________________ 24 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः शुभा-ऽशुभयोर्यशःकीर्ति-अयशःकीयोः पृथगेकैकमन्यतरद्वाच्यं सुभगनाम सुखरनाम आदेंयनाम वर्णचतुष्क तैजस-कार्मणा-गुरुलघु-निर्माण-उपघातमित्यष्टाविंशतिर्भवति / एषा च मिथ्यादृष्टि-सास्वादन-मिश्रा-ऽविरतानां देवगतिप्रायोग्यं बध्नतामवसेया / एषैवाष्टाविंशतिस्तीर्थकरनामकर्मणो बन्धे प्रक्षिप्ते एकोनत्रिंशद् भवति, तां च सम्यग्दर्शनिनो मनुष्या एव बद्धतीर्थकरनामानो देवगतिप्रायोग्यां बध्नन्ति / यदि वा पर्याप्तपञ्चेन्द्रियतिर्यक्प्रायोग्याऽपीयमेकोनत्रिंशद् बध्यते / तद्यथा-तिग्गतिः तिर्यगानुपूर्वी पञ्चेन्द्रियजातिः औदारिकशरीरम् औदारिकाङ्गोपाङ्गं तैजस-कार्मणे षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत् संहननं वर्णचतुष्टयम् अगुरुलघु उपघातम् पराघातम् उच्छ्वासनाम प्रशस्ता-ऽप्रशस्तविहायोगत्योरेकतरा वसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगदुर्भगयोरेकतरं सुस्वर-दुःस्वरयोरेकतरम् आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीोरेकतरं निर्माणमिति। त्रिंशत् पुनरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गम् आहारकशरीरम् आहारकाङ्गोपाङ्गं तैजस-कार्मणे समचतुरस्रसंस्थानं वर्णचतुष्कम् अगुरुलघु उपघातं परावातम् उच्छासं प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरम् आदेयं यशःकीर्तिनाम निर्माणनामेति / इदं च देवगतिप्रायोग्यं बनतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा वेदितव्यम् / अथवा कश्चिद् बद्धतीर्थकरनामकर्मा दिविस मुत्पन्नः पुनरपि मनुष्येषु समुत्पत्स्यत इति मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं देवो बध्नाति / तद्यथा-मनुष्यगति-मनुष्यानुपूव्र्यो पञ्चेन्द्रियजातिः औदारिकशरीरम् औदारिकाङ्गोपाङ्गं समचतुरस्रसंस्थानं वज्रऋषभनाराचसंहननं पराघातम् उच्छ्वासं प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्त. प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं यशःकीर्ति-अयशःकीयोरेकतरं सुभगं सुस्वरम् आदेयं तीर्थकरनाम वर्णचतुष्कं तैजस-कार्मणा- गुरुलघु-निर्माण-उपघातनामेति / एकत्रिंशत् पुनरेवम्-देवगति-देवानुपूव्यौँ पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गम् आहारकशरीरम् आहारकाङ्गोपाङ्गं तैजस-कार्मणे च समचतुरस्रसंस्थानं वर्णचतुष्कम् अगुरुलघु उपघातं पराघातम् उच्छ्वासं प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरम् आदेयं यशःकीर्तिनाम निर्माणं तीर्थकरनामेति / तां चाऽप्रमत्तयतिः कियन्तमपि च भागं यावद् अपूर्वकरणश्च देवगतिप्रायोग्यामेव बध्नाति / एकविधबन्धं तु यश कीर्तिस्वरूपम् अपूर्वकरणाऽनिवृत्तिबादर-सूक्ष्मसम्परायाः स्वरूपणैव बध्नन्ति, न तु कस्यचित् प्रायोग्यं, देवगतिप्रायोग्यस्यापि बन्धस्यापूर्वकरणमध्ये व्यवच्छिन्नत्वात् / __ तदेवं स्वरूपतोऽष्टावप्युक्तानि नामकमणो बन्धस्थानानि / साम्प्रतमेतेषु प्रकृता भूयस्कारादिवन्धा भाज्यन्ते—“छस्सगअट्ठतिबंध" त्ति बन्धशब्दो भूयस्कारादिषु योजनीयः, ततो भूयस्कारबन्धाः षड्, अल्पतरबन्धाः सप्त, अवस्थितबन्धा अष्टौ, अवक्तव्यबन्धास्त्रय इति / तत्र भूयस्कारबन्धाः पडेवम्-कस्यचिद् अपर्याप्तैकेन्द्रियप्रायोग्यां त्रयोविंशति बद्धा तत्प्रायोग्यविशुद्धिवशात् पञ्चविंशतिविधबन्धं गतस्याघसमये प्रथमो भूयस्कारबन्धः / ततोऽपि पञ्चविंशतिबन्धात् तत्प्रायोग्यविशुद्धिवशतः षड्विंशतिबन्धं गतस्य प्रथमसमये द्वितीयो