________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: केवलयुगलं-केवलज्ञान-केवलदर्शनरूपं तस्यावरणे-आच्छादके कर्मणी केवलयुगलाबरणे, केवलज्ञानावरणं केवलदर्शनावरणं चेत्यर्थः / 'पञ्च निद्राः' निद्रा 1 निद्रानिद्रा 2 प्रचला 3 प्रचलाप्रचला 4 स्त्यानर्द्धि 5 रूपाः / द्वादशेति सङ्ख्या 'आदिमकषायाः' सञ्ज्वलनापेक्षया प्रथमकषायाः-क्रोध-मान-माया-लोभानामेकैकशोऽनन्तानुबन्धि 1 अप्रत्याख्यानावरण 2 प्रत्याख्यानावरण 3 लक्षणनामत्रयेण द्वादशधात्वम् / मिथ्यात्वमिति / अनेन प्रदर्शितप्रकारेण सर्वमपि स्वावार्य गुणं घातयन्तीत्येवंशीलाः सर्वघातिन्यो विंशतिसङ्ख्या भवन्तीत्यक्षरार्थः / भावार्थः पुनरयम्इह केवलज्ञानावरणस्य स्वावार्यः केवलज्ञानलक्षणो गुणः, स च यद्यपि सर्वात्मनाऽऽवियते तथापि सर्वजीवानां केवलज्ञानस्यानन्तभागोऽनावृत एवावतिष्ठते, तदावरणे तस्य सामर्थ्याभावात् / यदाहुः श्रीदेवर्द्धिवाचकवरा: सबजीवाणं पि यणं अक्खरस्स अणंतभागो निचुग्धाडिओ चिट्ठइ / (नन्दीप० 195) इति। कथं तर्हि सर्वघातित्वम् ? इति चेद् अभिधीयते--यथाऽतिबहले जलदपटले समुन्नते बहुतराया आवृतत्वात् सर्वाऽपि सूर्याचन्द्रमसोः प्रभाऽनेनावृतेति वचनरचना प्रवर्तते, अर्थवाऽद्यापि काचित् तत्प्रभा प्रसरति-"सुदु वि मेहसमुदए, होइ पहा चंदसूराणं // " (नन्दीपत्र 195) इति वचनादनुभवसिद्धत्वाच, तथाऽत्रापि प्रबलकेवलज्ञानावरणावृतस्यापि केवलज्ञानस्यानन्तभागोऽनावृत एवास्ते / यदि पुनस्तमप्यावृणुयात् तदा जीवोऽजीवत्वमेव प्रामुयात् / यदुक्तं नन्द्यध्ययने अँइ पुण सो वि आवरिजा ता णं जीवो अजीवत्तणं पाविज्जा / ( पत्र 195) सोऽपि चावशिष्टोऽनन्तभागो जलधरानावृतदिनकरकरप्रसर इवं कट-कुट्यादिभिर्मतिश्रुता-विधि-मनःपर्यायज्ञानावरणैराब्रियते, तथापि काचिद् निगोदावस्थायामपि ज्ञानमात्राऽवतिष्ठते, अन्यथा अजीवत्वप्रसङ्गात् / मतिज्ञानादिविषयभूतांश्चार्थान् यन्न जानीते सं केवलज्ञानावरणोदयो न भवति, किं तर्हि ? मतिज्ञानावरणाद्युदय एवेति / केवलदर्शनावरणस्य समस्तवस्तुस्तोमसामान्यावबोध आवार्यः, तं सर्वं हन्तीति सर्वघाति अभिधीयते, तदनन्तभागं त्विदमपि सागाभावाद् नाणोति, सोऽपि चानावृतोऽनन्तभागश्चक्षुः-अचक्षुः-अवधिदर्शनावरणैरात्रियते, शेषो जलधरदृष्टान्तादिचर्चस्तथैव / यच्च चक्षुर्दर्शनादिविषयानर्थान् न पश्यति, स केवलदर्शनावरणोदयो न भवति, किं तर्हि ? चक्षुर्दर्शनावरणाद्युदय एवेति / यद्येवं तर्हि केवलज्ञानावरण-केवलदर्शनावरणक्षये सत्यपि मतिज्ञानादिविषयाणामर्थानामवबोधो न प्राप्नोति भिन्नज्ञानविषयत्वाद्, इति चेर्दै उच्यते-केवलालोकलामे शेषबोधलाभान्तर्भावात् , मामलामे क्षेत्रलाभान्त ववदिति / निद्रापञ्चकमपि सर्व वस्त्ववबोधमावृणोतीति सर्वघाति, यत् पुनः स्वापावस्थायामपि किश्चित् चेतयति तत्र धाराधरनिदर्शनं वाच्यम् / तथाऽनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाश्च प्रत्येकं चत्वारो यथाक्रमं सम्यक्त्वं देशविरतिचारित्रं सर्वविरतिचारित्रं च 1 सर्वजीवावायपि चाक्षरस्यानन्तभागो नित्योद्घाटितस्तिष्ठति // 2 सं०१-२ व चा॥ 3 सुष्टपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः // 4 यदि पुनः सोऽपि आवृणीयात्तदा जीवोऽजीवत्वं प्राप्नुयात् / / - 5 सं० 1-2 छा° °यावर // 6 छा०°द् तदयुक्तम् // 7 सं०१छा० चिकेति //