________________ 250 मलयमिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः यथाप्रवृत्तकरणमपूर्वकरणं च परिपूर्ण भवति। नवरमिहापूर्वकरणे गुणसङ्क्रमो न वक्तव्यः, किन्तु स्थितिघात-रसघात-स्थितिबन्ध-गुणश्रेणय एव वक्तव्याः, गुणश्रेणिदलिकरचनाऽप्युदयसमयादारभ्य वेदितव्या / ततोऽनिवृत्तिकरणेऽप्येवमेव वक्तव्यम् / अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु सत्सु एकस्मिन् सङ्ख्येयतमे भागेऽवतिष्ठमानेऽन्तर्मुहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तर्मुहूर्तप्रमाणं प्रथमस्थितेः किञ्चित् समधिकम् अभिनवस्थितिबन्धाद्धासमेन अन्तर्मुहूर्तेन कालेन करोति / अन्तरकरणसत्कं च दलिकमुत्कीर्य प्रथमस्थितौ द्वितीयस्थिती च प्रक्षिपति / प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण यत् प्रथमस्थितिगतं दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणा / यत् पुनर्द्वितीयस्थितेः सकाशाद् उदीरणाप्रयोगेणैव दलिकं समाकृष्य उदये प्रक्षिपति सा आगाल इति / उदीरणाया एव विशेषप्रतिपत्त्यर्थमागाल इति द्वितीयं नाम पूर्वसूरिभिरावेदितम् / उदय-उदीरणाभ्यां च प्रथमस्थितिमनुभवन् तावद् गतो यावदावलिकाद्विकं शेषं तिष्ठति / तस्मिंश्च स्थिते आगालो व्यवच्छिद्यते / तत उदीरणैव केवला प्रवर्तते / साऽपि तावद् यावदावलिकाशेषो न भवति / आवलिकायां तु शेषीभूतायामुदीरणाऽपि निवर्तते / ततः केवलेनैवोदयेनावलिकामात्रमनुभवति / आवलिकामात्रचरमसमये च द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति / तद्यथा-सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति / उक्तं च कर्मप्रकृतिचूर्णी चरमसमयमिच्छद्दिट्ठी सेकाले उवसमसम्मदिट्टी होहिइ ताहे बिईयठिई तिहाणुभागं करेइ, तंजहा—सम्मत्तं सम्मामिच्छत्तं मिच्छत्तं च / ( ) इति / ततोऽनन्तरसमये मिथ्यात्वदलिकस्योदयाभावाद् औपशमिकं सम्यक्त्वमवामोति। उक्तं च मिच्छत्तुदए झीणे, लहए सम्मत्तमोवसमियं सो। लंभेण जस्स लब्भइ, आयहियमलद्धपुवं जं // ( कर्मप्र० गा० 330) एष च प्रथमसम्यक्त्वलाभो मिथ्यात्वस्य सर्वोपशमनाद् भवति। उक्तं च सम॑त्तपढमलंभो सधोवसमा (कर्मप्र० गाथा० 335) इति / सम्यक्त्वं चेदं प्रतिपद्यमानः कश्चिद् देशविरतिसहितं प्रतिपद्यते, कश्चित् सर्वविरतिसहितम् / उक्तं च पश्चसनहे-- सम्मत्तेणं समगं, सबं देसं च कोइ पडिवजे / (गा० 760) 1 सं० 2 पति सा आगाल इति। उदीरणैव पूर्वसूरिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते। उदय / छा० मुद्रि० पति सा उदीरणाऽपि पूर्वसूरिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते / उदय // 2 सं० १त० छा० काशेषा न // 3 चरमसमयमिथ्यादृष्टिः एष्यत्काले उपशमसम्यग्दृष्टिर्भविष्यति तदा द्वितीयस्थिति विधानुभागं करोति, तद्यथा-सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं च // 4 मिथ्यात्वोदये क्षीणे लभते सम्यक्त्वमौपशमिकं सः। लाभेन यस्य लभते आत्महितमलब्धपूर्व यत् // 5 सं०१ त०म० मुद्रि०स्स लंभइ // 6 सम्यक्त्वप्रथमलाभः सर्वोपशमात् // 7 सम्यक्त्वेन समकं सर्वं देशं च कोऽपि प्रतिपद्येत //