________________ देवेन्द्रसूरिविरचितः स्वौपज्ञटीकोपेतः [गाथाः उक्कोसजहन्नेयर, भंगा साई अणाइ धुव अधुवा / चउहा सग अजहन्नो, सेसतिगे आउचउसु दुहा // 46 // बन्धशब्दः प्रक्रमाद् लभ्यते, तत उत्कृष्टबन्धः 1 जघन्यबन्धः 2 "इयर" ति उत्कृष्टबन्धप्रतिपक्षोऽनुत्कृष्टबन्धः 3 जघन्यबन्धप्रतिपक्षोऽजघन्यबन्धः 4 इति चत्वारो भङ्गाः / तत्र यतोऽन्यो बृहत्तरबन्धो नास्ति स उत्कृष्टबन्धः, ततोऽधस्तात् समयहानिमादौ कृत्वा यावद् जघन्यबन्धस्तावत् सर्वोऽप्यनुत्कृष्टबन्ध इत्युत्कृष्टा-ऽनुत्कृष्ट प्रकाराभ्यां सर्वे स्थितिविशेषाः सङ्ग्रहीताः। यस्मादन्यो हीनतरबन्धो नास्ति स जघन्यबन्धः, ततः परं समयवृद्धिमादौ कृत्वा यावद् उत्कृष्टस्तावत् सर्वोऽप्यजघन्यबन्ध इति जघन्या-ऽजघन्यप्रकाराभ्यां वा सर्वेऽपि स्थितिविशेषाः सङ्गहीताः / अथवाऽन्यथा बन्धस्य चत्वारो भङ्गाः, तद्यथा-सादिबन्धः 1 अनादिबन्धः 2 ध्रुवबन्धः 3 अध्रुवबन्धः 4 चेति / तत्र यः पूर्वं व्यवच्छिन्नः पश्चात् पुनरपि भवति स सादिर्बन्धः। यस्त्वनादिकालात् सन्तानभावेन प्रवृत्तो न कदाचिद् व्यवच्छिन्नः सोऽनादिबन्धः / यः पुनरग्रेऽपि न कदाचिद् व्यवच्छेदं प्राप्स्यति सोऽभव्यसम्बन्धी बन्धो ध्रुवः / यः पुनरायत्यां कदाचिद् व्यवच्छेदं प्राप्स्यति स भव्यसम्बन्धी बन्धोऽध्रुवबन्धः / एवं “चउहा सग अजहन्नु" ति “सग" त्ति सप्तानां मूलप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेदनीय-मोहनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां सम्बन्धिन्यो याः स्थितयस्तासां यः 'अजघन्यः' अजघन्यबन्धः सः 'चतुर्धा' चतुर्विकल्पः सादिरनादिभ्रुवोऽध्रुवश्चेति / तथाहिएतासां प्रकृतीनां मध्ये मोहनीयस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे जघन्यः स्थितिबन्धः प्राप्यते, शेषप्रकृतिषट्कस्य तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धेऽसौ लभ्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावप्यजघन्यो भवति, उपशमकस्यापि क्षपकाद् द्विगुणबन्धकत्वादजघन्य एव भवतीति भावः / ततश्चोपशान्तमोहावस्थायामजघन्यबन्धस्याबन्धको भूत्वा यदा प्रतिपत्य पुनरपि प्रस्तुतप्रकृतिसप्तकस्याजघन्यं बध्नाति तदाऽजघन्यबन्धः सादिर्भवति, बन्धव्यवच्छेदानन्तरं तत्प्रथमतया बध्यमानत्वात् / उपशान्तमोहाद्यवस्थां चाऽप्राप्तपूर्वाणां बन्धव्यवच्छेदामावेनाऽनादिकालान्निरन्तरं बध्यमानत्वादनादिः / अभव्यानां ध्रुवोऽभाविपर्यन्तत्वात् / भव्यानामध्रुवो भाविपर्यन्तत्वात् / “सेसतिगे आउचउसु दुह" त्ति 'शेषत्रिके' जघन्यउत्कृष्टा-ऽनुत्कृष्टलक्षणे एतासां मूलप्रकृतीनां बन्धः “दुह" त्ति सादिरध्रुवश्च भवति / तथाहिएतासां प्रकृतीनां मध्ये मोहनीयस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे, शेषाणां तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यो बन्धोऽनन्तरमेवोक्तः, स चाऽबद्धपूर्वोऽजघन्यबन्धादवतीर्य तत्प्रथमतया तस्मिन्नेव समये बध्यत इति सादिः, ततः परं क्षीणमोहाद्यवस्थायां सर्वथा न भवतीत्यध्रुव इति द्वावेव विकल्पौ सम्भवतो न शेषौ / उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोट्यादिकः सर्वसंक्लिष्टमिथ्यादृष्टिपर्याप्तसंज्ञिपञ्चेन्द्रिये लभ्यते, स चानुत्कृष्टबन्धादवतीर्य कदाचिदेव बध्यते न सर्वदेति सादिः, अन्तर्मुहूर्ताच्च परं नियमादनुत्कृष्टं बनतोऽसौ निवर्तत इत्यध्रुवः, उत्कृष्टाच प्रतिपत्य अनुत्कृष्टं बध्नातीत्यनुत्कृष्टोऽपि सादिः, ततः परं जघन्यतोऽन्तर्मुहूर्तेन उत्कृष्टतस्त्वनन्तोत्सर्पिण्यवसर्पिणीपर्यन्ते पुनरुत्कृष्टं बनतोऽनुत्कृष्टो निवर्तत इत्यध्रुव इति / एवमुत्कृष्टा-ऽनुत्कृष्टेषु जीवाः परिभ्रमन्तीति द्वयोरप्यनादिध्रुवत्वासम्भवः / “आउचउसु दुह" त्ति