________________ 258 . . मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः इर्तिकान्यनेकानि खण्डान्युत्किरति निक्षिपति च / तानि च तावद् यावद् द्विचरमं स्थितिखण्डम् / द्विचरमात्तु स्थितिखण्डाद् चरमखण्डं सक्येयगुणम् / चरमे च स्थितिखण्डे उत्कीर्णे सति असौ क्षपकः कृतकरण इत्युच्यते / अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित् कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते / लेश्यायामपि च पूर्व शुक्ललेश्यायामासीत् , सम्प्रति त्वन्यतमस्यां गच्छति / तदेवं प्रस्थापको मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु भवति / उक्तं च पैट्ठवगो उ मणूसो, निट्ठवगो चउसु वि गईसु // ( ) - इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिनां च क्षयादनन्तरं मरणसम्भवतो व्युपरमते, ततः कदाचिद् मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् / क्षीणमिथ्यादर्शनस्तु नोपचिनोति, बीजाभावात् / क्षीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषत्पद्यते / प्रतिपतितपरिणामस्तु नानापरिणामसम्भवाद् यथापरिणाममन्यतमस्यां गतावुत्पद्यते / उक्तं च बैद्धाऊ पडिबन्नो, पढमसायक्खए जइ मरिजा / तो मिच्छत्तोदयओ, चिणिज्ज भूयो न खीणम्मि // तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे / उवरयपरिणामो पुण, पच्छा नाणामइगईओ॥(विशेषा० गा० 1316-17) बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमारभते, यत आह _ बद्धाऊ पडिवन्नो, नियमा खीणम्मि सत्तए ठाइ / (विशेषा० गा० 1325) अथोच्येत–क्षीणसप्तको गत्यन्तर सङ्क्रामन् कतितमे भवे मोक्षमुपयाति ! उच्यतेतृतीये चतुर्थे वा भवे / तथाहि-यदि देवगति नरकगतिं वा सङ्गामति ततो देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति / अथ तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते तर्हि सोऽवश्यमसयेयवर्षायुष्केषु मध्ये गच्छति न सहयेयवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवे, तस्माच्च देवभवात् च्युत्वा मनुष्यभवे, ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् / उक्तं च पञ्चसहे 1 सं० 1 त० म० रमस्थिति // 2 सं०१ त० म०पको भूत्वा म // 3 प्रस्थापकस्तु मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु // 4 बद्धायुः प्रतिपन्नः प्रथमकषायक्षये यदि म्रियेत। ततो मिथ्यात्वोदयतः चिनुयाद् भूयो न क्षीणे // तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे / उपरतपरिणामः पुनः पश्चाद् नानामतिगतिकः // // 5 सं०१ त० म० °णागइमईओ // 6 बदायुः प्रतिपनो नियमात् क्षीणे सप्तके तिष्ठति // 7 छा० मुद्रि० योच्यते-क्षी //