________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः घात-भय-कुत्साः। कुत्सा-जुगुप्सा / तथा मिथ्यात्वं च कषायाश्चावरणानि च मिथ्यात्व-कषाया-वरणानि / तत्र वर्णचतुष्क-तैजस-कार्मणा-गुरुलघु-निर्माण-उमघातानि इत्येता नव नामप्रकृतयः, भयं कुत्सा मिथ्यात्वं कषायाः षोडश इत्येता एकोनविंशतिर्मोहनीयप्रकृतयः, आवरणानिज्ञानावरणपञ्चक-दर्शनावरणनवकस्वरूपाणि चतुर्दश, विनम्-अन्तरायं दान-लाभ-भोग-उपभोगबीर्यान्तरायभेदात् पञ्चविधमिति / एवं सप्तचत्वारिंशदप्येता ध्रुवबन्धिन्यः, निजहेतुसद्भावेऽवश्य बन्धसद्भावादिति // 2 // ___ उक्का ध्रुवबन्धिन्यः प्रकृतयः / साम्प्रतमध्रुवबन्धिनीः प्रकृतीरभिधित्सुराह तणुवंगाऽऽगिइसंघयणजाइगइखगइपुग्विजिणसासं / उज्जोयाऽऽयवपरघातसवीसा गोय वेयणियं // 3 // हासाइजुयलदुगवेयआउ तेवुत्तरी अधुवबंधा / / भंगा अणाइसाई, अणंतसंतुत्तरा चउरो // 4 // तनवः-शरीराणि औदारिक वैक्रिया-ऽऽहारकलक्षणास्तिस्रः, तैजस-कार्मणयोर्भुवबन्धित्वेनाभिहितत्वात् , उपाशानि-औदारिकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गा-ऽऽहारकाङ्गोपाङ्गरूपाणि त्रीणि, आकृतयः-संस्थानानि समचतुरस्र न्यग्रोधपरिमण्डल-सादि-कुब्ज-वामन-हुण्डाख्याः षट्, संहननानिअस्थिनिचयात्मकानि वज्रऋषभनाराच-ऋषभनाराच-नाराचा-ऽर्धनाराच-कीलिका-सेवार्तलक्षणानि षट् , जातयः--एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियरूपाः पञ्च, गतयः-देव-मनुष्यतिर्यक-नारकगतिलक्षणाश्चतस्रः, खगतिः-विहायोगतिः प्रशस्ता-प्रशस्तभेदाद् द्वेधा, "पुष्धि" ति पदैकदेशे पदसमुदायोपचाराद् आनुपूर्व्यः-देवानुपूर्वी मनुजानुपूर्वी-तिर्यगानुपूर्वी-नरकानुपूर्वीलपाश्चतसः, जिननाम-तीर्थकरनाम, श्वासनाम-उच्छ्वासनामेत्यर्थः, उद्योतनाम आतपनाम पराधातनाम “तसवीस" त्ति त्रसेनोपलक्षिता विंशतिस्त्रसविंशतिः त्रसदशकं स्थावरदशकमित्यर्थः, गोत्रम्-उच्चैर्गोत्र-नीचैर्गोत्रभेदेन द्विधा, वेदनीयं-सातवेदनीयमसातवेदनीयमिति द्विधा, हास्यादियुगलद्विकं-हास्य-रति-अरति-शोकाभिधम् , वेदाः-स्त्री-पुं-नपुंसकरूपास्त्रयः, आयूंषि-देवायुर्मनुजायुस्तिर्यगायुर्नरकायुरिति चत्वारि इति / एतास्त्रिसप्ततिप्रकृतयः 'अध्रुवबन्धाः' अध्रुवबन्धिन्यो भवन्तीति शेषः / एतासां निजहेतुसद्भावेऽप्यवश्यं बन्धाभावादध्रुवबन्धित्यम् / तथाहि-पराधातउच्छासनाम्नोः पर्याप्तनाम्नैव सह बन्धो नापर्याप्तनाम्ना अतोऽध्रुवत्वम् / आतपं पुनरेकेन्द्रियप्रायोग्यप्रकृतिसहचरितमेव नान्यदा। उद्योतं तु तिर्यग्गतिप्रायोग्यबन्धेनैव सह बध्यते / आहारकद्विक-जिननाम्नी अपि यथाक्रमं संयम-सम्यक्त्वप्रत्ययेनैव बध्येते नान्यथेत्यध्रुवबन्धित्वम् / शेषशरीरोपानत्रिकादीनां षट्क्षष्टिप्रकृतीनां सविपक्षत्वाद् निजहेतुसद्भावेऽपि नावश्यं बन्ध इत्यध्रुवबन्धित्वं सुप्रतीतमेव / उक्ता अध्रुवबन्धिन्यः प्रकृतयः / साम्प्रतं ध्रुवबन्धिन्यध्रुवबन्धिनीनां मनकान् प्रन्यलाघवार्थे च वक्ष्यमाणध्रुवोदया-भुवोदयप्रकृतीनां च भङ्गकान् बन्धमाश्रित्य उदयमाश्रित्य च चिन्तयन्नाह-"भंगा अणाइसाई" इत्यादि / 'भङ्गाः' मङ्गकाश्चत्वारो भवन्ति / कथम् इत्याह--अनादि-सादयोऽनन्त सान्तोत्तराः। इदमुक्तं भवति-अनादि-सादिशब्दौ आदी छाववन्धित्वम् //