________________ 19-20] शतकनामा पञ्चमः कर्मग्रन्थः / क्षेत्रविपाकाः, आनुपूर्व्यश्चतस्रः नरक-तिर्यग्-नरा-ऽमरानुपूर्वीलक्षणाः, यतस्तासां चतसृणामपि विग्रहगतावेवोदयो भवतीति / उक्तं च बृहत्कर्मविपाके निरयाउयस्स उदए, नरए वक्केण गच्छमाणस्स / निरयाणुपुब्वियाए, तहि उदओ अन्नहिं नत्थि // एवं तिरिमणुदेवे, तेसु वि वक्केण गच्छमाणस्स। तेसिमणुपुबियाणं, तहि उदओ अन्नहिं नस्थि // ( गा० 122-123 ) ननु विग्रहगत्यभावेऽप्यानुपूर्वीणामुदयः सङ्क्रमकरणेन विद्यते, अतः कथं क्षेत्रविपाकिन्यस्ता न गतिवद् जीवविपाकिन्यः ? इति अत्रोच्यते-विद्यमानेऽपि सङ्क्रमे यथा तासां क्षेत्रप्राधान्येन खकीयो विपाकोदयो न तथाऽन्यासामतः क्षेत्रविपाकिन्य एवेति // 19 // उक्ताः क्षेत्रविपाकाः प्रकृतयः / साम्प्रतं जीवविपाकर भवविपाकाश्च प्रकृतीराहघणघाइ दुगोय जिणा, तसियरतिग सुभगदुभगचउ सासं / जाइतिग़ जियविवागा, आऊ चउरो भवविवागा // 20 // घनघातिन्यः प्रकृतयः सप्तचत्वारिंशत् , तद्यथा—ज्ञानावरणं पञ्चधा, दर्शनावरणं नवधा, मोहनीयमष्टाविंशतिधा, अन्तरायं पञ्चधेति / “दुगोय" त्ति “गोयवेयणियं” (गा० 3) इति वचनाद् ‘गोत्रद्विकं' गोत्र वेदनीयरूपम् / तत्र गोत्रम् उच्चैर्गोत्र-नीचैर्गोत्रभेदाद् द्वेधा, वेदनीयं साता-ऽसातभेदेन द्विभेदमिति दुगोयशब्देन प्रकृतिचतुष्टयं गृह्यते / जिनमाम, "तसियरतिग" ति त्रिकशब्दस्य प्रत्येकं सम्बन्धात् त्रसत्रिकं त्रस-बादर-पर्याप्तकरूपम् , इतरत्रिकं स्थावरत्रिकं स्थावर-सूक्ष्मा-ऽपर्याप्तकलक्षणम् / “सुभगदुभगचउ" ति चतुःशब्दस्य प्रत्येकं सम्बन्धात् सुभगचतुष्कं-सुभग-सुखरा-ऽऽदेय-यशः कीर्तिरूपम् , दुर्भगचतुष्कं-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्तिलक्षणम् / “सासं" ति उच्छासं “जाइतिग" त्ति जातिशब्देनोपलक्षितं त्रिकं “जाइगइखगइ" (गा० 3.) इति गाथावयवोक्तं जातित्रिकम् / तत्र जातयः-एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाख्याः पञ्च, गतयः-सुर-नर-तिर्यग्-नरकरूपाश्चतस्रः, खगतिः-प्रशस्ता-ऽप्रशस्तविहायोगतिभेदेन द्विधा, इत्येवं जातित्रिकशब्देन एकादश प्रकृतयो गृह्यन्त इति / एता अष्टासप्ततिप्रकृतयो जीव एव विपाक:-स्वशक्तिदर्शनलक्षणो विद्यते यासां ता जीवविपाका ज्ञातव्याः / तथाहि-पञ्चविधज्ञानावरणोदयाद् जीव एवाऽज्ञानी स्याद् न पुनः शरीर-पुद्गलादिषु तत्कृतः कश्चिदुपघातोऽनुग्रहो वाऽस्तीति, एवं नवविधदर्शनावरणोदयाद् जीव एव अदर्शनी भवति, साता-ऽसातोदयाद् जीव एव सुखी दुःखी वा सम्पद्यते, अष्टाविंशतिविधमोहनीयोदयाद् जीव एव अदर्शनी अचारित्री वा जायते, पञ्चविधान्तरायोदयाद् जीव एव न दानादि कर्तुं पारयति, उच्चैर्गोत्र-नीचैर्गोत्र-गतिचतुष्क-जातिपञ्चक-विहायोगतिद्विक-जिन-स-बादर-पर्या' सकस्थावर-सूक्ष्मा-ऽपर्याप्तक-सुभगचतुष्क-दुर्भगचतुष्क-उच्छ्वासनामोदयाद् जीव एव ते तं . 1 निरयायुष उदये नरके वक्रेण गच्छतः। निरयानुपूर्व्यास्तत्रोदयोऽन्यत्र नास्ति // एवं तिर्य-मनुजदेवेषु तेष्वपि वक्रण गच्छतः / तासामानुपूर्वीणां तत्रोदयोऽन्यत्र नास्ति //