________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः कर्मदलिकनिषेकः / कुब्जसंस्थाना-ऽर्धनाराचसंहननयोः षोडश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / वामनसंस्थान-कीलिकासंहननयोरष्टादश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / हुण्डसंस्थान-सेवार्तसंहननयोविंशतिवर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / षोडशसु कषायेषु चत्वारि वर्षसहस्राण्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / मृदु-लघु-स्निग्ध-उष्ण-सुरभिगन्ध-श्वेतवर्ण-मधुररसलक्षणानां सप्तानां प्रकृतीनां वर्षसहस्रमेकमबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / हारिद्रवर्णा-ऽम्लरसयोः सार्धद्वादश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / लोहितवर्ण-कषायरसयोः पञ्चदश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / नीलवर्ण-कटुकरसयोः सार्धसप्तदश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / कृष्णवर्ण-तिक्तरसयोर्वर्षसहस्रद्वयमबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः। तथा प्रशस्तविहायोगति-उच्चैर्गोत्र-सुरगति-सुरानुपूर्वी-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-यशःकीति-पुरुषवेद-हास्य-रतिलक्षणानां त्रयोदशप्रकृतीनामेकं वर्षसहस्रमबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / मिथ्यात्वस्य सप्त वर्षसहस्राण्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / मनुष्यगति-मनुष्यानुपूर्वी-स्त्रीवेद-सातवेदनीयलक्षणानां चतसृणां प्रकृतीनां पञ्चदश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / तथा भय-जुगुप्सा-ऽरति-शोक-वैक्रियशरीर-वैक्रियाङ्गोपाङ्ग-तिर्यग्गति-तिर्यगानुपूर्वी-औदारिकशरीर-औदारिकाङ्गोपाङ्ग-नरकगति-नरकानुपूर्वी नीचैर्गोत्रतैजस-कार्मणा-गुरुलघु-निर्माण-उपघाता-ऽस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयश कीर्ति-त्रस-बादर-पर्याप्त प्रत्येक स्थावर-एकेन्द्रियजाति-पञ्चेन्द्रियजाति-नपुंसकवेदा-प्रशस्तविहायोगति-उच्छ्वास-उद्योता-ऽऽसप-पराघात-गुरु-कर्कश-रूक्ष-शीत-दुरभिगन्धलक्षणानां द्विचत्वारिंशत्प्रकृतीनां द्वे वर्षसहस्र अबाधा, अबाधाहीनश्च कर्मदलिकनिषेक इति // 32 // गुरु कोडिकोडिअंतो, तित्थाहाराण भिन्नमुहु थाहा / लहुठिइ संखगुणूणा, नरतिरियाणाउ पल्लतिगं // 33 // स्थितिशब्दस्योत्तरपदस्थस्येहापि सम्बन्धाद् 'गुरुः' गरीयसी–उत्कृष्टा स्थितिः सागरोपमाणां कोटीकोट्या अन्तर्-मध्ये "तित्थाहाराण" त्ति तीर्थकरनामा-ऽऽहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणानां तिसृणां प्रकृतीनां भवतीति शेषः / किमुक्तं भवति ? तीर्थकरनाम्न आहारकद्विकस्य च सागरोपमाणामन्तःकोटीकोटीप्रमाण एवोत्कृष्टः स्थितिबन्धकालो भवति नोपरिष्टादिति / “भिन्नमुहु बाह" ति प्राकृतत्वादकारलोपे भिन्नमुहूर्तम्-अन्तर्मुहूर्तमात्रमेव कालम् 'अबाधा' अनुदयावस्था उत्कृष्टा, जघन्याऽप्यन्तर्मुहूर्तमात्रैव, ततः परं दलिकरचनायाः सद्भावेनावश्यं प्रदेशोदयस्य सम्भवादिति। केचित् "तीर्थकरनामकर्म अन्तर्मुहूर्तादूचं कस्यचित् प्रदेशत उदेति, तदुदये चाज्ञैश्वर्यादय ऋद्धिविशेषा अन्यजीवेभ्यो विशिष्टतरास्तस्य सम्भवन्तीति सम्भावयामः" इति व्याचक्षते / उत्कृष्टा तीर्थकरा-ऽऽहारकयोः स्थितिरुक्ता / अथैतयोरेव जघन्यां स्थितिमाह"लहुठिइ संखगुणूण" ति लघुस्थितिस्तीर्थकरा-ऽऽहारकयोः सङ्ख्येन–सङ्ग्यातकाललक्षणेन गुणेनगुणकारेण ऊना-हीना सङ्ख्यगुणोना, उत्कृष्टस्थितिबन्धकाल एव सागरोपमान्तःकोटीकोटीरूपः सोयगुणहीनो जघन्यस्थितिबन्धः, सागरोपमान्तःकोटीकोटीप्रमाण इति तात्पर्यम् / तथेहाप्या