________________ 33] शतकनामा पञ्चमः कर्मग्रन्थः / हारकस्य ये बन्धनसङ्घातास्तेषामपि स्वशरीरस्थितिप्रमाणैव स्थितिर्विज्ञेयेति। ननु तीर्थकरनामकर्म तीर्थकरभवादाक् तृतीयभव एव बध्यते / यदागमः बज्झइ तं तु भगवओ, तइयभवोसक्कइत्ताणं / (आव० नि० गा० 183) / तत् कथं जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? तदयुक्तम् , अभिप्रायापरिज्ञानात्, “बज्झइ तंतु" इत्यादिकं निकाचनापेक्षयोक्तम् , इतरथा तु तृतीयभवादक्तिरामपि बध्यते / यदाहुः संशयशतशाखिशातनानिशिताकुण्ठकुठारकल्पाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः विशेषणवत्याम् कोडाकोडी अयरोवमाण तित्थयरनामकम्मठिई। बज्झइ य तं अणंतर भवम्मि तइयम्मि निद्दिढे // (गा० 78 ) ततः कथमेतत् परस्परं युज्यते ? अत्रोत्तरम् जै बज्झइ ति भणियं, निकाइयं तं तु तत्थ नियमोऽयं / तदवंझफलं नियमा, भयणा अनिकाइयावत्थे // (गा० 80) आह यदि तीर्थकरनाम्नो जघन्याऽपि स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणा तर्हि तावत्याः स्थितेस्तिर्यम्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् तिर्यग्गतावपि तीर्थकरनामसत्कर्मा जन्तुः कियन्तं कालं यावद् भवेत् ? तथा च सति आगमविरोधः, आगमे तिर्यग्गतौ तीर्थकर नामसत्कर्मा सन् प्रतिषिध्यते / अत्रोच्यते-निकाचितस्यैव तीर्थकरनामकर्मणस्तिर्यग्गतौ सतः प्रतिषेधात् / ... उक्तं च-.. . . जमिह निकाइयतित्थं, तिरियभवे तं निसेहियं संत / इयरम्मि नत्थि दोसो, उवट्टणोवट्टणासज्झे // ( पञ्चसं० गा० 251) . अस्या अक्षरगमनिका—'इह' अस्मिन् प्रवचने यत् तीर्थकरनामकर्म ‘निकाचितम्' अवश्यंवेद्यतया व्यवस्थापितं तदेव स्वरूपेण 'सद्' विद्यमानं तिर्यग्गतौ निषिद्धम् / 'इतरस्मिन् पुनः' अनिकाचिते उद्वर्तना-ऽपवर्तनासाध्ये तिर्यग्गतावपि विद्यमाने न कश्चिद्दोषः, यतस्तत् प्रभूतस्थितिकमप्यपवर्तनाकरणेन लघुस्थितिकं क्रियते, उद्वर्तनया वा तद् अन्यप्रकृतित्वेनावस्थाप्यत इति // . "नरतिरियाणाउ पल्लतिगं" ति नर-तिरश्चामायुषोः ‘पल्यत्रिकं' पल्योपमत्रिकमुत्कृष्टा स्थितिरिति / यद्यपि मूलप्रकृत्युत्कृष्टस्थितिभणनप्रस्तावे देव-नारकायुषोस्त्रयस्त्रिंशत्सागरोपमलक्षगैव स्थितिरुक्ता, नरतिर्यगायुषोस्तु पल्योपमत्रयप्रमाणैव, तथापि पूर्वकोटित्रिभागाधिकैवासौ सर्वा बध्यते इत्यवसेयम् / नन्वेवं तर्हि सूत्रे पूर्वकोटित्रिभागाधिकत्वं कस्मान्नोक्तम् ? सत्यम् , असौ पूर्वकोटित्रिभागोऽबाधारूपतयैवापयाति न पुनरुदयमायाति, अतो यावती स्थितिरायुषो वेद्यते तावत्प्रमाणैवाबाधारहिता सूत्रे उपात्तेत्यदोष इति // 33 // 1 बध्यते तत्तु भगवतस्तृतीयभवेऽवष्वष्कयित्वा // 2 कोटाकोटी अतरोपमाणां तीर्थकरनामकर्मस्थितिः / बध्यते च तदनन्तरे भवे तृतीये निर्दिष्टम् // 3 यद् बध्यत इति भाणितं निकाचितं तत्तु तत्र नियमोऽयम् / तबन्ध्यफल नियमाद् भजनाऽनिकाचितावस्थे // 4 सं०१-२ छा० त० म० उद्बलनया //