________________ 10-11] शतकनामा पञ्चमः कर्मग्रन्थः। सम्भवत्यपि / तथा संयमे सत्यपि आहारकसप्तकं कस्यचिद् बन्धसद्भावे सत्तायां स्यात् तदभावे कस्यचित् नेति / तथोच्चैर्गोत्रमसम्प्राप्तत्रसत्वस्य बन्धाभावाद विहितैतहन्धस्य स्थावरभावं गतस्य स्थितिक्षयेण वा सत्तायां न लभ्यते तेजो-वायुकायिकजीवमध्यगतस्य उद्वर्तनप्रयोगेण वा सत्तायां न लभ्यते, इतरस्य तु भवतीत्यासामध्रुवसत्ताकता // 8-9 // * उक्तं ध्रुवसत्ताका-ऽध्रुवसत्ताकप्रकृतिद्वारद्वयम् / सम्प्रति गुणस्थानकेषु कासाञ्चित् प्रकृतीनां सुवा-ध्रुवसत्तां गाथात्रयेण निरूपयन्नाह पढमतिगुणेसु मिच्छं, नियमा अजयाइअट्ठगे भजं / सासाणे खलु सम्मं, संतं मिच्छाइदसगे वा // 10 // प्रथमाः-आद्यास्त्रयः-त्रिसङ्ख्या गुणाः-गुणस्थानकानि प्रथमत्रिगुणाः तेषु प्रथमत्रिगुणेषुमिथ्यादृष्टि-साखादन-सम्यग्मिथ्यादृष्टिलक्षणेषु 'मिथ्यात्वं' मिथ्यात्वलक्षणा प्रकृतिः 'नियमात्' निश्चयेन 'सद्' विद्यमानम्, सत्तायां प्राप्यत इत्यर्थः / 'अयताद्यष्टके' अविरतसम्यग्दृष्टि 1 देशविरत२ प्रमसंयत 3 अप्रमत्तसंयत 4 अपूर्वकरण 5 अनिवृत्तिबादर 6 सूक्ष्मसम्पराय 7 उपशान्तमोह८ लक्षणेष्वष्टसुगुणस्थानकेषु 'भाज्यं' विकल्पनीयम् , कदाचिद् मिथ्यात्वं सत्तायामस्ति कदाचिनास्ति। तथाहि-अविरतसम्यग्दृष्टयादिना क्षपिते नास्ति, उपशमिते त्वस्ति / सास्वादने 'खलु' नियमेन “सम्म" 'सम्यक्त्वं' सम्यग्दर्शनमोहनीयलक्षणा प्रकृतिः ‘सद्' विद्यमानम् , सर्वदैव लभ्यत इत्यर्थः; यत औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयावशेषायामुत्कृष्टतः षडावलिकावशिष्टायां साखादनो लभ्यते, तत्र च नियमादष्टाविंशतिसत्कर्मैवासाविति भावः / 'मिथ्यात्वादिदशके' मिथ्यादृष्टयादिषु सास्वादनवर्जितोपशान्तमोहपर्यवसानगुणस्थानकेषु दशसङ्ख्येषु 'वा' विकल्पेन-भजनया सम्यक्त्वं सत्तायां स्याद् लभ्यते स्यान्नेति / तथाहि-मिथ्यादृष्टौ जीवेऽनादिपविंशतिसत्कर्मणि उद्वलितसम्यक्त्वपुञ्जे वा, मिश्रेऽप्युद्वलितसम्यग्दर्शने, अविरतादौ चोपशान्तमोहान्ते क्षीणसप्तके सम्यग्दर्शनमोहनीयं सत्तायां न प्राप्यते अन्यत्र सर्वत्र लभ्यत इति // 10 // सासणमीसेसु धुवं, मीसं मिच्छाइनवसु भयणाए। आइदुगे अण नियया, भइया मीसाइनवगम्मि // 11 // साखादनं च मिश्रं च सास्वादन-मिश्रे तयोः सास्वादन-मिश्रयोः, बहुत्वं च प्राकृतवशात् , यदाहुः प्रभुश्रीहेमचन्द्रसूरिपादाः-"द्विवचनस्य बहुवचनम्” (सिद्ध०८-३-१३०) यथा'हत्था पाया' इत्यादौ, सास्वादनगुणस्थाने सम्यग्मिथ्यादृष्टिगुणस्थाने चेत्यर्थः, 'ध्रुवम्' अवश्यम्भावेन 'मिश्र' सम्यग्मिथ्यादर्शनमोहनीयं 'सद्' इति पूर्वोक्तगाथातो डमरुकमणिन्यायादिहापि सम्बध्यते। इदमत्र हृदयम्-सासादनो नियमादष्टाविंशतिसत्कर्मैव भवति; मिश्रश्चाष्टाविंशतिसकर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मा उद्वलितानन्तानुबन्धिचतुष्कश्चतुर्विंशतिसत्कर्मा वा, तत एतेषु सत्तास्थानकेषु मिश्रसत्ताऽवश्यं लभ्यते; षड्विंशतिसत्कर्मा तु मिश्रो न सम्भवत्येव, मिश्रपुञ्जस्य सत्तोदयाभ्यां व्यतिरेकेण मिश्रगुणस्थानकाप्राप्तेरिति / 'मिथ्यात्वादिनवसु' 1 छा० °त्ता-ऽप्रमत्तसंयता-5° //