________________ 20 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः वक्तव्यबन्धः, अयं पुनरुत्तरप्रकृतीनामेव भवति न मूलप्रकृतीनाम् , तासां सर्वथाऽबन्धकस्यायोगिकेवलिनः सिद्धस्य वा प्रतिपाताभावेन पुनर्बन्धाभावात् / / अथ कथं त्रयो भूयस्कारबन्धाः त्रयोऽल्पतरबन्धाः चत्वारोऽवस्थितबन्धा भवन्ति ? इति. चेद् उच्यते-इहैकविधं बद्ध्वा उपशान्तमोहावस्थातः प्रतिपत्य सूक्ष्मसम्पराये पुनः षड्विधं बनत आद्यसमये प्रथमो भूयस्कारबन्धः 1 द्वितीयादिसमयेषु त्ववस्थितबन्धः, ततोऽ- . प्यधस्तात् प्रतिपत्य सप्तविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धः 2 द्वितीयादिसमयेषु त्ववस्थितबन्धः, आयुर्बन्धकाले त्वष्टविधबन्धं गतस्य प्रथमसमय एव तृतीयो भूयस्कारबन्धः 3 द्वितीयादिसमयेषु त्ववस्थितबन्ध इति त्रयो भूयस्काराः / तथाऽऽयुर्बन्धकालेऽष्टविधं बवा पुनरप्यायुर्बन्धोपरमे सप्तविधं बनत आद्यसमये प्रथमोऽल्पतरबन्धः 1 द्वितीयादिसमयेषु त्ववस्थितबन्धः, सप्तविधादपि सूक्ष्मसम्परायावस्थायां षड्विधबन्धं गतस्य प्रथमसमये द्वितीयोऽल्पतरबन्धः 2 द्वितीयादिसमयेषु त्ववस्थितबन्धः, षड्विधबन्धादप्युपशान्तमोहाद्यवस्थायामेकविधबन्धं गतस्याद्यसमये तृतीयोऽल्पतरबन्धः 3 द्वितीयादिसमयेषु त्ववस्थितबन्ध इति त्रयोऽल्पतरबन्धाः / तथा मूलप्रकृतिविषयाण्येकविधबन्धादीनि चत्वारि बन्धस्थानानि, तेषु चतुलपि बन्धस्थानेष्ववस्थितबन्धोऽस्त्येवेति चत्वारोऽवस्थितबन्धाः / अवक्तव्यबन्धस्तु मूलप्रकृतिषु न सम्भवतीत्युक्तमेवेति // 22 // अथैतदेव भूयस्कारादिस्वरूपं व्याचिख्यासुराह एगादहिगे भूओ, एगाईऊणगम्मि अप्पतरो। तम्मत्तोऽवट्ठियओ, पढमे समए अवत्तव्वो॥ 23 // एकादिभिः-एकद्विव्यादिभिः प्रकृतिभिरधिके बन्धे “भूय" ति भूयस्कारनाम बन्धो भवति। यथा--एका बद्ध्वा षड् बध्नाति, षड् बद्ध्वा सप्त बध्नाति, सप्त वा बद्ध्वाऽष्टौ बध्नातीति / तथा एकादिभिः-एक-द्वि-व्यादिभिः प्रकृतिभिरूने-हीने बन्धे 'अल्पतरः' अल्पतरनाम बन्धो भवति / यथा--अष्टौ बवा सप्त बध्नाति, सप्त वा बद्ध्वा षड् बध्नाति, षड् वा बद्ध्वा एकां बध्नाति / तथा स एव भूयस्कारोऽल्पतरो वा द्वितीयादिसमयेषु 'तन्मात्रः' तावन्मात्रतया प्रवर्तमानोऽवस्थितबन्धो भवति / एते त्रयोऽपि प्रकारा मूलप्रकृतीनां सम्भवन्ति / तथा यः सर्वथाऽबन्धको भूत्वा भूयोऽपि बन्धकः सञ्जायते तदा तस्य प्रथमसमयेऽवक्तव्यः सम्भवतीति / एतदेवाह-"पढमे समए अवत्तबो" इति स्पष्टम् / न चायं मूलप्रकृतिषु सम्भवंति, न हि मूलप्रकृतीनां सर्वासां बन्धव्यवच्छेदे सति अयोगिकेवलिनः सिद्धस्य वा भूयोऽपि बन्धः सम्भवतीति एषोऽवक्तव्यबन्ध उत्तरप्रकृतिष्वेव भवति, तं चोत्तरप्रकृतिषु यथास्थानं दर्शयिष्यामः // 23 // ____ उक्ता मूलप्रकृतीरधिकृत्य भूयस्कारादिबन्धाः। अधुनोत्तरप्रकृतीः प्रतीत्य तान् प्रचिकटयिषुराह नव छ चउ दंसे दु दु, ति दु मोहे दु इगवीस सत्तरस। तेरस नव पण चउ ति दु, इक्को नव अट्ठ दस दुन्नि // 24 // "दंसि" त्ति भामा सत्यभामेति न्यायात् पदैकदेशेऽपि पदसमुदायोपचार इति दर्शनावरणो मराह