबन्धका देवा ईशानादुपरितनसनत्कुमारादय एव द्रष्टव्या नेशानान्ता देवाः, ते हि तत्प्रायोग्यसंक्लेशे वर्तमानाः प्रकृतप्रकृतिद्वयस्योत्कृष्टतोऽप्यष्टादशकोटीकोटीलक्षणां मध्यमामेव स्थितिं रचयन्ति / अथ