________________ 251 62 ] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / ततो देशविरत-प्रमत्ता-प्रमत्तसंयतेष्वपि मिथ्यात्वमुपशान्तं लभ्यते / सम्प्रति वेदकसम्यग्दृष्टेस्त्रयाणामपि दर्शनमोहनीयानामुपशमनाविधिरुच्यते-इह वेदकसम्यग्दृष्टिः संयमे वर्तमानः सन् अन्तर्मुहूर्तमात्रेण कालेन दर्शनत्रितयमुपशमयति, उपशमयतश्च करणत्रिकविधिः पूर्ववत् तावद् वक्तव्यो यावदनिवृत्तिकरणाद्धायाः सङ्ख्येयेषु भागेषु गतेषु सत्सु अन्तरकरणं करोति, अन्तरकरणं च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्तप्रमाणां स्थापयति, मिथ्यात्व-मिश्रयोश्चावलिकामात्राम् , उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्व-मिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थैितिदलिकमध्ये स्तिबुकसक्रमेण सङ्कमयति, सम्यक्त्वस्य पुनःप्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायां सत्यामौपशमिकसम्यग्दृष्टिर्भवति / उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुबन्धिनामुपरितनदलिकस्येवावसेया / एवमुपशान्तदर्शनमोहनीयत्रिकश्चारित्रमोहनीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति, करणानां च स्वरूपं प्राग्वदवगन्तव्यम्, केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम् , अपूर्वकरणमपूर्वकरणगुणस्थानके, अनिवृत्तिकरणमनिवृत्तिबादरसम्परायगुणस्थानके / तत्र चापूर्वकरणे स्थितिघातादयः पूर्ववदेव प्रवर्तन्ते, नवरमिह सर्वासामशुभप्रकृतीनामबध्यमानानां गुणसङ्क्रमः प्रवर्तते इति वक्तव्यम् / अपूर्वकरणाद्धायाश्च सङ्ख्येयतमे भागे गते सति निद्रा-प्रचलयोर्बन्धव्यवच्छेदः / ततः प्रभूतेषु स्थितिखण्डसहस्रेषु गतेषु सत्सु अपूर्वकरणाद्धायाः सङ्ख्येया भागा गता भवन्ति, एकोऽवशिष्यते। अस्मिंश्चान्तरे देवगति-देवानुपूर्वी-पञ्चेन्द्रियजाति-वैक्रिया-ऽऽहारक-तैजस-कार्मण-समचतुरस-वैक्रियाङ्गोपाङ्गा-ऽऽहारकाङ्गोपाङ्ग-वर्णादिचतुष्टया-ऽगुरुलघु-उपघात-पराघात-उच्छास-त्रसबादर-पर्याप्त-प्रत्येक-प्रशस्तविहायोगति-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-निर्माण-तीर्थकरसंज्ञितानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः / ततः स्थितिखण्डपृथक्त्वे गते सति अपूर्वकरणाद्धायाश्चरमसमये हास्य-रति-भय-जुगुप्सानां बन्धव्यवच्छेदो हास्य-रति-अरति-शोक-भय-जुगुप्सानामुदयः सर्वकर्मणां च देशोपशमना-निधत्ति-निकाचनाकरणानि व्यवच्छिद्यन्ते / ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति / अत्रापि स्थितिघातादीनि पूर्ववत् करोति / ततोऽनिवृत्तिकरणाद्धायाः सत्येयेषु भागेषु गतेषु सत्सु दर्शनसप्तकशेषाणामेकर्शितेर्मोहनीयप्रकृतीनामन्तरकरणं करोति / तत्र चतुर्णां संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेद्यमानस्य वेदस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा। अन्येषां चैकादशकषायाणामष्टानां च नोकषायाणां प्रथैमा स्थितिरावलिकामात्रा / स्वोदयकालप्रमाणं च चतुर्थों संज्वलनानां त्रयाणां च वेदानामिदम्-स्त्रीवेद-नपुंसकवेदयोरुदयकालः सर्वस्तोकः, खस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्य सङ्ख्थेयगुणः, ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः, ततोऽपि - 1 सं०१ त० म० णत्रितयवि // 2 सं०म० मात्र उत्की / सं० 1 मात्र उदीरणां उत्की° // 3 सं०१त० म० °स्थितिमध्ये // 4 छा० रणं चानिवृत्तिबादरगुण° // 5 सं० 1 त० म० °संख्येयतमा भा° // 6 छा० मुद्रि० शतिमोह° // 7 सं० 1 त० छा० म० थमस्थि //