________________ 12-14] शतकनामा पञ्चमः कर्मग्रन्थः / जन्तोस्तत् तेषु सत्तायां नावाप्यत इति / तथा “बितिगुणे विणा तित्थं" ति कोलिकनलिकन्यायेन 'सर्वगुणेषु वा' इत्यत्रापि सम्बन्धनीयम् / सर्वगुणस्थानकेषु द्वितीय-तृतीयगुणस्थानके विना, सास्वादन-मिश्रगुणस्थानकरहितेषु द्वादशस्वित्यर्थः, 'वा' विभाषया भजनया तीर्थकरनाम सत्तायां प्राप्यत इति / इदमत्र तात्पर्यम्-यदा कश्चिदविरतसम्यग्दृष्टयादिरपूर्वकरणभागषट्कं यावत् सम्यक्त्वप्रत्ययात् तीर्थकरनामकर्म बद्धा उपरितनगुणस्थानकान्यधिरोहति, कश्चिच्च बद्धतीर्थकरनामकर्मा अविशुद्धिवशात् मिथ्यात्वमपि गच्छति तदा सास्वादन-मिश्ररहितेषु द्वादशगुणस्थानकेषु तीर्थकरनामकर्म सत्तायामवाप्यते, तीर्थकरनामसत्ताको हि मिश्र-सास्वादनभावं न प्रतिपद्यते स्वभावादेवेति तद्वर्जनम् / यदुक्तं बृहत्कर्मस्तवभाष्ये तित्थयरेण विहीणं, सीयालसयं तु संतए होइ / सासायणम्मि उ गुणे, सम्मामीसे य पयडीणं // (गा० 25) यः पुनर्विशुद्धसम्यक्त्वेऽपि सति तद् न बध्नाति तस्य सर्वगुणस्थानकेषु तत्सत्ता न लभ्यते, यतोऽनयोः संयम-सम्यक्त्वलक्षणस्वप्रत्ययसद्भावेऽपि बन्धाभावाद् नावश्यं सत्तासम्भवः / यदुक्तं कर्मप्रकृतिसङ्ग्रहण्याम् आहारग तित्थगरा भज ति / आहारकसप्तक-तीर्थकरनाम्नी सत्ता प्रति भाज्ये इति भावः / एवमाहारकसप्तके तीर्थकरनामनि च प्रत्येकं सत्तारूपेणाऽवतिष्ठमाने मिथ्यादृष्टिरपि जन्तुर्भवतीति निश्चितम् / उभयसत्तायामसौ भवति न वेति विनेयाऽऽशङ्कायामाह--"नोभयसंते मिच्छो" चि / 'न' नैव उभयस्य-आहारकसप्तक-तीर्थकरलक्षणद्विकस्य सत्त्वे-सत्तासद्भावे सति मिथ्यादृष्टिर्भवेत् / कोऽर्थः ? उभयसत्तायां मिथ्यात्वं न गच्छतीति भावः / तर्हि केवलतीर्थकरनामकर्मसत्तायां कियन्तं कालं मिथ्यादृष्टिर्भवति ? इत्याह-"अंतमुहुत्तं भवे तित्थे" ति 'अन्तर्मुहूर्तम्' अन्तर्मुहूर्तमानं कालं 'भवेत्' जायेत "मिच्छो" ति इत्यस्यात्रापि सम्बन्धाद् मिथ्यादृष्टिः। क सति ? इत्याह-"तित्थे" ति तीर्थकरनामकर्मणि सत्तायां वर्तमान इति गम्यते / इदमुक्तं भवतियो नरके बद्धायुष्को वेदकसम्यग्दृष्टिर्बद्धतीर्थकरनामकर्मा सन् तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमनन्तरमन्तर्मुहूर्तादूर्ध्वमवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायमुक्तप्रमाणः कालो लभ्यत इति // 12 // . उक्तं सप्रतिपक्षं ध्रुवसत्ताकप्रकृतिद्वारम् / अधुना सप्रतिपक्षं सर्व-देशघातिप्रकृतिद्वारं प्रतिपादयन्नाह केवलजुयलावरणा, पण निद्दा वारसाइमकसाया। मिच्छं ति सव्वघाई, चउनाणतिदसणावरणा // 13 // संजलण नोकसाया, विग्धं इय देसघाइओ अघाई। पत्तेयतणुट्ठाऽऽऊ, तसवीसा गोयदुग वन्ना // 14 // १सं०१-२°कनलकन्या // 2 तीर्थकरेण विहीनं सप्तचत्वारिंशं शतं तु सत्तायां भवति / सास्वादने तु पुने सम्यग्मित्रे च प्रकृतीनाम् // 3 सं०१-२ °रकतीर्थ // 4 छा०°स्य सत्ता॥५ छा० म०°इय //