________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः इगविगल पुव्वकोडिं, पलियासंखंस आउचउ अमणा / निरुवकमाण छमासा, अबाह सेसाण भवतसो // 34 // एकेन्द्रिया विकलेन्द्रियाश्च पूर्वाणि-आगमप्रतीतानि, तद्यथा पुवस्स उ परिमाणं, सयरिं खलु हुंति कोडिलक्खाओ / छप्पन्नं च सहस्सा, बोधब्बा वासकोडीणं // ( जिनभ० सङ्घ-० गा० 302) तेषां पूर्वाणां कोटी पूर्वकोटी तां पूर्वकोटी यावदायुष उत्कृष्टां स्थिति बन्नन्ति, न पूर्वकोट्यभ्यधिकामपीति / आयुःशब्दश्च “आउचउ अमणा" इति पदाद् योजनीयः / इदमत्र हृदयम्-एकेन्द्रिया विकलेन्द्रियाश्चोत्कृष्टतोऽपि पूर्वकोट्यायुष्केष्वेव नर-तिर्यक्षु समुत्पद्यन्ते न, नारकदेवा-ऽसङ्ख्येयवर्षायुष्कतिर्यङ्-मनुष्येषु, अत एकेन्द्रिय-विकलेन्द्रियाणामुत्कृष्टायुर्बन्धः पूर्वकोटी स्वस्वभवत्रिभागाभ्यधिका वेदितव्या / एषां स्वस्वभवत्रिभागोऽबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / यदुक्तं कर्मप्रकृती सेसाण पुषकोडी, साउतिभागो अबाहा सिं // (गा. 74) ... अत्र टीका-'शेषाणां च' एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाणां पर्याप्ता-र्याप्तानाम् असंज्ञिपञ्चेन्द्रिय-संज्ञिपञ्चेन्द्रियाणां चापर्याप्तानामायुष उत्कृष्टस्थितिबन्धकानां परभवायुष उत्कृष्टस्थितिबन्धः पूर्वकोटी स्वस्वभवत्रिभागाभ्यंधिका वेदितव्या। आयुष उत्कृष्टस्वभवत्रिभागोऽबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेक इति / ___“पलियासंखंस आउचउ अमण" त्ति 'अमनसः' मनोयोगरहिताः, असंज्ञिनः पर्याप्ता इत्यर्थः, 'पल्योपमासङ्ख्यांशं' पल्योपमासङ्ख्येयभागं आयुषां चतुष्कं बध्नन्ति, विभक्तिलोपश्च प्राकृतत्वात् / किमुक्तं भवति ? -असंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु आयुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परभवसम्बन्धिनामुत्कृष्टा स्थितिः पल्योपमासङ्ख्येयभागमात्रा पूर्वकोटित्रिभागाधिका भवति, पूर्वकोटित्रिभागश्चाबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / यदवादि कर्मप्रकृतौ श्रीमदाराध्यपादैः आउचउक्कुक्कोसं, पल्लासंखिज्जभाग अमणेसु / ( गा० 74 ) इति / आयुषामुत्कृष्टां स्थितिमभिधाय तेषामेवोत्कृष्टामबाधामाह—“निरुवकमाण छमासा अबाह" ति 'निरुपक्रमाणां' “सत्यभामा" इति न्यायात् निरुपक्रमायुषां देव-नारकाणामसङ्ख्येयवर्षायुषां नर-तिरश्चां च भवान्तरप्रायोग्यायुर्बन्धकारिणां षण्मासाः' षण्मासप्रमाणा 'अबाधा' व्यावर्णितस्वभावा भवतीति शेषः, यतस्ते षण्मासावशेषायुष एवोत्तरभवप्रायोग्यमायुर्वघ्नन्ति / यदाह भाष्यपीयूषपयोधिः देवा नेरइया वा, असंखवासाउया य तिरिमणुया / छम्मासऽवसेसाऊ, परभवियं आउ बंधति // ( जिनभ० सभ० गा० 307) १पूर्वस्य तु प्रमाणं सप्ततिः खलु भवन्ति कोटिलक्षाणि / षट्पञ्चाशच सहस्राणि बोद्धव्यानि वर्षकोटीनाम् // २सं०१ भ्यधिको वेदितव्यः॥ 3 म० छा०°षश्च उत्कृ०॥४ आयुश्चतुष्कमुत्कृष्टं पल्यासंख्येयभागोऽमनस्केषु // 5 देवा नैरयिका वा असंख्यवर्षायुकाश्च तिर्यङ्-मनुजाः। षण्मासावशेषायुषः पारभविक आयुर्बध्नन्ति //