________________ 15-18] शतकनामा पञ्चमः कर्मग्रन्थः। तिर्यगायुः 'वर्णचतुष्कं' वर्ण-गन्ध-रस-स्पर्शाख्यम् , पञ्चेन्द्रियजातिः 'शुभखगतिः' प्रशस्तविहायोगतिरिति // 15 // बायाल पुन्नपगई, अपढमसंठाणखगइसंघयणा। तिरिदुग असाय नीयोवघाय इग विगल निरयतिगं // 16 // थावरदस वनचउक्क घाइपणयालसहिय बासीई। पावपयडि त्ति दोसु वि, वन्नाइगहा सुहा असुहा // 17 // सुरत्रिकप्रभृतयः शुभखगतिपर्यन्ता एता द्विचत्वारिंशत्सङ्ख्याः पुण्याः-शुभाः प्रकृतयः पुण्यप्रकृतय उच्यन्ते / उक्ताः पुण्यप्रकृतयः इदानी पापप्रकृतीराह-अपढमसंठाण" इत्यादि / संस्थानानि च खगतिश्च संहननानि च संस्थान-खगति-संहननानि, अप्रथमानि च-प्रथमवर्जानि तानि संस्थानखगति-संहननानि च अप्रथमसंस्थान-खगति-संहननानि / तत्राप्रथमसंस्थानानि न्यग्रोधपरिमण्डलसादि-कुब्ज-वामन-हुण्डाख्यानि पञ्च, अप्रथमखगतिः--अप्रशस्तविहायोगतिः, अप्रथमसंहननानिऋषभनाराच-नाराच-ऽर्धनाराच-कीलिका-च्छेदवृत्तरूपाणि पञ्च, 'तिर्यद्विकं' तिर्यग्गति-तिर्यगानुपूर्वीरूपम् असातं नीचैर्गोत्रम् उपघातम् "इग" त्ति एकेन्द्रियजातिः “विगल" ति द्वीन्द्रिय• त्रीन्द्रिय-चतुरिन्द्रियजातयः 'नरकत्रिकं' नरकगति-नरकानुपूर्वी-नरकायुर्लक्षणं 'स्थावरदशकं' स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारणा-ऽस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्तिरूपं, 'वर्णचतुष्कं' वर्ण-गन्ध-रस-स्पर्शाख्यं “घाइपणयाल" ति सर्वघातिन्यो विंशतिः देशघातिन्यः पञ्चविंशतिः, उभया अपि मिलिताः सामान्येन घातिन्यः पञ्चचत्वारिंशद् भवन्ति, ताभिः सहिताः-युक्ताः पूर्वोक्ता अप्रथमसंस्थानादिका वर्णचतुष्कपर्यवसानाः सप्तत्रिंशत्सङ्ख्या द्वयशीतयः पापप्रकृतयो भवन्ति / इतिशब्दः परिसमाप्तौ द्वयशीतय एव पापप्रकृतयो न ऊनाधिका इत्यर्थः / . ननु द्विचत्वारिंशत्पुण्यप्रकृतयो भवन्ति द्वयशीतिश्च पापप्रकृतयो मिलिताश्चतुर्विशत्युत्तरं प्रकृतिशतं जातं, बन्धे तु विंशत्युत्तरमेव शतमधिक्रियते "बंधे विसुत्तरसयं" (कर्मस्त० भा० गा० 1) इति वचनात् , तत् कथं न विरोधः ? इत्याह-"दोसु वि वन्नाइगह" त्ति 'द्वयोरपि' पुण्य-पापप्रकृतिराश्योः 'वर्णादिग्रहात्' वर्ण-रस-गन्ध-स्पर्शग्रहणान्न कश्चनापि विरोधः / अयमभिप्रायःवर्णादयो हि पुण्यस्वभावाः पापस्वभावाश्च वर्तन्ते, ततः पुण्यवर्णचतुष्टयं पुण्यप्रकृतिषु मध्ये गृह्यते, पापवर्णचतुष्टयं पुनः पापप्रकृतिषु / ततः पुण्य-पापप्रकृतिराश्योर्वर्णादिचतुष्कं यत् तदेकमेव सत् प्रशस्ता-प्रशस्तभेदेनोभयत्रापि विवक्ष्यत इत्यदोषः / तथा एता एव पुण्यप्रकृतयः शुभकारणजन्यवात् शुभा उच्यन्ते, पापप्रकृतयस्त्वशुभकारणजन्यत्वादशुभा अभिधीयन्त इति॥ 16-17 / / उक्तं पुण्यप्रकृति-पापप्रकृतिद्वारद्वयम् / सम्प्रति परावर्तमाना-ऽपरावर्तमानप्रकृतिद्वारद्वयं व्याचिख्यासुरगाथायां परावर्तमानप्रकृतीनां पूर्व निर्देशेऽपि इह अल्पसङ्ख्याकत्वेन प्रथममपरावर्तमानाः प्रकृतीराह नामधुवबंधिनवगं, दंसण पण नाण विग्घ परघायं। भय कुच्छ मिछ सासं, जिण गुणतीसा अपरियत्ता // 18 //