________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः "परियत्त" त्ति परिवृत्ताः' परावर्तमानाः 6 / “सेयर" त्ति 'सेतराः' सप्रतिपक्षाः-विपक्षयुक्ता इत्यक्षरार्थः / भावार्थोऽयम्-ध्रुवबन्धिन्यः 1 अध्रुवबन्धिन्यः 2 ध्रुवोदयाः 3 अध्रुवोदयाः 4 ध्रुवसत्ताकाः 5 अध्रुवसत्ताकाः 6 सर्व-देशघातिन्यः 7 अघातिन्यः 8 पुण्यप्रकृतयः 9 पापप्रकृतयः 10 परावर्तमानाः 11 अपरावर्तमानाः 12 चेति द्वादश द्वाराणि वक्ष्ये / / तत्र निजहेतुसद्भावे यासां प्रकृतीनां ध्रुवः-अवश्यम्भावी बन्धो भवति ता ध्रुवबन्धिन्यः 1 / यासां च निजहेतुसद्भावेऽपि नावश्यम्भावी बन्धस्ता अध्रुवबन्धिन्यः 2 / यदवादि नियहेउसंभवे वि हु, भयणिजो जाण होइ पयडीणं / बंधो ता अधुवाओ, धुवा अभयणिज्जबंधाओ // ( पञ्चसं० गा० 153) निजहेतवश्चेह मिथ्यात्वादयो मन्तव्याः / यासामव्यवच्छिन्नोऽनुसन्ततः स्वोदयव्यवच्छेदकालं यावदुदयस्ता ध्रुवोदयाः 3 / यासां तु व्यवच्छिन्नोऽप्युदयो भूयोऽपि प्रादुर्भवति तथाविधद्रव्य-क्षेत्र-काल-भव-भावस्वरूपं पञ्चविधं हेतुसम्बन्धं प्राप्य ता अध्रुवोदयाः 4 / यदभाणि अव्वुच्छिन्नो उदओ, जाणं पयडीण ता धुवोदइया / ... वुच्छिन्नो वि हु संभवइ, जाण अधुवोदया ताओ // ( पञ्चसं० गा० 155) याः सर्वसंसारिणामप्राप्तसम्यक्त्वाद्युत्तरगुणानां सातत्येन भवन्ति ता ध्रुवसत्ताकाः 5 / यास्तु कादाचित्कभाविन्यस्ता अध्रुवसत्ताकाः 6 / सर्वेतरघातित्वं च प्रकृतीनां खविषयघातनभेदतो भवति / तत्र सर्वखविषयघातिन्यः सर्वघातिन्यः, स्वविषयदेशघातिन्यश्च देशघातिन्यः / खविषयं चासामुत्तरत्र व्याख्यास्यामः / ततः सर्व समस्तं देशं च–कञ्चन खावार्य गुणं नन्तीत्येवंशीलाः सर्व-देशघातिन्यः 7 / ज्ञान-दर्शनादिगुणानां मध्ये न कश्चिद् गुणं मन्तीत्येवंशीला अघातिन्यः / केवलं यथा स्वयमतस्करस्वभावोऽपि तस्करैः सह वर्तमानस्तस्कर इव दृश्यते, एवमेता अपि घातिनीभिः सह वेद्यमानास्तदोषा इव भवन्ति / यदाहुः श्रीशिवशर्मसूरिप्रवराः ___ अवसेसा पयडीओ, अघाइया घाइयाहिं पलिभागो। (बृ० शत० गा० 82 ) “पालिभागु" ति सादृश्यम् / घातित्वं च प्रकृतीनां रसविशेषाद् विज्ञेयम् 8 / पुण्यप्रकृतयो जीवाहादजनिकाः शुभा उच्यन्ते 9 / पापप्रकृतयः कटुकरसा अशुभा उच्यन्ते 10 / याः प्रकृतयोऽन्यस्याः प्रकृतेर्बन्धमुदयमुभयं वा विनिवार्य खकीयं बन्धमुदयमुभयं वा दर्शयन्ति ताः परावर्तमानाः 11 / यास्त्वन्यस्याः प्रकृतेर्बन्धमुदयमुभयं वाऽनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ता न परावर्तन्त इति कृत्वाऽपरावर्तमाना उच्यन्ते 12 / यत् प्रत्यपादि ___ "विणिवारिय जा गच्छइ, बंधं उदयं व अन्नपगईए। सा हु परियत्तमाणी, अणिवारंती अपरियत्ता // ( पञ्चसं० गा० 161) "चउहविवाग" त्ति चतुर्धा-क्षेत्र जीव-भव-पुद्गलाश्रितत्वेनचतुःप्रकारो विपाकः-विपचनं 1 निजहेतुसम्भवेऽपि हि भजनीयो यासां भवति प्रकृतीनाम् / बन्धस्ता अध्रुषा ध्रुवाः अभजनीयबन्धाः।। 2 अव्युच्छिन्न उदयो यासां प्रकृतीनां ता ध्रुवोदयाः / व्युच्छिन्नोऽपि हि सम्भवति यासां अध्रुवोदयास्ताः॥ 3 अवशेषाः प्रकृतयोऽघातिन्यो घातिनीभिः परिभागः // 4 विनिवार्य या गछन्ति बन्धमुदयं वा अन्यप्रकृतेः। सा हि परावर्त्तमाना अनिवारयन्ती अपरिवृत्ता,