________________ 21-22] .. शतकनामा पञ्चमः कर्मग्रन्थः / चादितया विशिष्टा परिणतिर्भवति, उपघात-साधारण-प्रत्येक उद्योता-ऽऽतपादीनामपि सर्वेषां शरीरपुद्गलेष्वेव खविपाकस्य दर्शनात् सुप्रतीतमेवासां पुद्गलविपाकित्वमिति / ___ उक्ताश्चतुर्विधविपाकाः प्रकृतयः / सम्प्रति यदुक्तम् "वुच्छं बंधविह सामी य" (गा०१) इति तन्निर्वाहणार्थ बन्धविधा व्याचिख्यासुराह- "बंधो पयइठिइरसपएस" त्ति, बन्धशब्दस्य प्रत्येकममिसम्बन्धात् प्रकृतिबन्धः स्थितिबन्धः रसबन्धः प्रदेशबन्धः, 'इति' अमुना प्रकारेण बन्धश्चतुर्धा भवति / तत्र स्थिति-अनुभाग-प्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः / अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः / कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभागबन्धो रसबन्ध इत्यर्थः / कर्मपुद्गलानामेव यद् ग्रहणं स्थितिरसनिरपेक्षं दलिकसङ्ख्याप्राधान्येनैव करोति स प्रदेशबन्धः / उक्तं च ठिईबंधु दलस्स ठिई, पएसबंधो पएसगहणं जं / ताण रसो अणुभागो, तस्समुदाओ पगइबंधो // ( पञ्चसं० गा० 432 ) अन्यत्राप्युक्तम् प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् / अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः // ( ) इति // 21 // उक्ताः सामान्यतो बन्धभेदाः / अथ मूलप्रकृतिबन्धस्थानानि तेषु च भूयस्कारा-ऽल्पतरा: ऽवस्थिता-ऽवक्तव्यलक्षणान् बन्धभेदविशेषान् निरूपयन्नाह मूलपयडीण अडसत्तछेगबंधेसु तिन्नि भूगारा। अप्पतरा तिय चउरो, अवट्ठिया न हु अवत्तव्वो // 22 // ___ मूलप्रकृतीनां' ज्ञानावरण-दर्शनावरण-वेदनीय-मोहनीया-ऽऽयुः-नाम-गोत्रा-ऽन्तरायलक्षणानाम् अष्ट-सप्त-षड्-एकबन्धेषु त्रयो भूयस्काराः त्रयोऽल्पतराः चत्वारोऽवस्थितबन्धा भवन्ति, 'न हु' नैव 'अवक्तव्यः' अवक्तव्यबन्धो भवतीत्यक्षरार्थः / भावार्थस्त्वयम्-इह मूलपकृतीनां चत्वारि बन्धस्थानानि भवन्ति / तद्यथा-अष्टविधबन्धः सप्तविधबन्धः षनिधबन्ध एकविधबन्धश्च / सर्वप्रकृतिसमुदायबन्धोऽष्टविधबन्धः / आयुर्वर्जसप्तप्रकृतिबन्धः सप्तविधबन्धः / आयुमोहनीयवर्जषट्प्रकृतिबन्धः षड्विधबन्धः / एकस्याः सातवेदनीयलक्षणायाः प्रकृतेन्ध एकविधबन्धः / ततश्चाऽष्टविध-सप्तविध-षड्विध-एकविधबन्धेषु त्रयो भूयस्कारबन्धाः त्रयोऽरूपतरबन्धाः चत्वारोऽवस्थितबन्धाः, अवक्तव्यबन्धो नास्ति / . .. तत्र भूयस्कारादीनां स्वरूपमिदम्-तत्रैकविधाद्यल्पतरबन्धको भूत्वा यत्र पुनरपि पवियादिबहुबन्धको भवति स प्रथमसमये भूयस्कारबन्धः 1 / यत्र त्वष्टविधादिबहुबन्धको भूत्वा पुनरपि सप्तविधाद्यल्पतरबन्धको भवति स प्रथमसमय एवाल्पतरबन्धः 2 / यत्र तु प्रथमसमये एकविधादिबन्धको भूत्वा द्वितीयसमयादिष्वपि तावन्मात्रमेव बध्नाति सोऽवस्थितबन्धः 3 / यत्र तु सर्वथाऽबन्धको भूत्वा पुनः प्रतिपत्य बन्धको भवति स आद्यसमयेऽ स्थितिबन्धो दलस्य स्थितिः प्रदेशबन्धः प्रदेशग्रहणं यत् / तेषां रसोऽनुभागः तत्समुदायः प्रकृतिबन्धः //