________________ 27 26-27] शतकनामा पञ्चमः कर्मग्रन्थः / मुत्तुं अकसायठिई, बार मुहत्ता जहण्ण वेयणिए / अदृष्ट नामगोएसु सेसएसुं मुहुत्तंतो // 27 // इह वेदनीयकर्मणो हि स्थितिर्द्विधा सम्भवति–अकषायिणः प्रतीत्य संकषांयिणश्च / तत्राकषायिणो वेदनीयस्य स्थितिर्द्विसमयस्थितिका, यतस्तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमयेऽकर्मतामनुभवति सा चेह नाधिक्रियते, सकषायिस्थितिबन्धस्यैवेहाधिकृतत्वात् / अत उक्तम्-'मुक्त्वा' त्यक्त्वा अकषायिणाम् उपशान्तमोह-क्षीणमोह-सयोगिकेवलिनां जघन्यां वेदनीयस्थितिम् / तर्हि सकषायिणां जघन्या किंप्रमाणा ? इत्याह-'द्वादश मुहूर्ताः' चतुर्विशतिघटिकाः 'जघन्या' लघीयसी 'वेदनीये' तृतीये कर्मणि स्थितिर्भवतीति / “अट्ठऽट्ठ नामगोएसु" त्ति मुहूर्तशब्दस्यात्रापि सम्बन्धात् प्रत्येकमष्टावष्टौ मुहूर्ता नाम-गोत्रयोर्जघन्या स्थितिर्भवति / 'शेषेषु' भणितोद्धरितेषु ज्ञानावरण-दर्शनावरण-मोहनीया-ऽऽयुः-अन्तरायलक्षणेषु पञ्चसु कर्मसु “मुहुत्तंतो" त्ति मीयत इति मुहूर्तः, मुहुरियर्तीति वा मुहूर्तः, पृषोदरादित्वादिष्टरूपसिद्धिः, घटिकाद्वयप्रमाणः कालः, मुहूर्तस्यान्तर-मध्यं मुहूर्तान्तः, अन्तर्मुहूर्तप्रमाणा जघन्या स्थितिवति / इह च "सेसएसुं" इत्यत्र ककारः स्वार्थिक इति / तथेहाबाधाकालः कर्मणोऽनुदयलक्षणो य उत्तराः प्रकृतीरुद्दिश्य “एवइयाबाह वाससया" (गा० 32) इति गाथावयवेन वक्ष्यते स एव तदनुसारतो मूलप्रकृतिष्वपि द्रष्टव्यः / तत्र ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रीणि वर्षसहस्राणि अबाधा द्रष्टव्या, बद्धमपीत्थमेतत् कर्म वर्षसहस्रत्रयं यावद् विपाकोदयलक्षणां बाधां न करोतीत्यर्थः। तया च वर्षसहस्रत्रयलक्षणयाऽबाधया ऊना-हीना कर्मस्थितिः कर्मनिषेको द्रष्टव्यः / निषेको नाम-प्रथमसमये बहु द्वितीयसमये हीनं तृतीयसमये हीनतरं ततो हीनतमं कर्मदलिकं रच्यते यत्र स एवम्भूतः कर्मदलिकरचनाविशेष उच्यते / अबाधां विहाय तत ऊर्ध्व वेदनार्थ कर्मनिषको भवतीति भावना। स्थापना-: / मोहनीयस्य सप्त वर्षसहस्राण्यबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेको निगदितलक्षणो द्रष्टव्यः / नाम-गोत्रयोद्धे द्वे वर्षसहस्र अबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः। आयुष्कस्य तु नरकायुः-सुरायुर्लक्षणस्योत्कृष्टा स्थितिस्त्रयस्त्रिंशदतराणि पूर्वकोटीत्रिभागोऽबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः / अत्र च सूत्रेऽबाधां प्रपात्य “निरयसुराउम्मि तित्तीसा" ( गा० 26) इति निषेककाल एवोक्तः / अत एव श्रीशिवशर्मसूरिपादैः शतके तितीसुदही आउम्मि केवला होइ एवमुक्कोसा / ( गा० 53 ) इत्यत्र केवलाऽबाधारहितेत्युक्तम् / तथा मूलप्रकृतिस्थितिबन्धप्रस्तावेऽपि “निरयसुराउम्मि तित्तीसा" ( गा० 26) इति यदुत्तरप्रकृतिस्थितिप्रतिपादनं तद् ग्रन्थलाघवार्थमिति परिभावनीयम् / जघन्या त्वबाधा सर्वासामप्यन्तर्मुहूर्तात्मिकेति // 27 // प्ररूपिता मूलप्रकृतीनामुत्कृष्टेतरभेदा स्थितिः / साम्प्रतमुत्तरप्रकृतीनामुत्कृष्टां स्थिति प्रतिपादयन्नाह 1 सं. 1-2 छा० त० म० °त्र एव // 2 त्रयस्त्रिंशदुधय आयुषि केवला भवत्येवमुत्कृष्टा //