________________ 34-36] शतकनामा पञ्चमः कर्मग्रन्थः / इति यथोक्त एवाबाधाकालः / केचित्तु मन्यन्ते—युगलधार्मिकाः पल्योपमासङ्ख्येयभागे निजायुषोऽवशिष्यमाणे परभवायुष्कं बध्नन्ति, तन्मतेनाबाधाऽपि युगलधार्मिकान् उद्दिश्य पल्योपमासयेयभागप्रमाणैवेति मन्तव्यम् / तदुक्तम् पलियासंखिजंसं, जुगधम्मीणं वयंतऽन्ने / ( पञ्चसं० गा० 248) इति / ____ "सेसाण भवतंसो" त्ति 'शेषाणां' सङ्ख्येयवर्षायुषां सोपक्रम-निरुपक्रमायुषां नर-तिरश्चा भवस्य-स्वकीयजन्मनस्त्र्यंशः-त्रिभागो भवत्र्यंशोऽबाधेत्यत्रापि सम्बन्धनीयम् , यतस्ते निजजन्मनः त्रिभाग एवावशिष्टे "सेसा पुणो तिभाए" (जिनभ० संग्र० गा० 309) इति वचनाद् उत्कृष्टतः परभवप्रायोग्यमायुर्बन्धं विदधतीति // 34 // . प्रतिपादिता सर्वोत्तरप्रकृतीनामबाधान्विता उत्कृष्टा स्थितिः / इदानी तासामेव जघन्यां स्थितिं निरूपयितुकामं आह लहुठिइबंधो संजलणलोह पणविग्घनाणदंसेसु। भिन्नमुहुत्तं ते अट्ट जसुच्चे बारस य साए // 35 // 'लघुस्थितिबन्धः' जघन्यस्थितिबन्धो भिन्नमुहूर्तं भवति, क ? इत्याह-संज्वलनलोभे प्रतीते, पणशब्दस्य प्रत्येकं सम्बन्धाद् विघ्नपञ्चके-दान-लाभ-भोग-उपभोग-वीर्यान्तरायरूपे, ज्ञानावरणपञ्चके मति-श्रुता-ऽवधि मनःपर्याय-केवलज्ञानावरणलक्षणे, "दंसेसु" त्ति दर्शनचतुष्के-चक्षुः-अचक्षुः-अवधि केवलदर्शनावरणस्वभावे / कोऽर्थः ? ज्ञानावरणपञ्चका-ऽन्तरायपञ्चक-दर्शनचतुष्क-संज्वलनलोभलक्षणानां पञ्चदशप्रकृतीनां जघन्यस्थितिबन्धोऽन्तर्मुहूर्तमात्र एव, यतः संज्वलनलोभस्याऽनिवृत्तिबादरगुणस्थानके शेषचतुर्दशप्रकृतीनां सूक्ष्मसम्परायगुणस्थानकचरमसमये स्वबन्धव्यवच्छेदकालेऽन्तर्मुहूर्तमात्रैव स्थितिबध्यते / "ते अट्ठ" त्ति "व्याख्यानतो विशेषप्रतिपत्तिः” इति न्यायात् 'ते' मुहूर्ता घटिकाद्वयप्रमाणाः 'अष्टौ' अष्टसङ्ख्या यशःकीर्तिनाम-उच्चैगोत्रयोर्जघन्यस्थितिर्भवति / “बारस य" ति द्वादश मुहूर्ताः, 'चः' 'पुनरर्थे स च भिन्नक्रमः, ततः 'साते' सातवेदनीये कर्मणीति / उक्तं च कर्मप्रकृती भिन्नमुहुत्तं आवरणविग्घदसणचउक्कलोहन्ते / बारस साइ मुहुत्ता, अट्ट य जसकित्तिउच्चेसु // (गा० 76) इति // 35 // दो इग मासो पक्खो, संजलणतिगे पुमट्ठवरिसाणि / सेसाणुकोसाओ, मिच्छत्तठिईई जं लद्धं // 36 // द्वौ मासौ एको मासः पक्षश्च जघन्या स्थितिः, क ? इत्याह-'संज्वलनत्रिके' क्रोध-मानमायारूपे / एतदुक्तं भवति–संज्वलनक्रोधे द्वौ मासौ जघन्या स्थितिः, संज्वलनमाने एको मासो जघन्या स्थितिः, संज्वलनमायायां पक्षः-पञ्चदशदिनात्मको जघन्या स्थितिः / “पुमट्ठवरिसाणि" त्ति पुंवेदेऽष्टौ वर्षाणि जघन्या स्थितिः / यतश्चतसृणामप्येतासां प्रकृतीनामनिवृत्ति. 1 पल्यासंख्येयांशं युग्मधर्मिणां वदन्त्यन्ये // 2 शेषाः पुनस्त्रिभागे // 3 भिन्नमुहूर्तमावरणविघ्नदर्शनचतुष्कलोभान्ते / द्वादश साते मुहूर्ता अष्टौ च यशःकीर्युच्चैर्गोत्रयोः // 4 सं०१-२ त०म० °त्मका | . 5