________________ देवेन्द्रसूरिविरचितः स्वोपशटीकोपेतः. माभा: सान्तलक्षणः [चतुर्थो भन्नकः] / चतुर्दशानां च प्रकृतीनां तृतीयो भाको न लभ्यते 3 इति / संज्वलनकषायचतुष्कस्य तु सदैवावाप्तानादिबन्धभावो यदा तत्प्रथमतयाऽनिवृत्तिबादरादिन्किव्यवच्छेदं विधत्ते तदाऽनादिसान्तस्वभावस्तस्य द्वितीयभङ्गः / यदा तु ततः प्रतिपतितः पुनर्बन्धेन संज्वलनबन्धं सादिं कृत्वा पुनरपि कालान्तरेऽनिवृत्तिबादरादिभावं प्राप्तः सन् तान् न भन्स्यति तदा सादिसान्तस्वरूपः संज्वलनचतुष्कस्य चतुर्थ इति / निद्रा-प्रचला-तैजस कार्मणवर्णचतुष्का-ऽगुरुलघु-उपघात-निर्माण-भय-जुगुप्सास्वरूपाणां त्रयोदशप्रकृतीनामनादिकालादनादिबन्धं विधाय यदा अपूर्वकरणाद्धायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो भगकः / . यदा तु ततः प्रतिपतितः पुनर्बन्धविधानेन सादित्वमासाद्य भूयोऽपि कालान्तरेऽपूर्वकरणमारूढस्य बन्धाभावस्तदा चतुर्य इति / चतुर्णा प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानकं यावद् अनादिः ततः प्रमत्तादौ बन्धोपरमात् सान्त इति द्वितीयभगः / ततः प्रतिपतितो भूयोऽपि बन्धनेन सादित्वमासाद्य यदा पुनः प्रमत्तादावबन्धको भवति तदा चतुर्थो भगकः / अप्रत्याख्यानावरणानां त्वविरतसम्यग्दृष्टिं यावद् अनादिबन्धं कृत्वा यदा देशविरतादावबन्धको भवति तदा द्वितीयः / ततः प्रतिपतितो भूयोऽपि तानेव बद्धवा पुनस्तेषां यदा देशविरतेष्वबन्धको भवति तदा चतुर्थ इति। मिथ्यात्व-स्त्यानचित्रिका-ऽनन्तानुबन्धिनां तु मिथ्यादृष्टिरनादिवन्धको यदा सम्यक्त्वावाप्तौ बन्धोपरमं करोति तदा द्वितीयः। पुनर्मिथ्यात्वगमनेन तान् बद्धा यदा भूयोऽपि सम्यक्त्वलामे सति बन्धं न विधत्ते तदा चतुर्थ इति / एवं ध्रुवबन्धिनीनां भरकत्रयं निरूपितमिति / तथा मिथ्यात्वस्य ध्रुवोदयस्य भङ्गा अनाद्यनन्त 1 अनादिसान्त 2 सादिसान्त३ खभावास्ययो भवन्ति / तत्रानाद्यनन्तोऽभव्यानाम् , यतस्तेषां न कदाचिद् मिथ्यात्वोदयविच्छेदः समपादि सम्पत्स्यते चेति 1 / अनादिसान्तस्त्वनादिमिथ्यादृष्टेः, तत्प्रथमतया सम्यक्त्वलामे मिथ्यात्वस्याभावात् 2 / सादिसान्तः पुनः प्रतिपतितसम्यक्त्वस्य सादिके मिथ्यात्वोदये सम्पन्ने पुनरपि सम्यक्त्वलाभाद् मिथ्यात्वोदयाभावे सम्भवति 3 इति / “दुहा वि अधुवा तुरियभंग" त्ति 'द्विधापि' द्विमेदा अपि बन्धमाश्रित्योदयमाश्रित्य च 'अध्रुवाः' अध्रुवकधिन्योऽध्रुवोदयाश्चेत्यर्थः तुरीयः-चतुर्थो भन्नः सादिसान्तलक्षणो यासां तास्तुरीयभना भवन्ति / तत्राध्रुवबन्धिनीनां पूर्वोक्तत्रिसप्ततिसङ्ग्यप्रकृतीनामध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भगको भवति / तथा अध्रुवोदयानामुदयः सह आदिना-उदयविच्छेदे सति तत्प्रथमतयोदयमवनखमावेन वर्तत इति सादिः, स चासौ सान्तश्च-पुनरुदयव्यवच्छेदात् सपर्यवसानश्च सादिसान्तः। ततश्चाध्रुवोदयानामयमेवैको भङ्गको भवति नान्यः, अध्रुवत्वादेवेति भावः // 5 // उक्ताः सभावार्था ध्रुवबन्धिन्योऽभुवबन्धिन्यश्च प्रकृतयः। प्रसङ्गतो ध्रुवा-भुवोदयानां प्रकतीनां भरकाश्च / सम्प्रति ध्रुवा-भुवोदयप्रकृतिद्वारनिरूपणायाह निमिण थिरअथिर अगुरुय, सुहअसुहं तेय कम्म चउवमा। .. नाणंतराय सण, मिच्छ धुवउदय सगवीसा // 6 // "निमिण" ति प्राकृतत्वाद् निर्माणं स्थिरा-ऽस्थिरम् “अगुरुय" ति अगुरुलघु शुभा-शुभ तैजस कार्मणं 'चतुर्वर्ण' वर्ण-गन्ध-रस-स्पर्शलक्षणमित्येता द्वादश नाम्नो ध्रुवोदयाः ज्ञानावरण