________________ 3-5] शतकनामा पञ्चमः कर्मग्रन्थः / येषां ते अनादिसादयः, प्राकृतत्वाद् आदिशब्दस्य लोपः। अनन्त-सान्तशब्दावुत्तरे-उत्तरपदे येषां ते अनन्त-सान्तोत्तराः, "ते लुग्वा" (सिद्ध० 3-2-108) इति सूत्रेण पदशब्दस्य लोपः / यदि वा भगा अनादि-सादयोऽनन्त-सान्तोत्तराः सन्तश्चत्वारो भवन्ति / तद्यथा-अनाद्यनन्तः 1 अनादिसान्तः 2 साधनन्तः 3 सादिसान्तः 4 चेति // 3 // 4 // उक्ता भङ्गाः / अथ यत्रोदये बन्धे वा ये भङ्गका घटन्ते तानाहपढमषिया धुवउदइसु, धुवबंधिसु तइयवज भंगतिगं / मिच्छम्मि तिन्नि भंगा, दुहा वि अधुवा तुरियभंगा // 5 // 'प्रथमद्वितीयौ' अनाद्यनन्ता-ऽनादिसान्तलक्षणौ ध्रुवोदयासु प्रकृतिषु मनको भवतः / तथाहि न विद्यत आदिर्यस्याऽनादिकालात् सन्तानभावेन सततप्रवृत्तेः सोऽनादिः, अनादिश्चासौ अनन्तश्च कदाचिदप्यनुदयाभावादनाद्यनन्तः, अयं च भङ्गको निर्माण-स्थिरा-ऽस्थिरा-गुरुलघु-शुभा-ऽशुभ-तैजस-कार्मण-वर्णचतुष्क-ज्ञानपञ्चका-ऽन्तरायपञ्चक-दर्शनचतुष्कलक्षणानां षड्विंशतिप्रकृतीनां ध्रुवोदयानामभव्यानाश्रित्य वेदितव्यः, यतोऽभव्यानां ध्रुवोदयप्रकृत्यनुदयो न कदाचिद् भविष्यतीति 1 / तथा अनादिश्वासौ सान्तश्चानादिसान्तः, तत्र ज्ञानपञ्चका-ऽन्तरायपञ्चक-दर्शनचतुष्करूपाणां चतुर्दशप्रकृतीनामनादिकालात् सन्तानमावेनाऽनादिः सन् यदा क्षीणमोहचरमसमये उदयो व्यवच्छिद्यते तदा अयमनादिसान्तभनकः, निर्माण-स्थिरा-ऽस्थिरा-गुरुलघु-शुभा-ऽशुभ-तैजस-कार्मण-वर्णचतुष्कलक्षणानां द्वादशानामपि नामध्रुवोदयप्रकृतीनां सततो: दयेनाऽनादिरुदयो भूत्वा सयोगिकेवलिचरमसमये यदोदयव्यवच्छेदमनुभवति तदाऽनादिसान्तभगकः 2 इति / ध्रुवबन्धिनीषु पूर्वोक्तस्वरूपासु सप्तचत्वारिंशत्सझ्यासु तृतीयवर्ज मात्रिकं 1-2-4 भवति / तथाहि—यो बन्धोऽनादिकालादारभ्य सन्तानभावेन सततं प्रवृत्तो न * कदाचन व्यवच्छेदमापन्नो न चोत्तरकालं कदाचिद् व्यवच्छेदमाप्स्यति सोऽनाद्यनन्तोऽभव्यानामेव भवति 1; यस्त्वनादिकालात् सततप्रवृत्तोऽपि पुनर्बन्धव्यवच्छेदं प्राप्स्यति असावनादिसान्तः, अयं भव्यानाम् 2; साद्यनन्तलक्षणस्तु तृतीयभङ्गकः शून्य एव, न हि यो बन्धः सादिभवति स कदाचिदनन्तः सम्भवतीति तृतीयभगवर्जनम् 3; यः पुनः पूर्व व्यवच्छिन्नः पुनर्बन्धनेन सादित्वमासाद्य कालान्तरे भूयोऽपि व्यवच्छेदं प्राप्स्यति सोऽयं सादिसान्तः 4 इत्येवंस्वरूपं साद्यनन्तलक्षणतृतीयशून्यभङ्गकवर्जितं भङ्गकत्रयं ध्रुवबन्धिनीषु भवति / सूत्रे च पुंस्त्वं प्राकृतत्वात् , प्राकृते हि लिङ्ग व्यभिचार्यपि, यदाह पाणिनिः स्वप्राकृतलक्षणे-“लिङ्ग व्यभिचार्यपि" इति / तत्र प्रथमभङ्गस्ता(स्त्वा)सां सर्वासामप्यभव्याश्रितः सुप्रतीत एव, ध्रुवबधिनीः प्रति तद्वन्धस्यानाद्यनन्तत्वाद् 1 इति / द्वितीयभगकस्तु ज्ञानावरणपञ्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनामनादिकालात् सन्तानभावेनानादिः सन् सूक्ष्मसम्परायचरमसमये यदा बन्धो व्यवच्छिद्यते तदा भवति 2 / आसामेव चतुर्दशप्रकृतीनामुपशान्तमोहे यदा अबन्धकत्वमासाद्य आयुःक्षयेणाऽद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बपेन सादिबन्धं विधाय भूयोऽपि सूक्ष्मसम्परायचरमसमये बन्धविच्छेदं विधत्ते तदा सादि सं० 1-2 °माप्स्यते //