________________ 63] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 257 हारविवक्षणात् , समाहारविवक्षा चामीषां त्रयाणामपि युगपत् क्षपणाय यतते इति ज्ञापनार्था / मिथ्यात्वादीनि च क्षपयन् यथाप्रवृत्तादीनि त्रीणि करणान्यारभते / करणानि च प्रागिव वक्तव्यानि / नवरमपूर्वकरणस्य प्रथमसमयेऽनुदितयोमिथ्यात्व-सम्यग्मिथ्यात्वयोर्दलिकं गुणसङ्गमेण सम्यक्त्वे प्रक्षिपति / उद्वलनासङ्गममपि तयोरेवमारभते, तद्यथा-प्रथमस्थितिखण्डं बृहतरमुद्वलयति, ततो द्वितीयं विशेषहीनम् , ततोऽपि तृतीयं विशेषहीनम् , एवं तावद् वाच्यं यावदपूर्वकरणचरमसमयः / अपूर्वकरणप्रथमसमये च यत् स्थितिसत्कर्म आसीत् तत् तस्यैव चरमसमये सोयगुणहीनं जातम् / ततोऽनिवृत्तिकरणे प्रविशति, तत्रापि स्थितिघातादीन् सर्वानपि तथैव करोति / अनिवृत्तिकरणप्रथमसमये च दर्शनत्रिकस्यापि देशोपशमना-निधत्तिनिकाचना व्यवच्छिद्यन्ते / दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्मा अनिवृत्तिकरणप्रथमसमयादारभ्य स्थितिघातादिभिर्घात्यमानं घात्यमानं स्थितिखण्डसहस्रेषु गतेष्वसंज्ञिपञ्चेन्द्रियस्थितिसकर्मसमानं भवति, ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानम् , ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानम्, ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम्, ततोऽपि तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानम् , ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपैमासङ्ख्येयभागप्रमाणं भवति / ततस्त्रयाणामपि प्रत्येकमेकैकं सत्येयभागं मुक्त्वा शेषं सर्वमपि घातयति / ततस्तस्यापि प्राग्मुक्तस्य सस्पेयभागस्यैकं सङ्ख्येयतमं भागं मुक्त्वा शेषं सर्व विनाशयति / एवं स्थितिघाताः सहसशो व्रजन्ति / तदनन्तरं च मिथ्यात्वस्यासयेयान् भागान् खण्डयति, सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु समेयान् / तत एवं स्थितिखण्डेषु प्रभूतेषु गतेषु सत्सु मिथ्यात्वस्य दलिकमावलिकामानं जातम् , सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु पल्योपमासपेयभागमात्रम् / अनि च स्थितिखण्डानि खण्ख्यमानानि मिथ्यात्वसत्कानि सम्यक्त्व-सम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यग्मिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वसत्कानि त्वधस्तात् स्वस्थाने इति / तदपि च मिथ्यात्वदलिकमावलिकामानं स्तिबुकसङ्कमेण सम्यक्त्वे प्रक्षिपति / तदनन्तरं सम्यक्त्वसम्यग्मिथ्यात्वयोरसस्पेयान् भागान् खण्डयति, एकोऽवशिष्यते; ततस्तस्याप्यसभेयान् भागान् खण्डयति, एक मुञ्चति; एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यग्मिथ्यात्वमप्यावलिकामानं जातम् / तदानी सम्यक्त्वस्य स्थितिसत्कर्म वर्षाष्टकप्रमाणं भवति / तस्मिन्नेव च काले सकलप्रत्यूहापगमतो निश्चयमतेन दर्शनमोहनीयक्षपक उच्यते। तत ऊर्ध्वं सम्यक्त्वस्य स्थितिखण्ड अन्तर्मुहूर्तप्रमाणमुत्किरति, तद्दलिकं तूदयसमयादारभ्य प्रक्षिपति / केवलमुदयसमये सर्वस्तोकम् , ततो द्वितीयसमयेऽसोयगुणम् , ततोऽपि तृतीयसमयेऽसस्येयगुणम् , एवं तावद् वक्तव्यं यावद् गुणश्रेणीशिरः / तत ऊर्ध्वं तु विशेषहीनं विशेषहीनम् , यावञ्चरमा स्थितिः / एवमान्तर्मु 1 सं० 1 त० म० छा० नार्थम् // 2 त० म० °थमं स्थि // 3 सं 1 त० छा० म० "तिकर्म // 4 सं०१ त० दीनि स॥ 5 सं० सं० 2 छा० पमसंख्ये // 6 सं०१ त० मं० क्त्वस्थिति // 7 सं०१त. म० तौहूर्तिका // 33