________________ 1-2] शतकनामा पञ्चमः कर्मग्रन्थः / स्वशक्तिप्रदर्शनं यासां ताश्चतुर्धाविपाकाः-क्षेत्रविपाकाः 1 जीवविपाकाः 2 भवविपाकाः 3 पुद्गलविपाकाः 4 प्रकृतीर्वक्ष्ये / तथा "बंधविह" त्ति विधानानि विधाः-भेदाः, बन्धस्य विधा बन्धविधाः-प्रकृतिबन्ध 1 स्थितिबन्ध 2 रसबन्ध 3 प्रदेशबन्ध 4 लक्षणास्तान् वक्ष्ये / अत्र च मोदकदृष्टान्तं पूर्वसूरयो व्यावर्णयन्ति, यथा-वातापहारिद्रव्यनिचयनिष्पन्नो मोदकः प्रकृत्वा वातमपहरति, पित्तापहव्यनिर्वृत्तः पित्तम् , श्लेष्मापहद्रव्यसञ्जनितः श्लेष्माणम् 1 इत्यादि; स्थित्या तु स एव कश्चिद् दिनमेकमवतिष्ठते, अपरस्तु दिनद्वयम् , अन्यस्तु दिवसत्रयम् , यावद् मासादिकमपि कालं कश्चिदवतिष्ठते, ततः परं विनश्यति 2; स एवानुभावेन-रसपर्यायेण निग्ध-मधुरत्वादिलक्षणेन कश्चिदेकगुणानुभावः, अपरस्तु द्विगुणानुभावः, अन्यस्तु त्रिगुणानुभावः 3 इत्यादि प्रदेशाः कणिक्कादिद्रव्यप्रमाणरूपास्तैः प्रदेशैः स एव कश्चिदेकप्रसूतिप्रमाणः, अपरस्तु प्रसूतिद्वयमानः, अन्यः पुनः प्रसूतित्रयप्रमाणः 4 इत्यादि / एवं कर्मापि ज्ञानावरणादिपुद्गलैर्निर्वृत्तं प्रकृत्या किञ्चिद् ज्ञानमावृणोति, किञ्चिद्दर्शनं किञ्चित्तु सुख-दुःखे जनयति 1 इत्यादि; स्थित्या तु तदेव त्रिंशत्सागरोपमकोटीकोट्यादिकालावस्थायि भवति 2; अनुभावतस्तु तदेव एकस्थानिकद्विस्खानिक तीव्र-मन्दादिकरसयुक्तम् 3, प्रदेशतस्तु तदेवाल्प-बहुप्रदेशनिष्पन्नं स्याद् 4 इति / एष च प्रकृत्यादिस्वभावश्चतुर्विधोऽपि कर्मण उपादानकाल एव बध्यत इति बन्धश्चतुर्विधः सिद्धो भवति / तथा डमरुकमणिन्यायेन बन्धशब्द इहापि योज्यते, ततो बन्धस्वामिनो वक्ष्ये, कः कस्याः प्रकृतेः स्थितेर्वा कः कस्य रसस्य तीव्र-मन्दादिरूपस्य कश्च कस्य प्रदेशाग्रस्य जघन्यत्वादिलक्षणस्य बन्धकः ? इत्यादि स्वामित्वेन वक्ष्ये / चशब्दाद् उपशमश्रेणि-क्षपकश्रेण्यादिकं [च ] वक्ष्य इत्यनेनाभिधेयमाह / सम्बन्ध-प्रयोजने तु सामर्थ्यगम्ये / तत्र सम्बन्धः साध्य-साधनलक्षण उपाय-उपेयलक्षणो गुरुपर्वक्रमलक्षणो वा वेदितव्यः। प्रयोजनं तु प्रकरणकर्तृ• श्रोत्रोरनन्तर-परम्परभेदेन द्वेधा / तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनम् , श्रोतुश्चानन्तरं प्रयोजनं प्रकरणार्थपरिज्ञानम् / परम्परप्रयोजनं तु द्वयोरपि परमपदप्राप्तिरिति / तथा चोक्तम् सम्यकशास्त्रपरिज्ञानाद्विरक्ता भवतो जनाः / लब्ध्वा दर्शनसंशुद्धिं, ते यान्ति परमां गतिम् // तदेतेन मङ्गलाद्यभिधानेन सकलशास्त्रकृतां प्रवृत्तिरनुसृता भवति / तथा च तैः प्रणिजगदे प्रेक्षावतां प्रवृत्त्यर्थमभिधेय-प्रयोजने / मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये // इति / // 1 // अथ “यथोद्देशं निर्देशः" इति न्यायात् तत्प्रथमतो ध्रुवबन्धिनीः प्रकृतीळचिख्यासुराह वनचउतेयकम्माऽगुरुलहुनिमिणोवधायभयकुच्छा। मिच्छकसायावरणा, विग्धं धुववंधि सगचत्ता // 2 // * प्राकृतत्वाद् लिङ्ग-वचनव्यत्ययेन ध्रुवबन्धिन्यः प्रकृतयः “सगचत्त" त्ति सप्तचत्वारिंशत्सामा भवन्ति / तथाहि-वर्णेनोपलक्षितं चतुष्कं वर्णचतुष्कं-वर्ण-गन्ध-रस-स्पर्शलक्षणम् , ततो वर्णचतुष्कं च तैजसं च कार्मणं चागुरुलघु चेत्यादिद्वन्द्वे वर्णचतुष्क तैजस-कार्मणा-गुरुलधु-निर्माण-उप १सं० 2 °स्ता व°॥