________________ 254 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः केवला प्रवर्तते / साऽपि तावद् यावदावलिका शेषा भवति / आवलिकायां तु शेषीभूतायां संज्वलनमानस्य बन्ध-उदय-उदीरणाव्यवच्छेदः अप्रत्याख्यान-प्रत्याख्यानावरणौ च मानावुषशान्तौ, तयोश्चोपशान्तयोरेकविंशतिकर्माण्युपशान्तानि भवन्ति / तस्मिंश्च समये संज्वलनमानस्य प्रथमस्थितिगतामेकामावलिकां समयोनावलिकाद्विकबद्धं चोपरितनस्थितिगतं दलिकं मुक्त्वा शेषमन्यत् सर्वमुपशान्तम् , ततस्तां प्रथमस्थितिगतामेकामावलिकां स्तिबुकसङ्क्रमेण संज्वलनमायायां प्रक्षिपति, समयोनावलिकाद्विकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति सङ्गमयति च। ततः समयोनावलिकाद्विकेन कालेन संज्वलनमान उपशमितः, तस्मिश्चोपशान्ते द्वाविंशतिकर्माण्युपशान्तानि भवन्ति / यदा च संज्वलनमानस्य बन्ध-उदय-उदीरणाव्यवच्छेदस्ततोऽनन्तरसमयादारभ्य संज्वलनमायाया द्वितीयस्थितेः सकाशाद् दलिकमाकृष्य पूर्वोक्तप्रकारेण प्रथमां स्थिति करोति वेदयते च, तत्समयादेव चारभ्य तिस्रोऽपि माया युगपद् उपशमयितुमारभते / संज्वलनमायायाश्च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान-प्रत्याख्यानावरणमायादलिकं न संज्वलनमायायां प्रक्षिपति, किन्तु संज्वलनलोभे / आवलिकाद्विकशेषायां वागालो न भवति, किन्तूदीरणैव केवला / साऽपि तावत् प्रवर्तते यावदावलिकाशेषो भवति / आवलिकायां च शेषीभूतायां संज्वलनमायाया बन्ध-उदय-उदीरणाव्यवच्छेदः अप्रत्याख्यान-प्रत्याख्यानावरणे च माये उपशान्ते, तयोश्चोपशान्तयोश्चतुर्विशतिकर्माण्युपशान्तानि भवन्ति / तस्मिंश्च समये संज्वलनमायायाः प्रथमस्थितिगतामेकामावलिकां समयोनावलिकाद्विकबद्धं चोपरितनस्थितिगतं दलिक मुक्त्वा शेषमन्यत् सर्वमुपशान्तम् , ततस्तां प्रथमस्थितिगतामेकामावलिकां स्तिबुकसङ्क्रमेण संज्वलनलोभे सङ्क्रमयति, समयोनावलिकाद्विकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति सङ्कमयति च / ततः समयोनावलिकाद्विकेन कालेन संज्वलनमाया उपशान्ता, तस्यां चोपशान्तायां पञ्चविंशतिकर्माण्युपशान्तानि भवन्ति / यदा च संज्वलनमायाया बन्ध-उदय-उदीरणाव्यवच्छेदस्ततोऽनन्तरसमयादारभ्य संज्वलनलोभस्य द्वितीयस्थितेः सकाशाद् दलिकमाकृष्य लोभवेदकाद्धात्रिभागद्वयप्रमाणां प्रथमस्थितिं पूर्वोक्तप्रकारेण करोति वेदयते च / प्रथमश्चै त्रिभागोऽश्वकर्णकरणाद्धासंज्ञः, द्वितीयः किट्टिकरणाद्धासंज्ञः / प्रथमे चाश्वकर्णकरणाद्धासंज्ञे त्रिभागे वर्तमानः पूर्वस्पर्धकेभ्यो दलिकमादायापूर्वस्पर्धकानि करोति / . अथ किमिदं स्पर्धकम् ? इति उच्यते-इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान् जीवः कर्मतया गृह्णाति। तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः केवलिप्रज्ञया च्छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसाविभागान् प्रयच्छति, अपरस्तु तानप्येकाधिकान् , अन्यस्तु व्यधिकान् , एवमेकोत्तरया वृद्ध्या तावद् नेयं यावदन्यः परमाणुः सिद्धानन्तभागाधिकान् रसाविभागान् प्रयच्छति / तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेत्युच्यते। अन्येषां त्वेकाधिकरसाविभागयुक्तानां समुदायो 102 त०म० °काशेषो भव / सं०१ काशेषो न भव // 2 छा० मुद्रि० काशेषो न भव // 3 सं०१त० म० श्च विभा // 4 छा० प्येकादिभागाधिकान् / एवमे // 5 सं०१ सं० 2 त० म० कान् / एवमें //