________________ 249 61) चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / . वेधमानासु परप्रकृतिषु स्तिबुकसक्रमेण सङ्गमयति / अन्तरकरणे कृते सति द्वितीये समयेऽनन्तानुबन्धिनामुपरितनस्थितिगतं दलिकमुपशमयितुमारभते / तद्यथा-प्रथमसमये स्तोकमुपशमवति, द्वितीयसमयेऽसङ्ख्येयगुणम् , ततोऽपि तृतीयसमयेऽसङ्ख्येयगुणम्, एवं यावदन्तर्मुहूर्तम् / एतावता च कालेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति / उपशमिता नाम-यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्य अभिषिच्य द्रुघणादिभिर्निकुट्टितो निःस्यन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिच्य परिषिच्य अनिवृत्तिकरणरूपद्रुघणनिकुट्टितः सक्रमण-उदय-उदीरणा-निर्धत्ति-निकाचनाकरणानामयोग्यो भवति / तदेवमेकेषामाचार्याणां मतेनानन्तानुबन्धिनामुपशमनाऽभिहिता / अन्ये त्वाचक्षतेअनन्तानुबन्धिनामुपशमना न भवति, किन्तु विसंयोजनैव / विसंयोजना क्षपणा, सा चैवम् इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका अॅपि वेदकसम्यग्दृष्टयो देशविरतास्तिर्यञ्चो मनुष्या वा सर्वविरता मनुष्या एव सर्वाभिः पर्याप्तिभिः पर्याप्ता अनन्तानुबन्धिनां क्षपणार्थं यथाप्रवृत्तादीनि त्रीणि करणानि कुर्वन्ति / करणवक्तव्यता च सर्वाऽपि प्रागिव निरवशेषा वेदितव्या / नवरमिहानिवृत्तिकरणे प्रविष्टः सन् अन्तरकरणं न करोति / उक्तं च कर्मप्रकृती चउगइया पजत्ता, तिन्नि वि संजोयणे विजोयति / / करणेहिं तीहिँ सहिया, नंतरकरणं उवसमो वा // (गा० 343) किन्तु कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासक्रमेणाधस्तादावलिकामानं मुक्त्वा उपरि निरवशेषान् अनन्तानुबन्धिनो विनाशयति / आवलिकामात्रं तु स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृतिषु समयति / ततोऽनन्तरमन्तर्मुहूर्तात् परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघात-रसघात-गुणश्रेणयो न भवन्ति किन्तु स्वभावस्थ एव स जीवो जायते / तदेवमुक्ता अनन्तानुबन्धिनां विसंयोजना, सम्प्रति दर्शनत्रिकस्योपशमना भण्यते--तत्र मिथ्यात्वस्योपशमना मिथ्यादृष्टवेदकसम्यग्दृष्टेश्च / सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु वेदकसम्यग्दटेरेव / तत्र मिथ्यादृष्टेर्मिथ्यात्वोपशमना प्रथमसम्यक्त्वमुत्पादयतः। सा चैवम्—पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्तः करणकालात् पूर्वमप्यन्तर्मुहूर्त कालं प्रतिसमयमनन्तगुणवृद्धया विशुद्ध्या प्रवर्धमानोऽभव्यसिद्धिकविशुद्ध्यपेक्षया अनन्तगुणविशुद्धिको मति-श्रुताज्ञान-विभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे उपयुक्तोऽन्यतमस्मिन् योगे वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिमाणेन पद्मलेश्यायां उत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो मिथ्यादृष्टिश्चतुर्गतिकोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा इत्यादि पूर्वोक्तं तदेव तावद् वक्तव्यं यावद् 1 सं० छा० मुद्रि० हूर्त कालम्, एता // 2 सं०१ त० छा० म० °भिनिःकुट्टि / 3 सं० 1 त० छा० म० णनिःकुट्टि॥ 4 छा० मुद्रि० धत्तनि deg // 5 सं०१ त० म० अपि अविरतसम्य // 6 सं०१त. म. रताश्च तिर्य // 7 चतुर्गतिकाः पर्याप्तास्त्रयोऽपि संयोजनान् वियोजयन्ति / करणैत्रिभिः सहिता नान्तरकरणमुपशमो वा॥ 8 सं० 1 त० म० हूतेकालं / / 32