________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः बन्धो न भवति तथापि तत्स्थाने स्त्रीवेदः पुरुषवेदो वा प्रक्षिप्यत इत्येकविंशतेरेय बन्धः / ततो मिश्रा-ऽविरतसम्यग्दृष्टिगुणस्थानकयोरनन्तानुबन्धिनामपि बन्धाभावात् सप्तदश / ततोऽपि देशविरतिगुणस्थानके प्रत्याख्यानावरणकषायाणां बन्धाभावात् त्रयोदश / ततोऽपि प्रमत्ता-प्रमत्ता-ऽपूर्वकरणगुणस्थानकेषु प्रत्याख्यानावरणकषायाणां बन्धाभावाद् नव / यद्यप्यरति-शोकरूपं युगलं प्रमत्तगुणस्थानक एव व्यवच्छिन्नं तथापि तत्स्थाने हास्य-रतियुगलं प्रक्षिप्यत इत्यप्रमचा- पूर्वकरणयोर्नवकबन्धो न विरुध्यते / ततो हास्य रति-भय-जुगुप्सा अपूर्वकरणचरमसमये न बन्धमाश्रित्य व्यवच्छिद्यन्त इत्यनिवृत्तिबादरसम्परायगुणस्थानके प्रथमभागे पञ्चानां बन्धः / द्वितीयभागे पुरुषवेदस्याऽभावात् चतसृणां बन्धः / तृतीयभागे सञ्ज्वलनक्रोधस्य बन्धाभावात् तिसृणां बन्धः। चतुर्थभागे संज्वलनमानस्य बन्धाभावाद् द्वयोर्बन्धः / पञ्चमभागे संज्वलनमायाया अपि बन्धाभावादेकस्याः संज्वलनलोभप्रकृतेर्बन्धः / ततः परं बादरसम्परायाभावात् तस्या अपि न बन्धः। उक्तानि मोहनीयस्य दश बन्धस्थानानि / अथैतेषु दशसु बन्धस्थानेषु भूयस्कारादीनाह"नव अट्ठ दस दुन्नि" ति नव भूयस्कारबन्धाः, अष्टावल्पतरबन्धाः, दशावस्थितबन्धाः, द्वाववक्तव्यबन्धौ / इयमत्र भावना-एकविधबन्धात् प्रतिपत्य उक्तस्वरूपं द्विविधं बनत आधसमये प्रथमो भूयस्कारबन्धः / द्विविधात् त्रिविधबन्धं गतस्य द्वितीयो भूयस्कारबन्धः / त्रिविधात् चतुर्विधबन्धं गतस्य तृतीयो भूयस्कारबन्धः / चतुर्विधात् पञ्चविधबन्धं गतस्य चतुर्थो भूयस्कारबन्धः / पञ्चविधाद् नवविधबन्धं गतस्य पञ्चमो भूयस्कारबन्धः / नवविधात् त्रयोदशविधबन्धं गतस्य षष्ठो भूयस्कारबन्धः / त्रयोदशविधात् सप्तदशविधबन्धं गतस्य सप्तमो भूयस्कारबन्धः / सप्तदशविधाद् एकविंशतिविधबन्धं गतस्याष्टमो भूयस्कारबन्धः / एकविंशतिविधाद् द्वाविंशतिविधबन्धं गतस्य नवमो भूयस्कारबन्धः / अल्पतराः पुनरेवमष्टौ भवन्ति / तथाहि-द्वाविंशतिविधबन्धात् सप्तदशविधबन्धं गतस्य प्रथमोऽल्पतरबन्धः / सप्तदशविधात् त्रयोदशविधबन्धं गतस्य द्वितीयोऽल्पतरबन्धः / त्रयोदशविधबन्धाद् नवविधबन्धं गतस्य तृतीयोऽल्पतरवन्धः / नवविधबन्धात् पञ्चविधबन्धं गतस्य चतुर्थोऽल्पतरबन्धः / पञ्चविधबन्धाद् चतुर्विधबन्धं गतस्य पञ्चमोऽल्पतरबन्धः / चतुर्विधबन्धात् त्रिविधबन्धं गतस्य षष्ठोऽल्पतरबन्धः / त्रिविधबन्धाद् द्विविधबन्धं गतस्य सप्तमोऽल्पतरबन्धः / द्विविधबन्धाद् एकविधबन्धं गतस्याष्टमोऽल्पतरबन्धः / ननु द्वाविंशतिबन्धादेकविंशतिगमने नवमोऽल्पतरबन्धः कस्माद् नोक्तः ? इति चेत् नैवम् , असम्भवादेव, तथाहि-द्वाविंशतिं मिथ्यादृष्टिरेवं बध्नाति, एकविंशति तु साखादनसम्यग्दृष्टिरेवेत्युक्तम् ; न च मिथ्यादृष्टिरनन्तरभावेन साखादनत्वं व्रजति येन द्वाविंशतेरेकविंशतिगमनं स्यात् , किन्तु उपशमसम्यग्दृष्टिरेव सास्वादनभावं प्रतिपद्यते, तस्माद् द्वाविंशतेः सप्तदशबन्धगमनमेव भवतीत्यष्टावेवाल्पतरबन्धाः। तथा दशखपि मोहनीयबन्धस्थानेषु द्वितीयादिसमयेष्ववस्थितबन्धो लभ्यत इति अवस्थितबन्धा दश / अवक्तव्यबन्धौ द्वौ पुनरेवम् यदा हि उपशान्ते मोहनीयस्याऽबन्धको भूत्वा उपशान्ताद्धाक्षयेण प्रतिपत्य पुनरेकं संज्वलनलोभं बध्नाति तदाऽऽद्यसमये प्रथमोऽवक्तव्यबन्धः / यदि चोपशान्त