________________ 23-24] शतकनामा पञ्चमः कर्मग्रन्थः / - 21 त्तरप्रकृतीनां त्रीणि बन्धस्थानानि। कथम् ? इत्याह-"नव छ चउ" त्ति नवविधं बन्धस्थानं षड्विधं बन्धस्थानं चतुर्विधं बन्धस्थानं चेति / तत्र निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानर्द्धिलक्षणं निद्रापञ्चकम् , चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण-केवलदर्शनावरणचतुष्टयं चेत्येतन्नवविधम् , एतच्च मिथ्यादृष्टि-साखादनगुणस्थानकं यावद् बध्यते / ततः परं स्त्यानर्द्धित्रिकं निद्रानिद्रा-प्रचलाप्रचला-स्त्यानर्द्धिरूपं व्यवच्छिद्यते, अतः सम्यग्मिथ्यादृष्टिगुणस्थानकादिषु षड्विधं बनतः प्रथमसमये प्रथमोऽल्पतरबन्धः, एतच्च षड्विधमपूर्वकरणप्रथमसप्तभागं यावद् बध्नाति / ततः परं निद्रा-प्रचलाबन्धव्यवच्छेदे सति शेषं चतुर्विधं बनत आद्यसमये द्वितीयोऽल्पतरबन्धः, एतच्चतुर्विधं सूक्ष्मसम्परायगुणस्थानकं यावद् बध्यते / ततः कस्यचित् पुनरपि प्रतिपत्य षड्विधं बध्नतः प्रथमसमये प्रथमो भूयस्कारबन्धः / ततोऽपि प्रतिपत्य नवविधं बनत आद्यसमये द्वितीयो भूयस्कारबन्धः / अत्र च नवविधादिषु त्रिष्वपि बन्धस्थानेषु द्वितीयादिषु समयेषु तदेव बनतोऽवस्थितबन्ध इति त्रयोऽवस्थितबन्धाः / यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकृतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेणेहैव प्रतिपत्य चतुर्विधं बध्नाति तदा प्रथमसमयेऽवक्तव्यबन्धो भूयस्काराद्युचितलक्षणायोगाद् भूयस्कारादिभिर्विकल्पैवक्तुं न शक्यत इत्यवक्तव्यः, द्वितीयादिसमयेषु त्वत्राप्यवस्थितबन्धः / यदा पुनरुपशान्तमोहावस्थायामेवायुःक्षयेणानुत्तरसुरेषूत्पद्यते तदा तत्र प्रथमसमय एव षड्विधं बनतो द्वितीयोऽवक्तव्यबन्धः, द्वितीयादिसमयेषु त्ववस्थितबन्धः। तदेवमत्र द्वौ भूयस्कारबन्धौ द्वावल्पतरबन्धौ / अवस्थितबन्धास्तु गणनया षड् भवन्तोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदास्त्रय एव भवन्ति / अवक्तव्यबन्धौ द्वौ इति / एतदेवाह- "दु दु ति दु" त्ति द्वौ भूयस्कारबन्धौ द्वावल्पतरबन्धौ त्रयोऽवस्थितबन्धाः द्वाववक्तव्यबन्धाविति / भावार्थः पूर्वोक्त एवेति।। . उक्ता दर्शनावरणोत्तरप्रकृतिषु भूयस्कारादिबन्धाः / इदानीमेतानेव मोहनीयोत्तरप्रकृतिषु विचिन्तयन्नाह-"मोहे दुइगवीस सत्तरस” इत्यादि / 'मोहे' मोहनीयकर्मणि दश बन्धस्थानानि भवन्ति / तद्यथा--"दुइगवीस" त्ति विंशतिशब्दस्य प्रत्येकं सम्बन्धाद् द्वाविंशतिः एकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिस्रो द्वे एका च / उक्तं च सप्ततिकायाम् बावीस इक्कवीसा, सत्तरसा तेरसेव नव पंच। चउ तिग दुगं च एगं, बंधट्ठाणाणि मोहस्स // (गा० 11) तत्र सम्यक्त्व-सम्यग्मिथ्यात्वे बन्धे न भवतः, "ने य बंधे सम्ममीसाई" ( पैञ्चसं० गा० 128 ) इति वचनात् / न च त्रयाणां वेदानां युगपद् बन्धः किन्त्वेककालमेकस्यैव / हास्यरतियुगला- रति-शोकयुगले अपि न युगपद् बन्धमायातः किन्त्वेकतरमेव युगलम् / ततो मोहनीयस्योत्कर्षतः प्रभूतप्रकृतिबन्धो द्वाविंशतिः-मिथ्यात्वं 1 षोडश कषायाः 16 एको वेदः 1 अन्यतरयुगलं 2 भयं 1 जुगुप्सा 1 इति / सा च मिथ्यादृष्टिगुणस्थानके प्राप्यते / ततः सास्वादनसम्यग्दृष्टिगुणस्थानके मिथ्यात्वबन्धाभावादेकविंशतिः / यद्यप्यत्र नपुंसकवेदस्यापि 1 द्वाविंशतिः एकविंशतिः सप्तदश त्रयोदशैव नव पञ्च / चत्वारि त्रीणि द्वे चैकं बन्धस्थानानि मोहस्य / / 2 न च बन्धे सम्यक्त्व-मिश्रे // 3 पञ्चसंग्रहे तु-"बंधे नो सम्ममीस्साई" इति पाठः //