________________ 256 - मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः समाकृष्य प्रथमस्थिति सूक्ष्मसम्परायाद्धातुल्यां करोति वेदयति च / शेषं च सूक्ष्मकिट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति / सूक्ष्मसम्परायाद्धायाश्चरमसमये संज्वलनलोभ उपशान्तो भवति / तत्समयमेव च ज्ञानावरणपञ्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चक-यशःकीर्ति-उच्चैर्गोत्राणां बन्धव्यवच्छेदः / ततोऽनन्तरसमये उपशान्तकषायो भवति / तस्मिंश्योपशान्तकषाये वीतरागेऽष्टाविंशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञातव्याः / . - उपशान्तकषायश्च जघन्येनैकं समयं भवति, उत्कर्षेण त्वन्तर्मुहूर्त कालं यावत् , तत ऊर्ध्व नियमादसौ प्रतिपतति / प्रतिपातश्च द्विधा-भवक्षयेण अद्धाक्षयेण च / तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् / अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्ध-उदय-उदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्त इति यावत् / प्रतिपतंश्च तावत् प्रतिपतति यावत् प्रमत्तसंयतगुणस्थानकम् / कश्चित् पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि / यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीत्येष विशेषः / उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणि प्रतिपद्यते / यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेण्यभावः / यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि / उक्तं च चूर्णी जो दुवे वारे उवसमसेटिं पडिवज्जइ तस्स नियमा तम्मि भवे खवगसेढी नत्थि, जो एक्कसिं उवसमसेढिं पडिवज्जइ तस्स खवगसेढी होज वा ( ) इति / आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते / तदुक्तम्- , मोहोपशम एकस्मिन् , भवे द्विः स्यादसन्ततः। यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न // ( ) इति / // 62 // तदेवमुक्ता सप्रपञ्चमुपशमश्रेणिः / सम्प्रति क्षपकश्रेणिमभिधातुकाम आहःपढमकसायचउकं, एत्तो मिच्छत्तमीससम्मत्तं / अविरय देसे विरए, पमैत्ति अपमत्ति खीयंति // 63 // ___ इह यः क्षपकश्रेणिमारभते सोऽवश्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमानः / स च प्रथमतः 'प्रथमकषायचतुष्कम्' अनन्तानुबन्धिसंज्ञं विसंयोजयति / तद्विसंयोजना च प्रागेवोक्ता / ततः इतः प्रथमकषायचतुष्कक्षयादनन्तरं मिथ्यात्व-मिश्र-सम्यक्त्वानि क्षपयति / सूत्रे चैकवचनं समा 1 सं० छा० मुद्रि० यते च // 2 यो द्वौ वारौ उपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेणि स्ति, य एकवारं उपशमश्रेणिं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेद् वा // 3 सं० छा० मद्रि० ति श्रेणिप्रस्तावात् क्षप // 4 सं० 1 त० म० इत्तो // 5 सं० सं० 2 छा० मत्ते अपमत्ते खी। सं०१ त०म० °मत्त अपमत्त खी //