________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः विग्यावरणअसाए, तीसं अट्ठार सुहमविगलतिगे। पढमागिइसंघयणे, दस दसुवरिमेसु दुगवुड्डी // 28 // "नपु कुखगइ सासचऊ" (गा० 32) इति गाथोक्तकोटाकोटीशब्दस्य सर्वत्र सम्बन्धाद् एवं प्रयोजनीयम्-विघ्नानि च-दान-लाभ-भोग-उपभोग-वीर्यान्तरायाख्यानि पञ्च, आवरणानि च-ज्ञानावरणपञ्चक-दर्शनावरणनवकलक्षणानि चतुर्दश, असातं च-असातवेदनीयं समाहारद्वन्द्वे विनावरणासाते / विनेषु पञ्चसु ज्ञानावरणेषु पञ्चसु दर्शनावरणेषु नवसु असातवेदनीये च त्रिंशत्कोटीकोट्य उत्कृष्टा स्थितिः सागरोपमाणामिति सर्वत्र योज्यम् / अष्टादश कोटीकोट्य उत्कृष्टा स्थितिर्भवति, क ? इत्याह–त्रिकशब्दस्य प्रत्येकं सम्बन्धात् 'सूक्ष्मत्रिके' सूक्ष्मा-ऽपर्याप्तक-साधारणरूपे 'विकलत्रिके' द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणे तथा प्रथमशब्दस्य प्रत्येकं योगात् 'प्रथमाकृतौ' प्रथमसंस्थाने समचतुरस्रनामनि 'प्रथमसंहनने' वज्रऋषभनाराचाभिधे दश दश कोटीकोट्य उत्कृष्टा स्थितिर्भवति / “उवरिमेसु दुगवुड्डि" त्ति 'उपरितनेषु' न्यग्रोधपरिमण्डलादिसंस्थानेषु ऋषभनाराचादिसंहननेषु च 'द्विकवृद्धिः' सागरोपमकोटाकोटीदशकोपरि द्विकवृद्धिर्द्रष्टव्या / तद्यथा न्यग्रोधपरिमण्डलसंस्थान-ऋभनाराचसंहननयोदश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, सादिसंस्थान-नाराचसंहननयोश्चतुर्दश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, कुब्जसंस्थाना-ऽर्धनाराचसंहननयोः षोडश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, वामनसंस्थान-कीलिकासंहननयोरष्टादश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, हुण्डसंस्थान सेवार्तसंहननयोविंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरिति // 28 // चालीस कसाएसुं, मिउलहुनिझुण्हसुरहिसियमहुरे / दस दोसढसमहिया, ते हालिइंबिलाईणं // 29 // - चत्वारिंशत् सागरोपमकोटीकोट्यः 'कषायेषु' अनन्तानुबन्धिचतुष्का-प्रत्याख्यानावरणचतुष्क-प्रत्याख्यानावरणचतुष्क-संज्वलनचतुष्कलक्षणेषु षोडशसु उत्कृष्टा स्थितिः / मृदु-लघु-स्निग्धउष्णानां चतुर्णा शुभानां स्पर्शानां सुरभिगन्धस्य “सिय" त्ति सितवर्णस्य मधुररसस्य च "दस" ति दश सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः। तथा त एव दश द्विसाधसमधिकाः सन्तो हारिद्रा-ऽम्लादीनां पश्चानुपूर्व्या उत्कृष्टा स्थितिर्वेदितव्या / इयमत्र भावना—हारिद्रवर्णस्याऽम्लरसस्य चार्धत्रयोदश सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः / लोहितवर्ण-कषायरसयोः पञ्चदश सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः / नीलवर्ण-कटुकरसयोः सार्धसप्तदश सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः। कृष्णवर्ण-तिक्तरसयोविंशतिः सागरोपमकोटाकोंट्य उत्कृष्टा स्थितिः / यद्यपि वर्ण-गन्ध-रस-स्पर्शचतुष्कमेवाविवक्षितभेदं बन्धेऽधिक्रियते, भेदरहितस्यैव च तस्य कर्मप्रकृत्यादिषु विंशतिसागरोपमकोटाकोटीरूपा स्थितिनिरूपिता, तथापि वर्णादिचतुष्कभेदानां विंशतेरपि पृथक् पृथक् स्थितिः पञ्चसङ्ग्रहे अभिहिता अतोऽस्माभिरपि तथैवाभिहिता, बन्धं तु प्रतीत्य वर्णादिचतुष्कमेवाविशेषितं गणनीयमिति // 29 // दस सुहविहगइउच्चे, सुरदुग थिरछक्क पुरिसरइहासे / मिच्छे सत्तरि मणुदुग, इत्थी साएसु पन्नरस // 30 // .