________________ 28-32] . शतकनामा पञ्चमः कर्मग्रन्थः / दश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिर्भवति / क्व ? इत्याह—'शुभविहायोगतौ' प्रशस्तविहायोगतौ उच्चैगोत्रे 'सुरद्विके' सुरगति सुरानुपूर्वीलक्षणे 'स्थिरषट्के' स्थिर-शुभ-सुभगसुस्वरा-ऽऽदेय-यशःकीर्तिसंज्ञिते 'पुरुषे' पुरुषवेदे रतौ हास्ये तथा मिथ्यात्वे सप्ततिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः / तथा 'मनुजद्विके' मनुजगति मनुजानुपूर्वीस्वरूपे स्त्रीवेदे 'साते' सातवेदनीये पञ्चदश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः // 30 // . भय कुच्छ अरइसोए, विउवितिरिउरलनरयदुग नीए। तेयपण अथिरछक्के, तसचउ थावर इग पणिंदी // 31 // नपु कुखगइ सासचऊ, गुरुकक्खडरुक्खसीय दुग्गंधे। वीसं कोडाकोडी, एवइयाबाह वाससया // 32 // भये 'कुत्सायां' जुगुप्सायाम् अरति-शोके, द्विकशब्दस्य प्रत्येकं सम्बन्धाद् वैक्रियद्विकेवैक्रियशरीर-वैक्रियाङ्गोपाङ्गरूपे, तिर्यद्विके-तिर्यग्गति-तिर्यगानुपूर्वीलक्षणे, औदारिकद्विके-औदारिकशरीर-औदारिकाङ्गोपाङ्गाख्ये, नरकद्विके-नरकगति-नरकानुपूर्वीस्वरूपे, नीचैर्गोत्रे 'तैजसपञ्चके' तैजस कार्मणा-गुरुलघु-निर्माण-उपघाताभिधे, अस्थिरपट्के–अस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्तिलक्षणे, त्रसचतुष्के-त्रस-बादर-पर्याप्त प्रत्येकरूपे, स्थावरे "इग" त्ति एकेन्द्रियजातौ पञ्चेन्द्रियजातौ "नपु" ति नपुंसकवेदे 'कुखगतौ' अप्रशस्तविहायोगतो, “सासचउ" ति 'उच्चासचतुष्के' उच्चास-उद्योता-ऽऽतष-पराघातलक्षणे, गुरु-कर्कश-रूक्ष-शीतेषु अशुभस्पर्शेषु 'दुर्गन्धे' दुरभिगन्धे चेत्येतासु द्विचत्वारिंशत्सङ्ख्यासु प्रकृतिषु विंशतिसागरोपमकोटीकोट्य उत्कृष्टा स्थितिर्भवति / तथाऽऽहारकवर्जितानामौदारिकादिशरीराणां ये बन्धन-सङ्घातास्तेषामपि स्थितिः खशरीरस्थितितुल्यैव विज्ञेया, तेन बन्धनादीनामपि विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरिति दृश्यम् / तथा चोक्तं पञ्चसनहटीकायाम् स्थिति-उदय-बन्धकालाः सङ्घातन-बन्धनानां स्वशरीरतुल्या ज्ञेयाः। ( तदत्र स्थितितुल्यतया प्रयोजनमिति / सम्प्रत्युक्तोत्तरप्रकृतीनामेवोत्कृष्टाऽबाधामाह—“एवइयाबाह वाससय" त्ति लिङ्गव्यत्ययाद् एतावन्ति वर्षशतानि 'अबाधा' कर्मणः प्रदेश-विपाकाभ्यामनुदयकाल इत्यक्षरघटना / भावार्थस्त्वयम्—यासां प्रकृतीनां यावत्यः कोटीकोटयः स्थितिरुक्ता तासां तावन्ति वर्षशतान्यबाधेति, तावन्मात्रेषु समयेषु न वेद्यदलिकनिक्षेपं करोतीति यावत् / तद्यथा--पञ्चानां विघ्नप्रकृतीनां पञ्चानां ज्ञानावरणप्रकृतीनां नवानां दर्शनावरणप्रकृतीनामसातवेदनीयस्य त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरुक्ता, तस्या अबाधाकालोऽप्युत्कृष्टस्त्रिंशद्वर्षशतानि वेदितव्यः / यथा-दानान्तरायमुत्कृष्टस्थितिकं बद्धं सत् त्रिंशद्वर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्य बाधामुत्पादयति, अबाधाहीनश्च कर्मदलिकनिषेकः / एवं सर्वप्रकृतिष्वपि वाच्यम् / यथा-सूक्ष्मत्रिके विकलत्रिके चाऽष्टादश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः। समचतुरस्रसंस्थान-वज्रऋषभनाराचसंहननयोर्दश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः / न्यग्रोधपरिमण्डलसंस्थान-ऋषभनाराचसंहननयोदश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः। सादिसंस्थान-नाराचसंहननयोश्चतुर्दश वर्षशतान्यबाधा, अबाधाहीनश्च