________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः भावमनुभवति न शरीरपुद्गला इति / एताः सर्वा अपि जीवविपाकिन्य इति। या अपि क्षेत्रविपाका उक्ताः, याश्च भवविपाकाः पुद्गलविपाकाश्च वक्ष्यन्ते, ता अपि परमार्थतो जीवविपाका एव; यतो जीवस्यैव पारम्पर्येणानुग्रहमुपघातं च कुर्वन्ति, केवलं मुख्यतया क्षेत्र-भव-पुद्गलेषु तत्तद्विपाकस्य विवक्षितत्वात् तत्तद्विपाका उच्यन्त इति / 'आयूंषि चत्वारि' नारकायुष्कादीनि, पुंस्त्वं च प्राकृतवशात् , प्राकृते हि लिङ्गमतन्त्रमेव, यदवादि प्रवादिसर्पदर्पसौपर्णेयैः श्रीहेमचन्द्रसूरिपादैः खप्राकृतलक्षणे—“लिङ्गमतन्त्रम्" (सिद्ध० 8-4-445) इति / भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः-नारकादिपर्यायः, स च पूर्वायुर्विच्छेदे विग्रहगतेरप्यारभ्य वेदितव्यः, यदाह भगवान् श्रीसुधर्मस्वामी भगवत्याम् "नेरैइए नेरइएसु उववज्जइ" (शत०४ उद्दे०९) इति / तस्मिन् भवे-नारकतिर्यमरामररूप एव विपाकः-उदयो विद्यते येषां तानि भवविपाकीनि / तथाहि—यथासम्भवं पूर्वभवे बद्धानि आगामिनि भवे विपच्यन्त इति भावः / ननु यथाऽऽयुषां देवादिभवेऽवश्यं विपाको भवति एवं गतीनामपि, अतस्ता अपि भवविपाकिन्यः प्रामुवन्ति, अत्रोच्यते-आयुर्य यस्य भवस्य योग्यं निबद्धं तत् तस्मिन्नेव भवे वेद्यत इत्यायुषो भवविपाकदानाद् भवविपाकित्वम् , गतयस्तु विभिन्नभवयोग्या निबद्धा अप्येकस्मिन्नपि भवे सर्वाः सङ्क्रमण संवेद्यन्ते / तथाहि-मोक्षगामिनोऽशेषा गतयो मनुष्यभवे क्षयं यान्ति, अतो भवं प्रति गतीनां नैयत्याभावान्न भवविपाकिन्यः, किन्तु जीवविपाकिन्य एवेति // 20 // उक्ता जीवविपाका भवविपाकाश्च प्रकृतयः। इदानीं पुद्गलविपाकिनीः प्रकृतीः प्रचिकटयिषुराह नामधुवोदय चउतणुक्घायसाहारणियर जोयतिगं। : पुग्गलविवागि बंधो, पयइठिइरसपएस त्ति // 21 // नाम्नः-नामकर्मणो ध्रुवोदयाः-नित्योदया नामध्रुवोदया द्वादश प्रकृतयः, तद्यथा—निर्माणस्थिरा-ऽस्थिरा-ऽगुरुलघु-शुभा-ऽशुभ-तैजस-कार्भण-वर्णचतुष्कमिति / “चउतणु" त्ति तनुशब्देनो पलक्षितं चतुष्कं “तणुवंगागिइसंघयण" (गा० 3) इति गाथावयवेन प्रतिपादितं तनुचतुष्कम् / तत्र तैजस-कार्मणयोर्बुवोदयमध्ये पठितत्वादिह तनवः-औदारिक वैक्रिया-ऽऽहारकलक्षणास्तिस्रः परिगृह्यन्ते, उपाङ्गानि त्रीणि, आकृतयः-संस्थानानि षट् , संहननानि षट् , तदेवं तनुचतुष्कशब्देन एता अष्टादश प्रकृतयो गृह्यन्ते / उपघातं साधारणम् 'इतरच्च' तत्प्रतिपक्षभूतं प्रत्येक "जोयतिगं" ति “उज्जोयायवपरघा" (गा० 3) इति वचनाद् उद्योता-ऽऽतप-पराघातलक्षणमिति / एताः षट्त्रिंशत् प्रकृतयः “पुग्गलविवागि" त्ति पुद्गलेषु-शरीरतया परिणतेषु परमाणुषु विपाकःउदयो यासां ताः पुद्गलविपाकिन्यः, शरीरपुद्गलेष्वेवात्मीयां शक्तिं दर्शयन्तीत्यर्थः / तथाहिनिर्माण-स्थिराद्युदयात् शरीरतया परिणतानां पुद्गलानामङ्गप्रत्यङ्गादिनियमनं दन्तास्थ्यादीनां स्थिरत्वं जिह्वादीनामस्थिरत्वं शिरःप्रभृतीनां शुभत्वं पादादीनामशुभत्वमित्यादि, तनूदयात् शरीरतया पुद्गला एव परिणमन्ति, अङ्गोपाङ्गोदयाच्च तेषां शिरः-ग्रीवाद्यवयवविभागो जायते, आकृतिनामोदयात् तेष्वेवाऽऽकारविशेषः सम्पनीपद्यते, संहननोदयात् तेषामेव वज्रऋषभनारा 1 नैरयिको नैरयिकेषु उत्पद्यते //