________________ 1. शतकनामा पञ्चमः कर्मग्रन्थः / सर्वमेव मन्तीति सर्वघातिनो द्वादशापि कषायाः, यत् पुनस्तेषां प्रबलोदयेऽप्ययोग्याहारादिविरमणमुपलभ्यते तत्र वारिवाहदृष्टान्तो वाच्यः / तथा मिथ्यात्वं तु जिनप्रणीततत्त्वश्रद्धानरूपसम्यक्त्वं सर्वमपि हन्तीति सर्वघाति, यत्तु तस्य प्रबलोदयेऽपि मनुष्य-पश्वादिवस्तुश्रद्धानं तदपि जलधरोदाहरणादवसेयमिति / ___ भाविताः सर्वघातिन्यः / सम्प्रति देशघातिन्यो भाव्यन्ते-"चउनाणतिदसणावरण" त्ति आवरणशब्दस्य प्रत्येकं सम्बन्धाद् ज्ञानावरणचतुष्कम्-मतिज्ञानावरण 1 श्रुतज्ञानावरण २अवधिज्ञानावरण 3 मनःपर्यायज्ञानावरण 4 लक्षणम् , दर्शनावरणत्रिकं चक्षुर्दर्शनावरण १अचक्षुर्दर्शनावरण 2 अवधिदर्शनावरण 3 रूपमिति / सज्वलनाश्चत्वारः-क्रोध-मान-मायालोभाः। 'नोकषायाः' हास्य 1 रति 2 अरति 3 शोक 4 भय 5 जुगुप्सा 6 सीवेद 7 पुंवेद८ नपुंसकवेद 9 स्वरूपा नव / 'विघ्नम्' अन्तरायं-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणम् / 'इति' अमुना दर्शितप्रकारेण देशघातिन्यः पञ्चविंशतिसङ्ख्याः प्रकृतयो भवन्तीत्यक्षरार्थः / भावार्थस्त्वयम्-मतिज्ञानावरणादिचतुष्कं केवलज्ञानावरणानावृतं ज्ञानदेशं हन्तीति देशघातीदमुच्यते, मत्यादिज्ञानचतुष्टयविषयभूतानर्थान् यद् नावबुध्यते स हि मत्यावरणाद्युदय एव, तदविषयभूतांस्त्वनन्तगुणान् यन्न जानीते स केवलज्ञानावरणस्यैवोदय इति / चक्षुः-अचक्षु:अवधिदर्शनावरणान्यपि केवलदर्शनावरणानावृतकेवलदर्शनैकदेशमावृण्वन्तीति देशघातीनि / तथाहि-चक्षुः-अचक्षुः-अवधिदर्शनविषयभूतानेवाऽर्थान् एतदुदयाद् न पश्यति, तदविषयभूतांस्त्वनन्तगुणान् केवलदर्शनावरणोदयादेव न समीक्षते / तथा सज्वलना नव नोकपायाश्च लब्धस्य चारित्रस्य देशमेव मन्तीति देशघातिनः, तेषां मूल-उत्तरगुणानामतीचारजनकत्वात् / यदवादि श्रीमदाराध्यपादैः सबे वि य अइयारा, संजलणाणं तु उदयओ टुति / मूलच्छिज्जं पुण होइ, बारसण्हं कसायाणं // (आव०नि० गा० 112) इति / दानान्तरायादीनि पञ्च अन्तरायाण्यपि देशघातीन्येव / तथाहि-दान-लाभ-भोग-उपभोगानां तावद् ग्रहण-धारणायोग्यान्येव द्रव्याणि विषयः, तानि च समस्तपुद्गलास्तिकायस्यानन्तभागरूपे देश एव वर्तन्ते, अतो यदुदयात् तानि पुद्गलास्तिकायदेशवर्तीनि द्रव्याणि यद् दातुं लब्धं भोक्तुमुपभोक्तुं च न शक्नोति तानि दान-लाभ-भोग-उपभोगान्तरायाणि तावद् देशघातीन्येव / यत्तु सर्वलोकवर्तीनि द्रव्याणि न ददाति न लभते न भुते नाप्युपभुङ्क्ते तन्न दानान्तरायाधुदयात्, किन्तु तेषामेव ग्रहण-धारणाविषयत्वेनाशक्यानुष्ठानत्वादिति मन्तव्यम् / वीर्यान्तरायमपि देशघात्येव, सर्ववीर्य न घातयतीति कृत्वा / तथाहि-सूक्ष्मनिगोदस्य वीर्यान्तरायकर्मणोऽभ्युदये वर्तमानस्याप्याहारपरिणमन-कर्मदलिकग्रहण-गत्यन्तरगमनादिविषय एतावान् वीर्यान्तरायकर्मक्षयोपशमो विद्यते, तत्क्षयोपशमविशेषतश्च निगोदजीवानादौ कृत्वा यावत् क्षीणमोहस्तावद् वीर्यमल्पं बहु बहुतरं बहुतमं च तारतम्याद् भवतीति, केवलिनश्च तत्कर्मक्षयसम्भूतं सर्व 1 सर्वेऽपि चातिचाराः सम्ज्वलनानां तूदयतो भवन्ति / मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् //