________________ देवेन्द्रसूरिविरचितः स्वोपशटीकोपेतः [गाथाः नानो ध्रुवबन्धिनवकं नामध्रुवबन्धिनवकं-वर्णचतुष्क-तैजस-कार्मणा-गुरुलधु-निर्माण-उपघातलक्षणम् , दर्शनचतुष्कं-चक्षुः-अचक्षुः-अवधि-केवलदर्शनरूपम् , 'पञ्च ज्ञानानि' मति-श्रुताऽवधि-मनःपर्याय-केवलज्ञानाभिधानि, काकाक्षिगोलकन्यायादत्रापि पञ्चशब्दस्य सम्बन्धात् पञ्च 'विशानि' अन्तरायाणि-दान-लाभ-भोग-उपभोग-वीर्यान्तरायाख्यानि पराघातं भयं 'कुत्सा' जुगुप्सा मिथ्यात्वं "सासं" ति उच्छ्वासं जिननाम इत्येता एकोनत्रिंशत्प्रकृतयः 'अपरिवृत्ताः' अपरावर्तमाना भवन्ति / अयमत्र भावः—या नामध्रुवबन्धिनवकप्रभृतय एकोनत्रिंशत्प्रकृतयस्ताः खबन्धोदयोभयकालेषु नान्यस्याः प्रकृतेर्बन्धमुदयमुभयं वा निरुध्य प्रवर्तन्तेऽतोऽपरावर्तमाना इति // 18 // उक्ता अपरावर्तमानाः प्रकृतयः / साम्प्रतं परावर्तमानप्रकृतीराह तणुअट्ट वेय दुजुयल, कसाय उज्जोयगोयदुग निद्दा / तसवीसाऽऽउ परित्ता, वित्तविवागाणुपुवीओ // 19 // तनुशब्देनोपलक्षितमष्टकं “तणुवंगागिइसंघयणजाइगइखगइपुवि" (गा. 3) इति गाथावयवेन प्रतिपादितं तन्वष्टकम् / तत्र तनवस्तैजस-कार्मणयोरपरावर्तमानासु प्रतिपादितत्वात् शेषा औदारिक-वैक्रिया-ऽऽहारकरूपास्तिस्रः, उपाङ्गानि त्रीणि, आकृतयः षट्, संहननानि षट् , जातयः पञ्च, चतस्रो गतयः, खगतिद्वयम् , आनुपूर्वीचतुष्कमिति तन्वष्टकशब्देन त्रयस्त्रिंशत्प्रकृतयो गृह्यन्ते। 'वेदाः' स्त्री-पुं-नपुंसकरूपास्त्रयः 'द्वियुगलं' हास्य-रति-अरति-शोकरूपं, कषायाः षोडश, “उज्जोयगोयदुर्ग" ति द्विकशब्दस्य प्रत्येकं सम्बन्धाद् उद्योतद्विकम्-"उज्जोयायव" (गा. 3) इति वचनाद् उद्योता-ऽऽतपाख्यम् , गोत्रद्विकम्-"गोयवेयणियं" (गा. 3) इति वचनाद् गोत्र-वेदनीयस्वरूपम् / तत्र गोत्रम् उच्चैर्गोत्र-नीचेोत्रभेदाद् द्विधा, साता-ऽसातमेदाद् वेदनीयमपि द्विधा इत्येताश्चतस्रः प्रकृतयो गोत्रद्विकशब्देन गृह्यन्ते, निद्रापञ्चकं त्रसविंशतिः-त्रसदशक-स्थावरदशकरूपा, आयूंषि चत्वारि इति / एता एकनवतिप्रकृतयः “परित्त" ति प्राकृतत्वात् 'परिवृत्ताः' परावर्तमाना भवन्तीति शेषः / तत्र षोडश कषाया निद्रापञ्चकं च यद्यप्येता एकविंशतिप्रकृतयो ध्रुवबन्धित्वाद् बन्धं प्रति परोपरोधं न कुर्वन्ति तथापि स्वोदये स्वजातीयप्रकृत्युदयनिरोधात् परावर्तमाना भवन्ति / स्थिर-शुभा-ऽस्थिरा-ऽशुभप्रकृतयश्चतस्रश्च यद्यप्युदयं प्रति न विरुद्धास्तथापि बन्धं प्रति परावर्तमानाः, शेषाश्च गतिचतुष्क-जातिपञ्चक-शरीरत्रिक-अङ्गोपाजत्रिक-संस्थानषट्क-संहननषट्का-ऽऽनुपूर्वीचतुष्का-ऽऽतप-उद्योत-विहायोगतिद्विक-त्रसादिषोडशक-वेदत्रिक-हास्य-रति-अरति-शोकयुगलद्वय-साता-ऽसात-उच्च-नीचा-ऽऽयुश्चतुष्टयलक्षणाः षट्षष्टिः प्रकृतयो बन्धोदयाभ्यामपि परस्परं विरुद्धा अतः परावर्तमाना इति / उक्ताः परावर्तमानप्रकृतयः, तद्भणनेन च समर्थितं परावर्तमाना-ऽपरावर्तमानप्रकृतिद्वारद्वयम् / तदेवं समर्थित "धुवबंधोदयसत्ताघाइपुन्नपरियत्ता सेयर" (गा० 1) इति मूलद्वारगाथोपन्यस्तं द्वारद्वादशकम् / सम्प्रति यदुक्तं "चउह विवागा वुच्छं” (गा० 1) इति तद् बिभणिषुः प्रथमं क्षेत्रविपाकाः प्रकृतीराह-"खित्तविवागाणुपुषीओ" ति क्षेत्रम्-आकाशं तत्रैव विपाकः-उदयो यासां ताः 1 छा० विना 'तः परावर्तमानप्रकृतयः, तद्भण° // 2 सं० 1-2 छा० त०म० °संता॥