________________ 45] शतकनामा पञ्चमः कर्मग्रन्थः / 43 असन्नि" ति 'वैक्रियषट्कं' नरकद्विक-वैक्रियद्विक-देवद्विकलक्षणम् , असंज्ञी तिर्यक्पञ्चेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तो लघुस्थितिकं करोति / किमुक्तं भवति ? –वैक्रियषट्कं हि नामप्रकृतयः, नामश्च द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागोनौ एकेन्द्रियाणां जघन्या स्थितिः प्रतिपादिता, सा च सहस्रगुणिता सागरोपमसप्तभागसहस्रद्वयप्रमाणा वैक्रियषट्कस्य जघन्या स्थितिर्भवति, वैक्रियषट्कस्य च जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्द्रिया एव नैकेन्द्रियादयः, ते चासंज्ञिपञ्चेन्द्रिया जघन्यां स्थितिमेतावतीमेव बध्नन्ति न न्यूनामपि, यदुक्तम् वेउन्विछकि तं सहसताडियं जं असण्णिणो तेसिं / पलियासंखंसूणं, ठिई अवाहूणिय निसेगो // ( पञ्चसं० गा० 256) अस्या अक्षरगमनिका-“वग्गुक्कोसठिईणं मिच्छत्तुक्कोसियाइ" ( कर्मप्रकृ० गा० 79) इत्यनेन करणेन यद् लब्धं तत् 'सहस्रताडितं' सहस्रगुणितं ततः पल्योपमासङ्ख्येयांशेनभागेन न्यून सद् 'वैक्रियषट्के' देवगति-देवानुपूर्वी -नरकगति-नरकानुपूर्वी-वैक्रियशरीर-वैक्रियागोपाङ्गलक्षणे जघन्यस्थितेः परिमाणमवसेयम् / कुतः ? इत्याह-'यद्' यस्मात् कारणात् 'तेषां वैक्रियषट्कलक्षणानां कर्मणामसंज्ञिपञ्चेन्द्रिया एव जघन्यस्थितिबन्धकाः, ते च जघन्यां स्थितिमेतावतीमेव बध्नन्ति न न्यूनाम् / अन्तर्मुहूर्तमबाधा, अबाधाहीना च कर्मस्थितिः कर्मदलिकनिषेक इति // किञ्च एताः षट् प्रकृतयो यथासम्भवं नरक-देवलोकप्रायोग्या बध्यन्ते / तत्र च देवनारका-ऽसंज्ञिमनुष्य-एकेन्द्रिय-विकलेन्द्रिया नरकेषु देवलोकेषु [च ] नोत्पद्यन्त एवेति तेषामेतद्वन्धासम्भवः / तिर्यङ्-मनुष्यास्तु संज्ञिनः स्वभावादेव प्रकृतप्रकृतिषट्कस्य स्थितिं मध्यमामुत्कृष्टां वा कुर्वन्तीति तेऽपीहोपेक्षिताः। “सन्नी वि आउ" त्ति संज्ञी अपिशब्दाद् असंज्ञी गृह्यते, ततः संज्ञी असंज्ञी वा आयुश्चतुःप्रकारमपि जघन्यस्थितिकं करोति। तत्र देव-नारकायुषोः पञ्चेन्द्रियतिर्यङ्-मनुष्याः, मनुष्य-तिर्यगायुषोः पुनरेकेन्द्रियादयो जघन्यस्थितिकर्तारो द्रष्टव्याः। उक्ताः पञ्चत्रिंशत्प्रकृतीनां जघन्यस्थितिबन्धस्वामिनः, शेषाणामाह- "बायरपजेगिदी उ सेसाणं" ति 'शेषाणां' भणितोद्धरितानां-निद्रापञ्चका-ऽसातवेदनीया-ऽनन्तानुबन्धिचतुष्काऽप्रत्याख्यानावरणचतुष्क-प्रत्याख्यानावरणचतुष्क-नपुंसकवेद-स्त्रीवेद-हास्यादिषट्क-मिथ्यात्व-मनुष्यगति-तिर्यग्गति-जातिपञ्चक-औदारिकशरीर-औदारिकाङ्गोपाङ्ग-तैजस-कार्मण-संहननषट्क-संस्थानषट्क-वर्णचतुष्क-मनुजानुपूर्वी-तिर्यगानुपूर्वी-प्रशस्ताऽप्रशस्तविहायोगति-पराघात-उच्छ्वासा-ऽऽतप-उद्योता गुरुलघु-निर्माण-उपघात-त्रसनवक-स्थावरदशक-नीचे!त्रलक्षणानां पञ्चाशीतेः प्रकृतीनां बादरः पर्याप्तस्तद्वन्धकेषु सर्वविशुद्ध एकेन्द्रियः पल्योपमासङ्ख्येयभागहीनसागरोपमद्विसप्तभागादिकां जघन्यां स्थितिं करोति / अन्ये ह्येकेन्द्रियास्तथाविधविशुद्धयभावात् बृहत्तरां स्थितिमुपकल्पयन्ति / विकलेन्द्रिय-पञ्चेन्द्रियेषु शुद्धिरधिकाऽपि लभ्यते केवलं तेऽपि स्वभावादेव प्रस्तुतप्रकृतीनां महतीं स्थितिमुपरचयन्तीति शेषपरिहारेण यथोक्तैकेन्द्रियस्यैव ग्रहणमिति // 45 // प्रतिपादितं जघन्यस्थितिबन्धमाश्रित्य स्वामित्वम् / अथ स्थितिबन्ध एवोत्कृष्टानुत्कृष्टादिमकान् विचारयितुमाह