________________ 45 46-48] शतकनामा पञ्चमः कर्मग्रन्थः / आयुश्चतुष्टये 'द्विप्रकारः' द्विविकल्पः सादिरध्रुवश्च बन्धो भवतीत्यर्थः / आयुषो हि उत्कृष्टादिबन्धो वेद्यमानायुषस्त्रिभागादौ प्रतिनियतकाल एव बध्यमानत्वात् सादिः, अन्तर्मुहूर्ताच परमवश्यमुपरमत इत्यध्रुव इति // 46 // चउभेओ अजहन्नो, संजलणावरणनवगविग्घाणं / सेसतिगि साइअधुवो, तह चउहा सेसपयडीणं // 47 // संज्वलनानां-क्रोध-मान-माया-लोभलक्षणानां चतुर्णाम् आवरणनवकस्य-ज्ञानावरणपञ्चकदर्शनावरणचतुष्कलक्षणस्य विघ्नानां पञ्चानां-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणानां सम्बन्धी अजघन्यो बन्धः 'चतुर्भेदः' सादि-अनादि-ध्रुवा-ऽध्रुवलक्षणश्चतुर्विकल्पो भवति। तथाहिएतासामष्टादशप्रकृतीनां पूर्वोक्तयुक्तित एवोपशमश्रेणौ बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनरजघन्यं बध्नतः सादिस्तद्वन्धः, तत्स्थानमप्राप्तपूर्वस्यानादिः, ध्रुवोऽभव्यानाम् , अध्रुवो भव्यानामिति सर्वमिह पूर्ववदेव भावनीयम् / एतासामेव प्रकृतीनां "सेसतिगि साइअधुवु” त्ति 'शेषत्रिके' जघन्योत्कृष्टा-ऽनुत्कृष्टलक्षणे सादिरध्रुवश्च द्विविधो भवति / तथाहि-संज्वलनचतुष्टयस्य क्षपकानिवृत्तिबादरगुणस्थाने आत्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यो बन्धो ज्ञानावरणपञ्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां सूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यः। स च तत्प्रथमतया बध्यमानत्वात् सादिः, तत ऊर्ध्वं न भवतीत्यध्रुवः / उत्कृष्टा-ऽनुत्कृष्टेष्वप्यारोहणावतरणे कुर्वतां जन्तूनां साद्यध्रुवत्वं तथैव भावनीयमिति / “तह चउहा सेसपयडीणं" ति 'शेषप्रकृतीनां' भणिताष्टादशप्रकृतिभ्य उद्धरितानां द्वयुतरशतसङ्ख्यानां प्रकृतीनां चतुर्धा उत्कृष्टा-ऽनुत्कृष्ट-जघन्या-ऽजघन्यलक्षणश्चतुर्विकल्पः “तह" त्ति सादिरध्रुवश्च भवति / तथाहिनिद्रापञ्चक-मिथ्यात्व-प्रथमद्वादशकषाय-भय-जुगुप्सा-तैजस-कार्मण-वर्णादिचतुष्का-ऽगुरुलघु-उपघात-निर्माणलक्षणानामेकोनत्रिंशतः प्रकृतीनां सर्वविशुद्धबादरपर्याप्तैकेन्द्रियो जघन्यस्थितिबन्धं विदधाति, ततोऽन्तर्मुहूर्त संक्लिष्टो भूत्वा अजघन्यबन्धं करोति, ततस्तत्रैव भवे भवान्तरे वा विशुद्धिमासाद्य पुनरपि स एव जघन्यबन्धं निर्मापयतीत्येवं जघन्याऽजघन्ययोः परावृत्तिर्भवतीति द्वावप्येतौ जघन्याऽजघन्यौ सादि-अध्रुवौ भवतः / उत्कृष्टं बन्धं पुनरेतासां सर्वसंक्लिष्टपञ्चेन्द्रियो विदधाति, अन्तर्मुहूर्ताच्च पुनरपि अनुत्कृष्टबन्धं विरचयति, ततः पुनरपि कदाचिदुत्कृष्टमित्येवं परावृत्तिवशत एतावपि सादि-अध्रुवौ भवतः / शेषाणामध्रुवबन्धिनीनामौदारिकद्विक-वैक्रियद्विका-ऽऽहारकद्विक-संस्थानषट्क-संहननषट्क-जातिपञ्चक-गतिचतुष्क-विहायोगतिद्विका-ऽऽनुपूर्वीचतुष्टय-जिननाम-उच्छासनाम-उद्योतनामा-ऽऽतपनाम-पराघात-त्रसदशक-स्थावरदशक-उच्चैर्गोत्र-नीच्चैगोत्र-साता-ऽसातवेदनीय-हास्य-रति-अरति-शोक-वेदत्रिका-ऽऽयुश्चतुष्टयलक्षणानां त्रिसप्ततिप्रकृतीनां जघन्यादिस्थितिबन्धः सर्वोऽप्यध्रुवबन्धित्वादेव सादिरध्रुवश्चेति // 47 // निरूपिताः स्थितिबन्धे साद्यादिभङ्गाः / अधुना स्थितिमेव सामान्यतो गुणस्थानकेषु चिन्तयन्नाह साणाइअपुव्वंते, अयरंतोकोडिकोडिओ नहिगो। बंधो न हु हीणो न य, मिच्छे भचियरसन्निम्मि // 48 //