________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा कस्य समुदितमेवैकं बन्धस्थानं मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायं यावद् भवति, एवमन्तरायपञ्चकस्यापि वाच्यम् / वेदनीयस्याप्येकमेव बन्धस्थानं सातमसातं वा / आयुषश्चतुर्णामायुषामन्यतरैकायुष्कलक्षणमेकमेव बन्धस्थानम् / गोत्रस्य तु नीचैर्गोत्रमुच्चैर्गोत्रं वा एकं बन्धस्थानम् / अत्र च सूचकत्वात् सूत्रस्यैतत् स्वयमेव द्रष्टव्यम् , यथा-अत्र कर्मपञ्चकेऽपि भूयस्कारा-ऽल्पतरबन्धौ न सम्भवतः, तल्लक्षणायोगात् / अवक्तव्यबन्धावस्थितबन्धौ तु वेदनीयवर्जकर्मचतुष्टये सम्भवतः / तथाहि-ज्ञानावरणा-ऽन्तराय-गोत्राणामुपशान्तमोहावस्थायां सर्वथाऽबन्धको भूत्वा प्रतिपत्य यदा पुनस्तान्येव बध्नाति तदा प्रथमसमयेऽवक्तव्यबन्धः / आयुषस्तु यदा त्रिभागादिसमयादौ बन्धकस्तदा प्रथमसमयेऽवक्तव्यबन्धः, द्वितीयादिसमयेषु त्ववस्थितबन्धः / वेदनीयद्विकस्य त्ववस्थितबन्धोऽस्ति, प्रभूतकालमवस्थितत्वेन बध्यमानत्वात् ; अवक्तव्यबन्धस्तु न सम्भवति, स हि सर्वथाऽबन्धको भूत्वा यदा प्रतिपत्य पुनस्तदेव बध्नाति तदा सम्भवति, न चैतद वेदनीयेऽस्ति, तस्य सर्वथाऽबन्धकत्वमयोगिकेवलिचरमसमय एव, न चायोगिकेवलिनो भगवतो भूयो बन्धोऽस्तीति / उक्तं च नाणावरणे तह आउयम्मि गोयम्मि अंतराए य / ठियअवत्तगबंधा, अवट्ठिया वेयणिज्जम्मि // (श० बृ० भा० गा० 317) इति // 25 // तदेवं भूयस्कारादिप्रकारैश्चिन्तितः प्रकृतिबन्धः / साम्प्रतं स एव स्वामित्वद्वारेण चिन्तनीयः, स च गुणस्थानकान्याश्रित्य लघुकर्मस्तवटीकायां मार्गणास्थानकान्याश्रित्य पुनः स्वोपनबन्धस्वामित्वटीकायां विस्तरेण निरूपितस्तत एवावधारणीय इति [प्रकृति ]बन्धः समाप्तः / इदानी स्थितिबन्धं व्याचिख्यासुः प्रथमं मूलप्रकृतीनामुत्कृष्टेतरं तं तावदाह वीसज्यरकोडिकोडी, नामे गोए य सत्तरी मोहे / तीसियर चउसु उदही, निरयसुराउम्मि तित्तीसा // 26 // अतिमहत्त्वादुदधिवत् तरीतुम्-अचिरात् पारं नेतुं न शक्यन्त इत्यतराणि-सागरोपमाणि तेषां कोटिकोटयोऽतरकोटिकोटयः / कियत्यः ? इत्याह—'विंशतिः' विंशतिसञ्जया भवन्ति / क ? इत्याह--"नामे" त्ति नामकर्मणि गोत्रे चोत्कृष्टा स्थितिः, उत्तरगाथायां जघन्यस्थितेर्भणिष्यमाणस्वादिहोत्कृष्टा स्थितिर्लभ्यते। ततोऽयमर्थः—नामकर्मणि गोत्रे च उत्कृष्टा स्थितिर्विंशतिकोटिकोटयः सागरोपमाणाम् / सप्ततिकोटीकोटयः सागरोपमाणां 'मोहे' मोहनीये। 'इतरेषु' आयुषो भणिष्यमाणत्वेन भणितोद्धरितेषु ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायलक्षणेषु चतुर्षु कर्मसु त्रिंशकोटीकोटयः सागरोपमाणां प्रत्येकमुत्कृष्टा स्थितिर्भवति। आयुःशब्दस्य प्रत्येकं सम्बन्धात् 'निरय' ति निरयायुषि सुरायुषि चोत्कृष्टा स्थितिस्त्रयस्त्रिंशत् 'उदधयः' सागरोपमाणि भवन्तीति // 26 // 1 शानावरणे तथाऽऽयुष्के गोत्रेऽन्तराये च / स्थिता-ऽवक्तव्यकबन्धौ अवस्थितो वेदनीये // 2 अस्मत्पाववर्तिषु समग्रेषु पुस्तकादशेषु “कर्मणि उत्कृष्टास्थितिविंशतिकोटिकोटयः सागरोपमाणाम् , तथा गोत्रेऽपि उत्कृष्टा स्थितिविशतिकोटीकोटयः सागरोपमाणाम्" इत्येवरूपः पाठः॥ 3 अस्मत्पार्श्ववर्तिनीषु सप्तस्वपि प्रतिषु “युषि उत्कृष्टा स्थितिस्त्रयस्त्रिंशद् 'उदधयः' सागरोपमाणि सुरायुषि चोत्कृष्ट स्थितिस्त्रयस्त्रिंशद् 'उधयः' सागरोपमाणि भवन्तीति" इत्येवंरूपः पाठः॥