________________ * // अहम् // नमः कर्मतत्त्वरहस्यवेदिभ्यः। पूज्यश्रीमद्देवेन्द्रसरिविरचितः स्वोपज्ञटीकोपेतः शतकनामा पञ्चमः कर्मग्रन्थ.। // ॐ नमः श्रीप्रवचनाय // यो विश्वविश्वभविनां भवबीजभूतं, कर्मप्रपञ्चमवलोक्य कृपापरीतः / तस्य क्षयाय निजगाद सुदर्शनादिरत्नत्रयं स जयतु प्रभुवर्धमानः // 1 // अग्रायणीयपूर्वादुनृत्य परोपकारसारधिया / येनाभ्यधायि शतकः, स जयतु शिवशर्मसूरिवरः // 2 // अनुयोगधरान् सर्वान् , धर्माचार्यान् मुनींस्तथा नत्वा / स्वोपज्ञशतकसूत्रं विवृणोमि यथाश्रुतं किश्चित् // 3 // - तत्रादावेवाभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाहनमिय जिणं धुवबंधो 1 दय 2 सत्ता 3 घाइ 4 पुन्न 5 परियत्ता 6 / सेयर 12 चउहविवागा 16, वुच्छं बंधविह 20 सामी 24 य // 1 // जिनं नत्वा ध्रुवबन्धिन्यादि वक्ष्य इति सम्बन्धः / तत्र 'नत्वा' नमस्कृत्य, कम् ! इत्याह'जिन' राग-द्वेष-मोहादिदुर्वारवैरिवारजेतारं वीतरागम्, परमार्हन्त्यमहिमालतं तीर्थकरमित्यर्थः। अनेन परमाभीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकं भावमङ्गलमाह, अनेन चाऽऽशास्त्रपरिसमाप्तेर्निष्पत्यूहता भवतीति / क्त्वाप्रत्ययस्य चोत्तरक्रियासापेक्षत्वाद् उत्तरक्रियामाह-ध्रुवबन्धोदयादि वक्ष्ये / तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्कवद् निरन्तरं पुद्गलनिचिते मोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीर-नीरवद् वहि-अयःपिण्डवद्वाऽन्योऽन्यानुगमामेदात्मकः सम्बन्धो बन्धः 1 / तेषामेव कर्मपुद्गलानामपवर्तनादिकरणकृते स्वाभाविके वा स्थित्यपचये सति उदयसमयप्राप्तानां विपाकवेदनमुदयः 2 / तेषामेव कर्मपुद्गलानां बन्ध-समाभ्यां लब्धात्मलाभानां निर्जरण-सङ्कमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता 3 / बन्धश्च उदयश्च सञ्च बन्धोदयसन्ति, ततो ध्रुवशब्दस्य प्रत्येकं सम्बन्धाद् ध्रुवाणि बन्धोदयसन्ति यासां ता ध्रुवबन्धोदयसत्यः / "वाइ" ति 'घातिन्यः' देशघातिन्यः सर्वघातिन्यश्चेत्यर्थः 4 / “पुन्न" ति पुण्यप्रकृतयः 5 / सं० 2 ति सर्वघातिन्यो देशघातिन्यश्चेत्यर्थः / छा० °त्ति घातिन्यो देश-सर्वघातिन्यः, सर्वघातिन्यो खातातिन्यश्चेत्यर्थः //