________________ 25 25] - शतकनामा पञ्चमः कर्मग्रन्थः / भूयस्कारबन्धः / षड्विंशतिविधबन्धाद् अष्टाविंशतिबन्धं गतस्य प्रथमसमये तृतीयो भूयस्कारबन्धः। अष्टाविंशतिबन्धाद् एकोनत्रिंशद्वन्धं गतस्य प्रथमसमये चतुर्थो भूयस्कारबन्धः / एकोनत्रिंशतं बद्धा त्रिंशतं बनत आधसमये पञ्चमो भूयस्कारबन्धः / आहारकद्विकसहितां त्रिंशतं बद्धा एकत्रिंशद्वन्धं गतस्याद्यसमये षष्ठो भूयस्कारबन्धः; अथवा यशःकीर्तिलक्षणमेकविधं बवा श्रेणेनिपततः पुनरपूर्वकरणे एकत्रिंशदादि बनत आद्यसमये षष्ठ एव भूयस्कारबन्धः, न सप्तमः, एकत्रिंशल्लक्षणस्थानकस्योभयथाऽप्येकत्वादिति / अल्पतरबन्धाः सप्त पुनरेवम्-अपूर्वकरणे देवगतिप्रायोग्यामष्टाविंशतिमेकोनत्रिंशतं वा त्रिंशतं वा एकत्रिंशतं वा बद्ध्वा तद्वन्धव्यवच्छेदे एकविधबन्धं गतस्याद्यसमये प्रथमोऽल्पतरबन्धः। एकत्रिंशद्वन्धाच्च त्रिंशद्वन्धं गतस्याद्यसमये द्वितीयोऽल्पतरबन्धः। एतच्च कथं सम्भवति ? इत्युच्यते-इह कश्चिदाहारकद्विक-तीर्थकरनामसहितांपूर्वाभिहितामेकत्रिंशतं बद्धा दिवि समुत्पन्नः, तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तामेव त्रिंशतं बनत एकत्रिंशतस्त्रिंशति गमनं सम्भवति / ततस्तस्यैव दिवश्युत्वा मनुष्येषु समुत्पन्नस्य पुनरपि देवप्रायोग्यां तीर्थकरनामसहितां पूर्वाभिहितामेवैकोनत्रिंशतं बभ्रतः प्रथमसमये तृतीयोऽल्पतरबन्धः / यदा तु तिर्यग्-मनुष्याणामन्यतरस्तिर्यप्रायोग्यां पूर्वोक्तामेकोनत्रिंशतं बद्धा तथाविधविशुद्धिवशाद् देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तदा प्रथमसमये चतुर्थोऽल्पतरबन्धः / अष्टाविंशतेश्च तथाविधसंक्लेशवशादेकेन्द्रियप्रायोग्यषड्विंशतिबन्धं गतस्याघसमये पञ्चमोऽल्पतरबन्धः / षड्विंशतिबन्धात् पञ्चविंशतिबन्धं गतस्याद्यसमये षष्ठोऽल्पतरबन्धः / पञ्चविंशतिबन्धादपि त्रयोविंशतिबन्धं गतस्याद्यसमये सप्तमोऽल्पतरबन्धः / एतेष्वष्टस्वपि बन्धस्थानेषु द्वितीयादिसमयेषु सर्वत्रावस्थितबन्धो लभ्यत इत्यवस्थितबन्धा अष्टौ / अथावक्तव्यकबन्धास्त्रयः पुनरेवम्-उपशान्तमोहावस्थायां नामकर्मणः सर्वथा अबन्धको भूत्वा इंहवोपशान्ताद्धाक्षयेण प्रतिपत्य यदा पुनरप्येकविधं बध्नाति तदायसमये प्रथमोऽवक्तव्यबन्धः / अथवोपशान्तमोहावस्थायामेवायुःक्षयेणानुत्तरसुरेषु समुत्पद्यते उपात्ततीर्थकरनामा च भवति तदा तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तरूपां तीर्थकरसहितां त्रिंशतं बनतो द्वितीयोऽवक्तव्यबन्धः / अथवाऽनुपात्ततीर्थकरनामा यदा भवति तदा तस्य तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बनतः प्रथमसमये तृतीयोऽवक्तव्यबन्धः / तदेवं भाविता नामकर्मणि षड् भूयस्कारबन्धाः सप्ताल्पतरबन्धा अष्टाववस्थितबन्धाः त्रयोऽवक्तव्यबन्धाः। उक्तं च छ भूयगारबंधा, सत्तेव हवंति अप्पतरबंधा। .. तिण्णऽवत्तगबंधा, अवट्ठिया अट्ट नामम्मि // (श० बृ० भा० गा० 295) . उक्ता नामकर्माश्रित्य भूयस्कारादिबन्धाः। साम्प्रतं शेषकर्माण्याश्रित्य तानाह–“सेसेसु ठाणमिक्किक" ति 'शेषेषु' भणितोद्धरितेषु-ज्ञानावरण-वेदनीया-ऽऽयुः-गोत्रा-ऽन्तरायलक्षणेषु पञ्चसु कर्मसु 'स्थान' बन्धस्थानमेकैकमेव भवति / तत्राद्यकर्मणि मतिज्ञानावरणाद्युत्तरप्रकृतिपञ्च 1 षड् भूयस्कारबन्धाः सप्तैव भवन्त्यल्पतरबन्धाः / त्रयोऽवक्तव्यकबन्धा अवस्थिता अष्ट नानि // 2 बहुषु पुस्तकादशॆषु रिते° इत्यपि पाठो दृश्यते, एवमप्रेऽपि ज्ञेयम् //