________________ 14 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः वीर्य भवतीति देशघातीदम् / यदि पुनः सर्वघाति स्यात् तदा यथैव मिथ्यात्वस्य कषायद्वादशकस्य च उदये तदावायें सम्यक्त्वगुणं देश-सर्वसंयमगुणं च जघन्यमपि न लभते, तथैव च तदुदयेऽपि तदावार्य जघन्यमपि वीर्यगुणं न लभेत, न चैवमस्ति, तस्मादिदमपि देशघातीति स्थितमिति / उक्ताः सर्व-देशघातिन्यः / सम्प्रति तत्प्रतिपक्षभूता अघातिनी०चिख्यासुराह- "अघाई" इत्यादि / अघातिन्य एताः पञ्चसप्ततिसङ्ख्याः प्रकृतयोऽभिधीयन्ते / तद्यथा-"पत्तेय" ति प्रत्येकप्रकृतयः-पराघात-उच्छ्वासा-ऽऽतप-उद्योता-गुरुलघु-तीर्थकर-निर्माण-उपघातरूपा अष्टौ / "तणु?" ति तन्वा(नु)शब्देनोपलक्षितमष्टकं “तणुवंगागिइसंघयणजाइगइखगइपुधि" (गा० 3) इति लक्षणं तन्वष्टकम् , तत्र तनवः-औदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणलक्षणाः पञ्च, उपाङ्गानि त्रीणि, आकृतयः-संस्थानानि षट् , संहननानि षद् , जातयः पञ्च, गतयश्चतस्रः, खगती द्वे, पूर्व्यः-आनुपूर्व्यश्चतस्रः, एवं तन्वएके प्रकृतयः पञ्चत्रिंशत् / आयूंषि चत्वारि। वसर्विशतिः-त्रसदशक-स्थावरदशकमीलनात् / “गोयदुग" त्ति गोत्रशब्देनोपलक्षितं द्विकम्-"गोयवेयणियं" (गा० 3) इतिगाथांशेन प्रतिपादितम् , गोत्रम्-उच्चैर्गोत्रं नीचैर्गोत्रमिति, साता-ऽसातमेदाद वेदनीयं द्विधा, तदेवं गोत्रद्विकशब्देन प्रकृतिचतुष्टयमभिधीयते / “वन्न" ति वर्ण-गन्धरस-स्पर्शाख्याश्चतस्रः प्रकृतयो गृह्यन्ते इति / एताः प्रकृतयोऽघातिन्यः, न कञ्चन ज्ञानादिगुणं घातयन्तीति कृत्वा, केवलं सर्व-देशघातिनीभिः सह वेद्यमानास्तत्सदृश्योऽनुभूयन्ते / अयमर्थःसर्वघातिनीभिः सह वेद्यमाना एता अघातिन्योऽपि सर्वघातिरसविपाकं दर्शयन्ति, देशघातिनीभिः सह पुनर्वेधमाना देशघातिरसम् , यथा स्वयमचौरोऽपि चौरैः सह वर्तमानश्चौर इवावभासते / यदभाणि जाण न विसओ घाइत्तणम्मि ताणं पि सधघाइरसो।। जायइ घाइसैगासेण चोरया वेहऽचोराणं // (पञ्चसं० गा० 159) // 14 // उक्तं सप्रतिपक्षं सर्व-देशघातिद्वारम् / सम्प्रति पुण्य-पापप्रकृतीर्विवरीषुराहसुरनरतिगुच्च सायं, तसदस तणुवंग वइर चउरंसं / / परघासग तिरिआउं, वन्नचउ पणिदि सुभखगई // 15 // त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सुरत्रिकम्-देवगति-देवानुपूर्वी-देवायुर्लक्षणम् , नरत्रिकम्-नरगति-नरानुपूर्वी-नरायुर्लक्षणम् , "उच्च" ति उच्चैगोत्रं सातं 'सदशकं' त्रस-बादरपर्याप्त-प्रत्येक-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-यशःकीर्तिलक्षणम् , तनवः-औदारिक वैक्रियाऽऽहारक-तैजस-कार्मणरूपाः पञ्च, उपाङ्गानि-औदारिकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गा-ऽऽहारकालोपागलक्षणानि त्रीणि, “वइर" ति वज्रऋषभनाराचसंहननम् 'चतुरस्र' समचतुरस्र “परघासग"ति पराघातसप्तकम्-पराघात-उच्छ्वासा-ऽऽतप-उद्योता-गुरुलघु-तीर्थकरनाम-निर्माणरूपम् , 1 यासां न विषयो घातित्वे तासामपि सर्वघातिरसः। जायते घातिसकाशेन चौरता इवेहाचौराणाम् // 2 पञ्चसङ्गहस्वोपन्नटीकागतगाथायां तु- समासेण / बृहत्टीकागतगाथायां पुनः-सगासेण //