________________ 62 ] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 253 वेदस्य बन्ध-उदय-उदीरणाव्यवच्छेदः प्रथमस्थितिव्यवच्छेदश्च / प्रथमस्थितौ च द्यावलिकाशेषायां प्रागुक्तखरूप आगालो न भवति / तस्मादेवं च समयादारभ्य षण्णां नोकषायाणां सत्कं दलिकं न पुरुषवेदे प्रक्षिपति किन्तु संज्वलनक्रोधादिषु, “दुसु आवलियासु पढमठिईऍ सेसासु वि य वेओ" // (कर्मप्र० गा० 107) इति वचनात् / हास्यादिषट्रोपशमनानन्तरं च समयोनावलिकाद्विकमात्रेण कालेन पुरुषवेदं सकलमप्युपशमयति / तं चैवम्-प्रथमसमये स्तोकम् , द्वितीयसमयेऽसङ्ख्येयगुणम् , ततोऽपि तृतीयसमयेऽसङ्ख्येयगुणम् , एवं तावद् वाच्यं यावत् समयद्वयोनावलिकाद्विकचरमसंमयः; परप्रकृतिषु च प्रतिसमयं समयद्वयोनावलिकाद्विककालं यावद् यथाप्रवृत्तसङ्क्रमेण सङ्क्रमयति, परं प्रथमसमये प्रभूतम् , द्वितीयसमये विशेषहीनम् , ततोऽपि तृतीयसमये विशेषहीनम् , एवं तावद् वक्तव्यं यावत् चरमसमयः / पुरुषवेदे चोपशान्त षोडश कर्माण्युपशान्तानि भवन्ति / ततो यस्मिन् समये हास्यादिषटुमुपशान्तम् पुरुषवेदस्य प्रथमस्थितिः क्षीणा ततः समयादनन्तरमप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधान् युगपदुपशमयितुमारभते / संज्वलनक्रोधस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान-प्रत्याख्यानावरणक्रोधदलिकं न संज्वलनक्रोधे प्रक्षिपति किन्तु संज्वलनमानादौ, "तिसं आवलियासु समऊणियासु अपडिग्गहा उ संजलणा।" (कर्मप्र० गा० 107) इति वचनात् / व्यावलिकाशेषायां त्वागालो न भवति, किन्तूदीरणैव केवला / साऽपि तावत् प्रवर्तते यावदावलिकाशेषो भवति / आवलिकायां च शेषीभूतायां संज्वलनक्रोधस्य बन्ध-उदय उदीरणाव्यवच्छेदः अप्रत्याख्यान-प्रत्याख्यानावरणौ च क्रोधावुपशान्तौ, तयोश्चोपशान्तयोरटादश कर्माण्युपशान्तानि भवन्ति / तदानीं च संज्वलनक्रोधस्य प्रथमस्थितिगतामेकामावलिकां समयोनावलिकाद्विकबद्धं चोपरितनस्थितिगतं दलिक मुक्त्वा शेषमन्यत् सर्वमुपशान्तम् , ततस्तां प्रथमस्थितिगतामेकामावलिका संज्वलनमाने स्तिबुकसक्रमेण प्रक्षिपति, समयोनावलिकाद्विकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति सङ्क्रमयति च / ततः समयोनावलिकाद्विकेन काले. संज्वलनक्रोध उपशमितः, तस्मिंश्चोपशान्ते एकोनविंशतिकर्माण्युपशान्तानि भवन्ति / यदा च संज्वलनक्रोधस्य बन्ध-उदय-उदीरणाव्यवच्छेदस्ततोऽनन्तरसमयादारभ्य संज्वलनमानस्य द्वितीयस्थितेः सकाशाद् दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च / तत्रोदयसमये स्तोकं प्रक्षिपति, द्वितीयस्थितौ असङ्ख्येयगुणम् , तँतोऽपि तृतीयस्थितावसङ्ख्येयगुणम् , एवं तावद् वाच्यं यावत् प्रथमस्थितेश्चरमसमयः / प्रथमस्थितिकरणप्रथमसमयादेव चारभ्य त्रीनप्यप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनरूपान् मानान् युगपद् उपशमयितुमारभते। संज्वलनमानस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान-प्रत्याख्यानावरणमानदलिकं न संज्वलनमाने प्रक्षिपति किन्तु संज्वलनमायादौ / आवलिकाद्विकशेषायां त्वागालो व्यवच्छिद्यते, तत उदीरणैव 1 सं० 1 त० छा०म० व चरमसया // 2 द्वयोरावलिकयोः प्रथमस्थितौ शेषयोरपि च वेदः // 3 तिसृष्वावलिकासु समयोनासु अपतगृहास्तु संज्वलनाः // 4 सं० सं० 1 सं० 2 त० छा० म० 'नं को // 5 सं० छा० मुद्रि० यति // 6 सं० 1 च / प्रथमस्थितिकरण // 7 त० म० ततस्तृ॥