________________ शतकनामा पञ्चमः कर्मग्रन्यः / पञ्चकम् अन्तरायपञ्चकं दर्शनचतुष्कं मिथ्यात्वमिति सप्तविंशतिप्रकृतयः 'ध्रुबोदयाः' नित्योदयाः, सर्वासामपि स्वोदयव्यवच्छेदकालं यावदव्यवच्छिन्नोदयत्वादिति // 6 // अभिहिता ध्रुवोदयाः प्रकृतयः / इदानीमध्रुवोदयाः प्रकृतीराह थिरसुभियर विणु अद्धवबंधी मिच्छ विणु मोहधुवबंधी। - निद्दोवघाय मीसं, सम्म पणनवइ अधुवुदया // 7 // इतरशब्दस्य प्रत्येकं सम्बन्धात् 'स्थिरेतर-शुमेतर-प्रकृतिचतुष्कं विना' स्थिरमस्थिरं शुभमशुभ विना शेषा एकोनसप्ततिसङ्ख्या अध्रुवबन्धिन्यः प्रकृतयः / तथाहि-तैजस-कार्मणवर्ज शरीरत्रिकम् अङ्गोपाङ्गत्रयं संस्थानषट्कं संहननषट्कं जातिपञ्चकं गतिचतुष्कं विहायोगतिद्विकम् आनुपूर्वीचतुष्कं जिननाम उच्छ्वासनाम उद्योतम् आतपं पराघातं त्रस-बादर-पर्याप्तकप्रत्येक-सुभग-सुखरा-ऽऽदेय-यशःकीर्ति स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारण-दुर्भग-दुःखरा-ऽनादेया-ऽयशःकीर्ति उच्चैर्गोत्रं नीचेोत्रं साता-ऽसातवेदनीयं हास्य-रती अरति-शोकौ स्त्री-पुं-नपुंसकरूपं वेदत्रयम् आयुश्चतुष्कमिति / तथा मिथ्यात्वं विना मोहध्रुवबन्धिन्योऽष्टादश / तद्यथाषोडश कषाया भयं जुगुप्सा / निद्राः पञ्च उपघातनाम मिश्रं सम्यक्त्वमिति पञ्चनवतिरध्रुवोदयाः, व्यवच्छिन्नस्याप्युदयस्य पुनरुदयसद्भावादिति / यद्येवं मिथ्यात्वस्याप्यध्रुवोदयतैव युज्यते, सम्यक्त्वप्राप्तौ व्यवच्छिन्नस्यापि तदुदयस्य मिथ्यात्वगमने पुमः सद्भावाद् ! इति, अत्रोच्यतेयासां प्रकृतीनां येषु गुणस्थानकेषु गुणप्रत्ययतोऽद्याप्युदयव्यवच्छेदो न विद्यते, अथ [च] द्रव्यक्षेत्र-कालाद्यपेक्षया तेष्वेव गुणस्थानकेषु कदाचिदसौ भवति कदाचिद् नेति ता एवाध्रुवोदयाः, यथा निद्राया मिथ्यादृष्टेरारभ्य क्षीणमोहं यावदुदयोऽव्यवच्छिन्नो वर्तते, अथ च न सततमसौ भवतीति / मिथ्यात्वस्य तु नेदं लक्षणम् , यतस्तस्य यत्र प्रथमगुणस्थानके नाद्याप्युदयव्यवच्छे· * दस्तत्र सततोदय एव न कादाचित्क इति ध्रुवोदयतैव तस्येति // 7 // उक्तमध्रुवोदयप्रकृतिद्वारम् / सम्प्रति ध्रुवसत्ताका-ऽध्रुवसत्ताकप्रकृतिद्वारद्वयं निरूपयन्नाह तसवन्नवीस सगतेयकम्म धुवबंधि सेस वेयतिगं / आगिइतिग वेयणियं, दुजुयल सग उरल सास चऊ // 8 // खगईतिरिदुग नीयं, धुवसंता सम्म मीस मणुयदुगं / विउविकार जिणाऊ, हारसगुच्चा अधुवसंता॥९॥ - इह विंशतिशब्दस्य प्रत्येकं योगात् त्रसविंशतिर्वर्णविंशतिश्च / तत्र त्रसेनोपलक्षिता विंशतिवसविंशतिः / तथाहि-त्रस-बादर-पर्याप्तक-प्रत्येक-स्थिर-शुभ-सुभग-सुखरा-ऽऽदेय-यशःकीर्तिनामेति त्रसदशकम् ,स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारणा-ऽस्थिरा-ऽशुभ-दुर्भग-दुःखरा-ऽनादेया-ऽयशःकीर्तिनामेति स्थावरदशकम् , उभयमीलने त्रसविंशतिरियमुच्यते / वर्णविंशतिरियम्-कृष्णनील-लोहित-हरिद्र-सितवर्णभेदात् पञ्च वर्णाः, सुरभिगन्धा-ऽसुरभिगन्धभेदेन द्वौ गन्धौ, तित-कटुकषाया-ऽम्ल-मधुरभेदात् पञ्च रसाः,गुरु-लघु-मृदु-खर-शीत-उष्ण-स्निग्ध-रूक्षस्पर्शभेदादष्टौ स्पर्शाः, सर्वमीलने च वर्णविंशतिरियमुच्यते, वर्णेनोपलक्षिता विंशतिर्वर्णविंशतिरिति कृत्वा / "सगतेयकम्म" ति तैजस-कार्मणसप्तकं' तैजसशरीर 1 कार्मणशरीर 2 तैजसतैजसबन्धन 3 तैजसकर्मण