________________ 62] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / द्वितीया वर्गणा, अपरेषां तु व्यधिकरसाविभागयुक्तानां समुदायस्तृतीया वर्गणा, एक्मनया दिशा एकैकरसाविभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागकल्पा अभव्येभ्योऽनन्तगुणा वाच्याः। एतासां च समुदायः स्पर्धकमित्युच्यते, स्पर्धन्त इवोत्तरोत्तरवृद्धया परमाणुवर्गणा अत्रेति कृत्वा / ___इत ऊर्ध्वमेकोत्तरया निरन्तरवृद्ध्या प्रवर्द्धमानो रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसाविभागैः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमभिधानीयम् , एवमेव च तृतीयम् , एवं तावद् वाच्यं यावदनन्तानि स्पर्धकानि भवन्ति / एतानि च पूर्व कृतत्वात् पूर्वस्पर्धकान्यभिधीयन्ते / तत एतेभ्य इदानी प्रतिसमयं दलिकं गृहीत्वा तस्य चात्यन्तहीनरसतामापाद्य अपूर्वाणि स्पर्धकानि करोति / आसंसारं हि परिभ्रमता न कदाचनापि बन्धमाश्रित्येहशानि स्पर्धकानि कृतानि, किन्तु सम्प्रत्येव विशुद्धिप्रकर्षवशात् करोति, ततोऽपूर्वाणीत्युच्यन्ते / ___ अश्वकर्णकरणाद्धायां च गतायां किट्टिकरणाद्धायां प्रविशति / तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति / किट्टयो नाम पूर्वस्पर्धकाऽपूर्वस्पर्धकेभ्यो वर्गणा गृहीत्वा तासामनन्तगुणहीनरसतामापाद्य बृहदन्तरालतया यद् व्यव स्थापनम्, यथा—यासामनन्तानन्तानामप्यसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरं द्व्युत्तरं वाऽऽसीत 101-102 तासामेवानभागभागानां पञ्चकं पञ्चदशकं पञ्चविंशतिरिति / किट्टिकरणाद्धायाश्चरमसमये युगपद् अप्रत्याख्यान-प्रत्याख्यानावरणलोभावुपशान्तौ भवतः / तत्समयमेव च संज्वलनलोभबन्धव्यवच्छेदो बादरसंज्वलनलोभोदय-उदीरणाव्यवच्छेदोऽनिवृत्तिबादरसम्परायगुणस्थानकव्यवच्छेदश्च / तदेवमनिवृत्तिबादरे सप्तभ्य आरभ्य पञ्चविंशतिं यावद् उपशान्तानि कर्माणि लभ्यन्ते / तथा चाह सत्तेऽ? नव य पनरस, सोलस अट्ठारसेव इगवीसा / ___एगाहि दु चउवीसा, पणवीसा बायरे जाण // सुगौ // अप्रत्याख्यान-प्रत्याख्यानावरणलोभोपशान्तौ च सप्तविंशतिकर्माण्युपशान्तानि भवन्ति / तानि च सूक्ष्मसम्पराये प्राप्यन्ते / आह च सत्तावीस सुहुमे, अट्ठावीसं पि मोहपयडीओ। उवसंतवीयरागे, उवसंता होंति नायबा // 'सूक्ष्मे सूक्ष्मसम्पराये सप्तविंशतिकर्माण्युपशान्ताँनि लभ्यन्ते / सूक्ष्मसम्परायाद्धा चान्तर्मुहूर्तप्रमाणा / सूक्ष्मसम्परायाद्धायां च प्रविष्टः सन् उपरितनस्थितेः सकाशात् कतिपयाः किट्टीः 1 सं० 1 त० म० तररस // 2 सं० सं० 1 त० म० यासामेवासत्क // 3 छा० मुद्रि० याश्च चर॥ 4 सं० 1 त० म० शान्तकर्मा // 5 सप्ताष्ट नव च पञ्चदश षोडश अष्टादशैव एकविंशतिः / एकाधिकद्वौ चतुर्विंशतिः पञ्चविंशतिर्बादरे जानीहि // 6 सं१ त० म०मा // अत्राप्रत्या // 7 सं०१ त० म० नि भवन्ति / /