________________ 10 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः साखादन-सम्यग्मिथ्यात्वरहितेषु मिथ्यादृष्ट्याद्युपशान्तमोहपर्यवसाननवगुणस्थानकेष्वित्यर्थः 'भजनया' विकल्पेन मिश्रम् , स्यात् सत्तायामस्ति स्यान्नेति / किमुक्तं भवति ?--यो मिथ्यादृष्टिः षड्विंशतिसत्कर्मा, ये वाऽविरतसम्यग्दृष्टयादय उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टयः तेषु मिश्रं सत्तायां नावाप्यते अन्यत्र प्राप्यत इति / तथा 'आद्यद्विके' प्रथमगुणस्थानकयुगले-मिथ्यादृष्टिसास्वादनगुणस्थानकद्वय इत्यर्थः “अण" त्ति अनन्तानुबन्धिनः प्रथमकषायाः क्रोध-मान-माया'लोभाख्याः 'नियताः' अवश्यम्भावेन सत्तायामवाप्यन्ते, यतो मिथ्यादृष्टि-सास्वादनसम्यग्दृष्टी नियमेनानन्तानुबन्धिनो बध्नीत इति भावः / तथा 'भाज्याः' भक्तव्याः-विकल्पनीयाः 'मिश्रादिनवके' सम्यग्मिथ्यादृष्टिप्रभृत्युपशान्तमोहपर्यवसाननवगुण स्थानकेष्वनन्तानुबन्धिनः, सत्तामाश्रित्य भक्तव्या इत्यर्थः / इयमत्र भावना-विसंयोजितानन्तानुबन्धिनश्चतुर्विंशतिसत्कर्मणः सम्यग्मिथ्यादृष्टेः क्षीणसप्तकस्यैकविंशतिसत्कर्मणोऽनन्तानुबन्धिरहितचतुर्विशतिसत्कर्मणो वाऽविरतसम्यग्दृष्टयादेरनन्तानुबन्धिनः सत्तायां न सन्ति तदितरस्य तु सन्तीति / एतच्च शेषकर्मग्रन्थाभिप्रायेणोक्तम् / कर्मप्रकृतौ पुनः श्रीशिवशर्मसूरिपादा एवमाहुः बीयतइएसु मीसं, नियमा ठाणनवगम्मि भइयवं / संजोयणा उ नियमा, दुसु पंचसु हुंति भइयवा // ( गा० 423.) पूर्वार्धं सुगममेव / उत्तरार्धस्येयमक्षरगमनिका—संयोजयन्त्यात्मनोऽनन्तकालमिति “रम्यादिभ्यः कर्तरि" (सिद्ध०५-३-१२६) इत्यनटि प्रत्यये संयोजनाः-अनन्तानुबन्धिकषायाः, 'तुः' पुनरर्थे, 'नियमात्' नियमेन 'द्वयोः' मिथ्यादृष्टि-सास्वादनयोः सत्तामाश्रित्य भवन्ति, यत एताववश्यमनन्तानुबन्धिनो बध्नीत इति / पञ्चसु पुनर्गुणस्थानकेषु सम्यग्मिथ्यादृष्टिप्रभृतिष्वप्रमत्तसंयतपर्यन्तेषु सत्तां प्रतीत्य भक्तव्याः, याद्वलितास्ततो न सन्ति इतरथा तु सन्तीत्यर्थः // तदुपरितनेषु पुनरपूर्वकरणादिषु सर्वथैव तत्सत्ता नास्ति, यतस्तदभिप्रायेण विसंयोजितानन्तानुबन्धिकषाय एवोपशश्रेणिमपि प्रतिपद्यत इति // 11 // आहारसत्तगं वा, सव्वगुणे बितिगुणे विणा तित्थं / नोभयसंते मिच्छो, अंतमुहुत्तं भवे तित्थे // 12 // “आहारकसप्तकं' आहारकशरीर 1 तदङ्गोपाङ्ग 2 आहारकसङ्घात 3 आहारकाहारकबन्धन 4 आहारकतैजसबन्धन 5 आहारककार्मणबन्धन 6 आहारकतैजसकार्मणबन्धन ७लक्षणं 'वा' विकल्पेन-भजनया 'सर्वगुणे' सर्वगुणस्थानकेषु मिथ्यादृष्टिप्रभृत्ययोगिकेवलिपर्यवसानेषु, सूत्रे चैकवचनं प्राकृतत्वात् , ततश्च सर्वगुणस्थानकेषु विकल्पनया सत्तां प्रतीत्य आहारकसप्तकं प्राप्यते / इदमत्र हृदयम्-योऽप्रमत्तसंयतादिः संयमप्रत्ययादाहारकसप्तकबन्धं विधाय विशुद्धिवशादुपरितनगुणस्थानकेषु समारोहति, यश्च कश्चिदविशुद्धाध्यवसायवशादुपरितनगुणस्थानकेभ्योऽधस्तनगुणस्थानकेषु प्रतिपतति तस्याहारकसप्तकं सर्वगुणस्थानकेषु सत्तायां प्राप्यते, यः पुनराहारकसप्तकं न बध्नात्येव तद्वन्धं विनवोपरितनगुणस्थानकेष्वध्यारोहति तस्य 1 छा० °चाविर° // 2 द्वितीयतृतीययोर्मिश्रं नियमात्स्थाननवके भक्तव्यम् / संयोजनास्तु नियमाद्वयोः पञ्चसु भवन्ति भक्तव्याः॥