________________ 248 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः स्यानम्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति / एवमनेकान्यनुभागखण्डसहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति / तेषां च स्थितिखण्डानां सहस्ररपूर्वकरणं परिसमाप्यते। गुणश्रेणिर्नाम—अन्तर्मुहूर्तप्रमाणानां स्थितिनामुपरि याः स्थितयो वर्तन्ते तन्मध्यादलिक गृहीत्वा उदयावलिकाया उपरितनीषु स्थितिषु प्रतिसमयमसङ्ख्येयगुणतया निक्षिपति / तद्यथा-- प्रथमसमये स्तोकम् , द्वितीयसमयेऽसङ्ख्येयगुणम् , ततोऽपि तृतीये समयेऽसञ्चयेयगुणम् , एवं तावद् नेयं यावदन्तर्मुहूर्तचरमसमयः / तच्चान्तर्मुहूर्तमपूर्वकरणा-ऽनिवृत्तिकरणकालाभ्यां मनागतिरिक्तं वेदितव्यम् / एष प्रथमसमयगृहीतदलिकस्य निक्षेपविधिः / एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपो वक्तव्यः / अन्यच्च-गुणश्रेणिरचनाय प्रथमसमये यद् दलिकं गृह्यते तत् स्तोकम् , ततोऽपि द्वितीयसमयेऽसङ्ख्येयगुणम् , ततोऽपि तृतीयसमयेऽसयेयगुणम् , एवं तावद् ज्ञेयं यावद् गुणश्रेणिकरणचरमसमयः। अपूर्वकरणसमयेषु अनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति, उपरि च न वर्धते / गुणसङ्क्रमो नाम-अपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्ध्यादीनामशुभप्रकृतीनां दलिक यत् परप्रकृतिषु सङ्क्रमयति तत् स्तोकम् , ततो द्वितीयसमये परप्रकृतिषु सङ्गम्यमाणमसङ्घयेयगुणम् , ततोऽपि तृतीयसमयेऽसद्ध्येयगुणम् , एवं चतुर्थसमयादिष्वपि वक्तव्यम् / ___अन्यः स्थिति बन्धो नाम----अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः स्तोकः स्थितिबन्ध आरभ्यते / स्थितिबन्ध-स्थितिघातौ च युगपदारभ्येते युगपदेव च निष्ठां यातः / एवमेते पञ्च पदार्था अपूर्वकरणे प्रवर्तन्ते / अनिवृत्तिकरणं नाम-यत्र प्रविष्टानां सर्वेषामपि तुल्यकालानामेकमेवाध्यवसायस्थानम् / तथाहि-अनिवृत्तिकरणस्य प्रथमसमये ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषीमप्येकरूपमेवाध्यवसायस्थानम् , द्वितीयसमयेऽपि च ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषामपि सर्वेषामेकरूपमध्यवसायस्थानम् , नवरं प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणम्, एवं तावद् वक्तव्यं यावदनिवृत्तिकरणचरमसमयः / अत एवास्मिन करणे प्रविष्टानां तुल्यकालानामसुमतां सम्बन्धिनामध्यवसायस्थानानां परस्परं निवृत्तिः-व्यावृत्तिर्न विद्यते इत्यनिर्वृत्तीति नाम / अस्मिंश्वानिवृत्तिकरणे यावन्तः समयास्तावन्त्यध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धानि / एतानि च मुक्तावलीसंस्थानेन स्थापयितव्यानि अत्रापि च प्रथमसमयादेवारभ्य पूर्वोक्ताः पञ्च पदार्था युगपत् प्रवर्तन्ते / अनिवृत्तिकरणा- द्धायाश्च सङ्घयेयतमेषु भागेषु गतेषु सत्सु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तर्मुहूर्तप्रमाणमन्तरकरणमभिनवस्थितिबन्धाद्धासमेनान्तर्मुहूर्तप्रमाणेन कालेन करोति, अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं परप्रकृतिषु बध्यमानासु प्रक्षिपति, प्रथमस्थितिगतं च दलिकमावलिकामानं 1 सं 1 त० छा० °प: शेषे भव // 2 सं० 1 त० म० °षामकेरू° // 3 सं० 1 त० °न् प्रविष्टा // 4 सं० छा० मुद्रि० °वृत्तिकरणमिति नाम // 5 सं०१ त० म० °षु एक° / /