________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः बन्धन 4 कार्मणकार्मणबन्धन 5 तैजससङ्घातन 6 कार्मणसङ्घातन 7 लक्षणम् / “धुवबंधि सेस" त्ति वर्णचतुष्क-तैजस-कार्मणस्योक्तत्वात् शेषा एकचत्वारिंशद् ध्रुवबन्धिन्यः / तथाहि-अगुरु लघु-निर्माण-उपघात-भय-जुगुप्सा-मिथ्यात्व-कषायषोडशक-ज्ञानावरणपञ्चक-दर्शनावरणनवका-5न्तरायपञ्चकमिति / 'वेदत्रिक' स्त्री-पु-नपुंसकलक्षणम् / “आगिइतिग" त्ति "तणुवंगागिइसंघयणजाइगइखगइ" (गा० 3) इत्यादिसञ्ज्ञागाथोक्तमाकृतित्रिकं गृह्यते, तत आकृतयः-संस्थानानि षट्, संहननानि षड् , जातयः पञ्च इत्येवमाकृतित्रिकशब्देन सप्तदश भेदा गृह्यन्ते। 'वेदनीय' साता-ऽसातभेदाविधा / द्वयोर्युगलयोः समाहारो द्वियुगलं हास्य रति-अरति-शोकरूपम् / “सगउरल" त्ति औदारिकसप्तकम्-औदारिकशरीर 1 औदारिकाङ्गोपाङ्ग 2 औदारिकसङ्घातन 3 औदारिकौदारिकबन्धन 4 औदारिकतैजसबन्धन 5 औदारिककार्मणबन्धन 6 औदारिकतैजसकामणबन्धन 7 रूपम् / “सासचउ" त्ति 'उच्छासचतुष्कं' उच्छ्वास-उद्योता-ऽऽतप-पराघाताख्यम् / "खगईतिरिदुग" ति द्विकशब्दस्य प्रत्येकं सम्बन्धात् खगतिद्विकं-प्रशस्तविहायोगति-अप्रशस्तविहायोगतिलक्षणम् , तिर्यग्द्विकं-तिर्यग्गति-तिर्यगानुपूर्वीरूपम् / “नीयं" ति नीचैगोत्रमिति / एतास्त्रिंशदुत्तरशतसङ्ख्याः प्रकृतयो ध्रुवसत्ताका अभिधीयन्ते, ध्रुवसत्ताकत्वं चासां सम्यक्त्वलाभादर्वाक् सर्वजीवेषु सदैव सद्भावात् / अथानन्तानुबन्धिनां कषायाणामुद्वलनसम्भवादध्रुवसत्ताकतैव युज्यते अतः कथं ध्रुवसत्ताकप्रकृतीनां त्रिंशदधिकशतसङ्ख्या सङ्गच्छते ? मैवं वोचः, यतोऽवाप्तसम्यक्त्वाद्युत्तरगुणानामेव जीवानामेतद्विसंयोगो न सर्वजीवानाम् , अध्रुवसत्ताकता चानवाप्तोत्तरगुणजीवापेक्षयैव चिन्त्यते अतोऽनन्तानुबन्धिनां ध्रुवसत्ताकतैव; यदि चोत्तरगुणप्राप्त्यपेक्षया अध्रुवसत्ताकता कक्षीक्रियते तदा सर्वासामपि प्रकृतीनां स्यात् , नानन्तानुबन्धिनामेव, यतः सर्वा अपि प्रकृतयो यथास्थानमुत्तरगुणेषु सत्सु सत्ताव्यवच्छेदमनुभवन्त्येवेति / तथा “सम्म" ति सम्यक्त्वं मिश्रम् , 'मनुजद्विकं' मनुजगति-मनुजानुपूर्वीरूपस् , “विउविक्कार" त्ति ‘वैक्रियैकादशकम् ' देवगति 1 देवानुपूर्वी 2 नरकगति 3 नरकानुपूर्वी 4 वैक्रियशरीर ५वैक्रियाङ्गोपाङ्ग 6 वैक्रियसङ्घातन 7 वैक्रियवैक्रियबन्धन 8 वैक्रियतैजसबन्धन 9 वैक्रियकार्मणबन्धन 10 वैक्रियतैजसकार्मणबन्धन 11 लक्षणम् , जिननाम, आयुश्चतुष्कम् , “हारसग" त्ति प्राकृतत्वाद् आकारलोपे 'आहारकसप्तकम्' आहारकशरीर 1 आहारकाङ्गोपाङ्ग 2 आहारकसङ्घातन 3 आहारकाहारकबन्धन 4 आहारकतैजसबन्धन 5 आहारककार्मणबन्धन 6 आहारकतैजसकार्मणबन्धनाख्यम् 7, उच्चैर्गोत्रम् इत्येता अष्टाविंशतिसङ्ख्याः प्रकृतयोऽध्रुवसत्ताका उच्यन्ते / अयमिह भावार्थः- सम्यक्त्वं मिश्रं वाऽभव्यानां प्रभूतभव्यानां च सत्तायां नास्ति, केषाञ्चिदस्तीति / तथा मनुष्यद्विकं वैक्रियैकादशकम् इत्येतास्त्रयोदश प्रकृतयस्तेजो वायुकायिकजीवमध्यगतस्योद्वर्तनाप्रयोगेण सत्तायां न लभ्यन्ते, इतरस्य तु भवन्ति / तथा वैक्रियैकादशकमसम्प्राप्तत्रसत्वस्य बन्धाभावाद् विहितैतद्वन्धस्य स्थावरभावं गतस्य स्थितिक्षयेण वा सत्तायां न लभ्यते, तदन्यस्य सम्भवत्यपि / तथा सम्यक्त्वहेतौ सत्यपि जिननाम कस्यचिद् भवति कस्यचिद् नेति / तथा देव-नारकायुषी स्थावराणाम् , तिर्यगायुष्कं त्वहमिन्द्राणां देवानाम् , मनुजायुष्कं पुनस्तेजो वायु-सप्तमपृथिवीनारकाणां सर्वथैव तद्वन्धाभावात् सत्तायां न लभ्यते, अन्येषां तु