________________ 42 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः सर्वोत्कृष्टसंक्लेशा गृह्यन्ते तकेन्द्रियप्रायोग्यमेव निवर्तयेयुः, न चैकेन्द्रियप्रायोग्यबन्धे एते प्रकृती बध्येते, तेषां संहननोपाङ्गाभावात् , "सुरनेरइया एगिदिया य सबे असंघयणी” (जिनभ० सं० गा० 164) इति वचनात् / सनत्कुमारादिदेवाः पुनः सर्वसंक्लिष्टा अपि पञ्चेन्द्रियतिर्यक्प्रायोग्यमेव बध्नन्ति नैकेन्द्रियप्रायोग्यम् , तेषामेकेन्द्रियेषुत्पत्त्यभावात् / तस्मात् प्रस्तुतप्रकृतिद्विकस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टस्थितिं सर्वसंक्लिष्टाः सनत्कुमारादय एव बनन्ति नाधस्तना देवा इति। तदेवं जिननामा-ऽऽहारकद्विक-देवायुः-विकलत्रिक-सूक्ष्मत्रिका-ऽऽयुष्कत्रिक-देवद्विक-वैक्रियद्विक-नरकद्विक-एकेन्द्रियजाति-स्थावरनामा-ऽऽतपनाम-तिर्यग्विक-औदारिकद्विक-उद्योतनाम-सेवार्तसंहननलक्षणानामष्टाविंशतिप्रकृतीनामुत्कृष्टस्थितिबन्धखामिन उक्ताः, शेषप्रकृतीनां तु का वार्ता ? इत्याशक्याह-"सेस चउगइय" त्ति भणिताष्टाविंशतिप्रकृतिभ्यः 'शेषाणां' द्विनवतिसङ्ख्यप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्टां स्थिति बध्नन्ति / तत्रैतासु मध्ये वर्णचतुष्क-तैजस-कार्मणा-ऽगुरुलघु-निर्माण-उपघात-भय-जुगुप्सामिथ्यात्व-कषायषोडशक-ज्ञानावरणपञ्चक-दर्शनावरणनवका-ऽन्तरायपञ्चकलक्षणानां सप्तचत्वारिंशतो ध्रुवबन्धिप्रकृतीनां पूर्वव्यावर्णितस्वरूपाणां तथाऽध्रुवबन्धिनीनामपि मध्येऽसाता-ऽरतिशोक-नपुंसकवेद-पञ्चेन्द्रियजातिहुण्डसंस्थान-पराघात-उच्छासा-ऽशुभविहायोगति-त्रस-बादरपर्याप्त-प्रत्येका-ऽस्थिरा-ऽशुभ-दुःस्वर-दुर्भगा-ऽनादेया-ऽयशःकीर्ति-नीचैर्गोत्रलक्षणानां च विंशतेः प्रकृतीनां सर्वोत्कृष्टसंक्लेशेनोत्कृष्टां स्थितिं चतुर्गतिका अपि मिथ्यादृष्टयो बध्नन्ति / शेषाणां त्वध्रुवबन्धिनीनां सात-हास्य-रति-स्त्री-पुंवेद-मनुष्यद्विक-सेवार्तवर्जसंहननपञ्चक-हुण्डवर्जसंस्थानपञ्चक-प्रशस्तविहायोगति-स्थिर-शुभ-सुभग-सुखरा-ऽऽदेय-यशःकीर्ति-उच्चैर्गोत्रलक्षणानां पञ्चविंशतिप्रकृतीनां तद्वन्धकेषु तत्प्रायोग्यसंक्लिष्टाश्चतुर्गतिका अपि मिथ्यादृष्टय उत्कृष्टां स्थिति बध्नन्तीति / उक्ता उत्कृष्टस्थितिबन्धस्वामिनः, अथ जघन्यस्थितिबन्धस्वामिन आह—“आहारजिणमपुवो" इत्यादि / आहारकद्विकं जिननाम “लहुं" ति. 'लघुस्थितिकं' जघन्यस्थितिकं करोतीति शेषः। कः? इत्याह-"अपुव्वु" ति पदैकदेशे पदसमुदायोपचाराद् 'अपूर्वः' अपूर्वकरणक्षपकस्तद्वन्धस्य चरमस्थितिबन्धे वर्तमानः स्थितिमाश्रित्येत्यर्थः, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् , तिर्यङ्-मनुष्य-देवायुर्वकर्मणां च जघन्यस्थितेर्विशुद्धिप्रत्ययत्वात् / तथा “अनियट्टि संजलण पुरिस लहुं" ति संज्वलनानां-क्रोध-मान-माया-लोभलक्षणानां चतुर्णा 'पुरुषस्य' पुरुषवेदस्य च "लहुं" ति 'लघुस्थिति' जघन्यस्थितिबन्धम् “अनियट्टि" त्ति अनिवृत्तिबादरः क्षपकस्तद्वन्धस्य यथास्वं चरमस्थितिबन्धे वर्तमानः करोति, तद्वन्धकेष्वस्यैवातिविशुद्धत्वादिति // 44 // सायजसुच्चावरणा, विग्धं सुहुमो विउव्विछ असन्नी। सन्नी वि आउबायरपजेगिंदी उ सेसाणं // 45 // 'सातं' सातवेदनीयं “जस" त्ति यशःकीर्तिनाम "उच्च" त्ति उच्चैर्गोत्रम् "आवरण" त्ति ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कं 'विघ्नम्' अन्तरायपञ्चकं "सुहुमो" ति सूक्ष्मसम्परायक्षपकश्वरमस्थितिबन्धे वर्तमानो लघुस्थितिकं करोति, तद्वन्धकेष्वस्यैवातिविशुद्धत्वात् / “विउविछ 1 सुरनैरयिका ऐकेन्द्रियाश्च सर्वेऽसंहननाः //